3rd Sem, C-7, Unit-I,
लघुसिद्धान्तकौमुदी
(पदसाधनम्—रमा—प्रथमा--तृतीया)
१. रमा—रमा-शब्दस्य प्रथमैकवचनस्य रूपम्। रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण
अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्-प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> रमा स् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> रमा (ʻहल्ङ्याब्भो दीर्घात् सुतिस्यपृक्तं हल्ʼ इत्यनेन सूत्रेण अपृक्त-हलः सकारस्य लोपे ʻरमाʼ इति रूपं सिद्धम्)।
२. रमे-- रमा-शब्दस्य प्रथमा-द्विवचनस्य रूपम्। रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्-प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य पकारः इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा औ (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे प्रथमा-द्विवचने औ-विभक्तिः),
> रमा शी (ʻऔङ आपःʼ इत्यनेन सूत्रेण आबन्तात् रमा-शब्दात् उत्तरं औकार-स्थाने शी इत्यादेशः),
> रमा ई (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻशीʼ इत्यस्य आदिः शकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमे (ʻआद्गुणःʼ इत्यनेन सूत्रेण पूर्वपरयोः एकार-गुणादेशे ʻरमेʼ इति रूपं सिद्धम्)।
३. रमाः-- रमा-शब्दस्य प्रथमा-बहुवचनस्य रूपम्। रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण
अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्-प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा जस् (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे प्रथमा-बहुवचने जस्-विभक्तिः),
> रमा जस् (ʻचुटूʼ इत्यनेन सूत्रेण ʻजस्ʼ इत्यस्य आदिः जकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः, ʻहलन्त्यम्ʼ इत्यनेन ʻजस्ʼ इत्यस्य सकारस्य इत्संज्ञाप्राप्तौ ʻन विभक्तौ तुस्माःʼ इत्यनेन तस्य निषेधः),
> रमास् (ʻप्रथमयोः पूर्वसवर्णःʼ इत्यनेन पूर्वपरयोः सवर्णदीर्घः आकारः एकादेशः),
> रमारु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकार-स्थाने ʻरुʼ इत्यादेशः),
> रमार् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> रमाः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻरमार्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻरमाःʼ इति रूपं सिद्धम्)।
४. रमाम्-- रमा-शब्दस्य द्वितीयैवचनस्य रूपम्।
रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्-प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा अम् (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे द्वितीयैवचने अम्-विभक्तिः),
> रमाम् (ʻप्रथमयोः पूर्वसवर्णःʼ इत्यनेन पूर्वपरयोः सवर्णदीर्घे प्राप्ते, ʻअमि पूर्वःʼ इत्यनेन सूत्रेण तस्य वाधः, ततः ʻरमाʼ इत्यस्य मकारोत्तरवर्तिनः अकः आकारात् अमि अचि अकारे परे पूर्वरूपमेकादेशे ʻरमाम्ʼ इति रूपं सिद्धम्)।
५. रमे-- रमा-शब्दस्य द्वितीया-द्विवचनस्य रूपम्। रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्-प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा औट् (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे द्वितीया-द्विवचने औट्-विभक्तिः),
> रमा औ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण औट्-प्रत्ययस्य अन्त्यः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> रमा शी (ʻऔङ आपःʼ इत्यनेन सूत्रेण आबन्तात् रमा-शब्दात् उत्तरं औकार-स्थाने शी इत्यादेशः),
> रमा ई (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻशीʼ इत्यस्य आदिः शकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमे (ʻआद्गुणःʼ इत्यनेन सूत्रेण पूर्वपरयोः एकार-गुणादेशे ʻरमेʼ इति रूपं सिद्धम्)।
६. रमाः-- रमा-शब्दस्य द्वितीया-बहुवचनस्य रूपम्। रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्-प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा शस् (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे द्वितीया-बहुवचने शस्-विभक्तिः),
> रमा शस् (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻशस्ʼ इत्यस्य आदिः शकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः, ʻहलन्त्यम्ʼ इत्यनेन ʻशस्ʼ इत्यस्य अन्त्य-सकारस्य इत्संज्ञाप्राप्तौ ʻन विभक्तौ तुस्माःʼ इत्यनेन तस्य निषेधः),
> रमास् (ʻप्रथमयोः पूर्वसवर्णःʼ इत्यनेन पूर्वपरयोः सवर्णदीर्घः आकारः एकादेशः),
> रमारु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकार-स्थाने ʻरुʼ इत्यादेशः),
> रमार् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> रमाः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻरमार्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻरमाःʼ इति रूपं सिद्धम्)।
७. रमया-- रमा-शब्दस्य तृतीयैकवचनस्य रूपम्। रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्-प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा टा (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे तृतीयैकवचने टा-विभक्तिः),
> रमे टा (ʻआङि चापःʼ इत्यनेन सूत्रेण ʻटाʼ इति परतः आबन्ताङ्गस्य ʻरमाʼ इत्यस्य आकार-स्थाने एकारादेशः),
> रमे आ (ʻचुटूʼ इत्यनेन सूत्रेण ʻटाʼ इत्यस्य आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> रमय् आ (ʻएचोऽयवायावःʼ इत्यनेन सूत्रेण अचि आकारे परे ʻरमेʼ इत्यस्य एचः एकारस्य स्थाने अय्, अव्, आय्, आव् इति आदेश-चतुष्टये प्राप्ते, ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया केवलम् अयादेशः),
> रमया (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्परसंयोगे ʻरमयाʼ इति पदं सिद्धम्)।
८. रमाभ्याम्-- रमा-शब्दस्य तृतीया-द्विवचनस्य / चतुर्थी-द्विवचनस्य / पञ्चमी-द्विवचनस्य रूपम्।
रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्-प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमाभ्याम् (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे तृतीया-द्विवचने / चतुर्थी-द्विवचने / पञ्चमी-द्विवचने भ्याम्-विभक्तौ ʻरमाभ्याम्ʼ इति दं सिद्धम्)।
९. रमाभिः-- रमा-शब्दस्य तृतीया-बहुवचनस्य रूपम्। रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्-प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा भिस् (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे तृतीया-बहुवचने भिस्-विभक्तिः),
> रमाभिरु (ʻहलन्त्यम्ʼ इत्यनेन ʻभिस्ʼ इत्यस्य सकारस्य इत्संज्ञाप्राप्तौ ʻन विभक्तौ तुस्माःʼ इत्यनेन तस्य निषेधः, ततः ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकार-स्थाने ʻरुʼ इत्यादेशः),
> रमाभिर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> रमाभिः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻरमाभिर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻरमाभिःʼ इति रूपं सिद्धम्)।
Comments