ads

ad

3rd sem, C-5, संक्षिप्तम् प्रश्नोत्तरम्—लौकिकसंस्कृतसाहित्येतिहासः-2



नाट्यसाहित्यम्

१.  किं तावद् दृश्यकाव्म्?
उत्तरम्—संस्कृते रूपकं दृश्यकाव्यम् इत्युच्यते। दृश्यम् अभिनययोग्यं काव्यम्।

२. भारतीय-नाट्यशास्त्रस्य प्राचीनतमः ग्रन्थः कः? तस्य रचयिता कः?
उत्तरम्-- भारतीय-नाट्यशास्त्रस्य प्राचीनतमः ग्रन्थः नाट्यशास्त्रम् इति। तस्य रचयिता भरतमुनिः इति।

३. प्राक्कालिदास-युगस्य प्रख्यातः नाट्यकारः कः? तेन कति रूपकाणि रचितानि? तेषां नामानि लिखत।
उत्तरम्-- प्राक्कालिदास-युगस्य प्रख्यातः नाट्यकारः भासः। तेन त्रयोदश रूपकाणि रचितानि। यथा—
रामायणाश्रितम्-- प्रतिमानाटकम्, अभिषेकनाटकम् च।
महाभारताश्रितम्—मध्यमव्यायोगः, दूतवाक्यम्. उरुभङ्गम्, कर्णभारम्, दृतघटोत्कचः, पञ्चरात्रम् चेति।
उदयनकथाश्रितम्—प्रतिज्ञायौगन्धरायणम्, स्वप्नवासवदत्तम् च।
लोककथाश्रितम्—अविमारकम् चारुदत्तम् चेति।
कृष्णचरिताश्रितम्—बालचरितम् इति।

५. अश्वघोषस्य नाट्यकृतेः नाम तिखत।
उत्तरम्—अश्वघोषस्य एकमात्रं नाट्यकृतिः शारिपुत्रप्रकरणम् इति। इदं प्रकरणजातीयं रूपकम्।

६. संस्कृतनाट्यसाहित्यस्य एकमात्रं वियोगान्तं रूपकं किम्?
उत्तरम्-- संस्कृतनाट्यसाहित्यस्य एकमात्रं वियोगान्तं रूपकं भासस्य उरुभङ्गम् इति।

७.  कालिदास-रचितानां नाचकानां नामानि लिखत।
उत्तरम्—कालिदास-रचितानि त्रीणि नाटकानि सन्ति। यथा—मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशकुन्तलम् चेति।

८. कालिदासोत्तरकालस्य चतुर्णां नाट्यकाराणां नामानि लिखत।
उत्तरम्-- कालिदासोत्तरकालस्य चत्वारः नाट्यकाराः यथा—भवभूतिः, श्रीहर्षः, भट्टनारायणः, विशाखदत्तश्चेति।

९. भवभूति-रचितानां रूपकाणां नामानि लिखत।
उत्तरम्-- भवभूति-रचितानि त्रीणि रूपकाणि सन्ति। यथा—मालतीमाधवम्, महावीरचरितम्, उत्तररामचरितम् चेति। एषां मध्ये मालतीमाधवम् प्रकरणम्, महावीरचरितम्, उत्तररामचरितम् चेति नाटकद्वयम्।

१०. श्रीहर्ष-रचितानां रूपकाणां नामानि लिखत।
उत्तरम्-- श्रीहर्ष-रचितानि त्रीणि रूपकाणि सन्ति। यथा—रत्नावली, नागानन्दः, प्रियदर्शिका चेति।

११. भट्टनारायण-रचितस्य नाटकस्य नाम लिख्यताम्।
उत्तरम्-- भट्टनारायण-रचितं नाटकं वेणीसंहारम् इति।

१२. राजशेखर-रचितानाम् रूपकाणां नामानि लिखत।
उत्तरम्-- राजशेखर-रचितानि चत्वारि रूपकाणि सन्ति। यथा—बालरामायणम्, बालभारतम्, कर्पूरमञ्जरी, विद्धशालभञ्जिका चेति।

१३.  कः कस्य रूपकस्य रचयिता लिख्यताम्—मृच्छकटिकम् / मुद्रराक्षसम् / प्रबोधचन्द्रोदयः ।
उत्तरम्-- मृच्छकटिकम् इति प्रकरणस्य रचयिता शूद्रकः।
 मुद्रराक्षसम् इति नाटकस्य रचयिता विशाखदत्तः इति।
 प्रबोधचन्द्रोदयः इति नाटकस्य रचयिता कृष्णमिश्रः इति।

१४. संस्कृतसाहित्ये प्रख्यातं प्रकरणद्वयं किम्? तयोः लेखकयोः नामनी लिखत।
उत्तरम्-- संस्कृतसाहित्ये प्रख्यातं प्रकरणद्वयं—मृच्छकटिकम्, मालतीमाधवम् चेति। मृच्छकटिकस्य रचयिता शूद्रकः। मालतीमाधवस्य रचयिता भवभूतिः इति।

१५. संस्कृतसाहित्ये प्रख्यातम्  राजनैतिकं नाटकं किम्? तस्य रचयिता कः?
उत्तरम्-- संस्कृतसाहित्ये प्रख्यातम्  राजनैतिकं नाटकं मुद्राराक्षसम् इति। तस्य रचयिता विशाखदत्तः। एतद्व्यतिरिक्तं भासस्य प्रतिज्ञायौगन्धरायणम् अपि राजनैतिक-वैशिष्ट्ययुक्तम्।

१६. विशाखदत्तस्य मुद्राराक्षसनाटके प्राचीनभारतस्य कः विख्यातः राजनीतिविद् अङ्गितः?
उत्तरम्-- विशाखदत्तस्य मुद्राराक्षसनाटके प्राचीनभारतस्य विख्यातः राजनीतिविद् चाणक्यः अङ्कितः।

१७. रामायणकथामाश्रित्य रचितस्य भवभूतेः नाटकद्वयस्य नाम लिखत।
उत्तरम्-- रामायणकथामाश्रित्य रचितम् भवभूतेः नाटकद्वयं यथा-- महावीरचरितम्, उत्तररामचरितम् चेति।

१८. का तावत् चतुर्भाणी?
उत्तरम्—संस्कृतसाहित्ये चत्वारि भाणजातीय-रूपकाणि एकत्र चतेर्भाणी इत्युच्यते। तानि यथा—
शूद्रकस्य पद्मप्राभृतकम्, वररुचेः उभयाभिसारिका, श्यामिलकस्य पादताडितकम्, ईश्वरदत्तस्य धूर्तविटसंवादः चेति।

१९. संस्कृतसाहित्ये किं तावत् प्रख्यातं छायानाटकम्? तस्य रचयिता कः?
उत्तरम्-- संस्कृतसाहित्ये प्रख्यातं छायानाटकम् दूताङ्गदम्।  तस्य रचयिता सुभटः।
अन्यानि छायानाटकानि—कवेः कुलशेखरवर्मणः सुभद्राधनञ्जयम्, सुभद्रापरिणयम्, माधवभट्टस्य सुभद्राहरणम्, काञ्चनाचार्यस्य धनञ्जयविजयम् इत्यादीनि।

२०. संस्कृतसाहित्यस्य एकस्य प्रहसनस्य नाम लिखत। तस्य रचयिता कः?
उत्तरम्-- संस्कृतसाहित्यस्य एकं प्रख्यातं प्रहसनं यथा—मत्तविलासः। तस्य रचयिता महेन्द्रविक्रमः।

२१. संस्कृतसाहित्यस्य प्रतीकधर्मिनः कस्यचित् नाटकस्य नाम लिखत।
उत्तरम्—संस्कृतसाहित्यस्य एकं प्रतीकधर्मि नाटकम् प्रबोधचन्द्रोदयः इति। अस्य रचयिता कृष्णमिस्रः।
अन्यानि रूपकाणि—जैनकवेः यशःपालस्य मोहपराजयः, वेदान्तदेशिकस्य सङ्कल्पसूर्योदयः, परमानन्द-दाससेनस्य चैतन्यचन्द्रोदयः इत्यादीनि।

२२. किं खलु प्राकृतभाषया विरचितं राजशेखरस्य रूपकम्?
उत्तरम्-- प्राकृतभाषया विरचितं राजशेखरस्य रूपकं कर्पूरमञ्जरी इति।

२३. भास-रचितानाम् एकाङ्करूपकाणानां नामानि लिखथ।
उत्तरम्-- भास-रचितानि एकाङ्करूपकाणि पञ्च। यथा—दूतवाक्यम्, दूतघटोत्कचम्, कर्णभारम्, उरुभङ्गम्, मध्यमव्ययोगश्चेति।

२४. प्राक्कालिदासकालस्य विध्यातः बौद्धकविः कः? तस्य रूपकस्य नाम लिख्यताम्।
उत्तरम्-- प्राक्कालिदासकालस्य विध्यातः बौद्धकविः आसीत् अश्वघोषः। तस्य रूपकस्य नाम शारिपुत्तप्रकरणम् (शारिपुत्रप्रकरणम्)। इदं प्रकरणजातीयं रूपकम्।

२५. संस्कृतसाहित्यस्य वीररसप्रधान-नाटकद्वयस्य नाम लिख्यताम्।
उत्तरम्-- संस्कृतसाहित्यस्य वीररसप्रधान-नाटकद्वयं यथा—विशाखदत्त-रचितं मुद्राराक्षसम्, भवभूति-रचितम् महावीरचरितम् चेति। भट्टनारायणस्य वेणीसंहारम् अपि वीररसप्रधानं नाटकम्।

२६. रूपगोस्वामि-रचितस्य नाटकद्वयस्य नाम लिखत।
उत्तरम्-- रूपगोस्वामि-रचितं नाटकद्वयं यथा—विदग्धमाधवम्, ललितमाधवम् चेति।

२७. संस्कृतसाहित्ये किं तावत् प्रस्तावना-विष्कम्भक-विदूषक-प्राकृतभाषा-वर्जितं नाटकम्?
उत्तरम्-- संस्कृतसाहित्ये प्रस्तावना-विष्कम्भक-विदूषक-प्राकृतभाषा-वर्जितं नाटकं खलु महानाटकम् हनुमन्नाटकम् वा। संस्कृतभाषया रचितेषु इदं वृहत्तमं नाटकम्। अस्य वङ्गीयसंस्करणे दश अङ्काः, तथा पश्चिमीसंस्करणे चतुर्दश अङ्काः सन्ति।

२८. संस्कृतसाहित्ये कः स्वयम् ʻयायावरीयःʼ इति आख्यायितः? तद्रचितानां रूपकाणां नामानि लिखत।
उत्तरम्-- संस्कृतसाहित्ये राजशेखरः स्वयम् ʻयायावरीयःʼ इति आख्यायितः? तद्रचितानि चत्वारि रूपकाणि सन्ति। यथा—बालरामायणम्, बालभारतम्, कर्पूरमञ्जरी, विद्धशालभञ्जिका चेति।

२९. ʻबालवाल्मीकिःʼ इत्यनेन कः आत्मनः परिचयं दत्तवान्? तस्य नाटकस्य नाम लिख्यताम्।
उत्तरम्—नाट्यकारः मुरारिः ʻबालवाल्मीकिःʼ इत्यनेन आत्मनः परिचयं दत्तवान्। तस्य नाटकस्य नाम अनर्घराघवम्।

३०. भवभूतेः प्रकृतं नाम किम्?
उत्तरम्-- भवभूतेः प्रकृतं नाम श्रीकण्ठः। केचित् पुनः उम्बेकाचार्यः इत्युच्यते।

३१. संस्कृतनाटके कतिविधं संलापं दृश्यते?
उत्तरम्-- संस्कृतनाटके पञ्चविधं संलापं दृश्यते। यथा—प्रकाशम्, स्वगतम्, अपवारितम्, जनान्तिकम्, आकाशभाषितम् चेति।

३२. नाट्यशास्त्रे उल्लिखितं किं तावत् ब्रह्मारचितं नाटकद्वयम्?
उत्तरम्-- नाट्यशास्त्रे उल्लिखितं ब्रह्मारचितं नाटकद्वयं यथा—अमृतमन्थनम्, त्रिपुरदाहश्चेति।

३३. संस्कृतनाट्यतत्त्वविषये कतिपय-ग्रन्थानां नामानि लिखत।
उत्तरम्-- संस्कृतनाट्यतत्त्वविषये कतिपय-प्रन्थाः यथा—भरतस्य नाट्यशास्त्रम्, धनञ्जयस्य दशरूपकम्, सागरनन्दी-रचितः नाटकलक्षणरत्नकोशः, विश्वनाथस्य साहित्यदर्पणः इति।

महाकाव्यम्

१. किं तावत् काव्यम्? कतिविधं च तत्?
उत्तरम्—कविकर्म इति काव्यम्। आचार्येण विश्वनाथेन उक्तम्-- ʻवाक्यं रसात्मकं काव्यम्।ʼ
संस्कृते काव्यं प्रधानतः द्विविधम्—दृश्यं श्रव्यं चेति। नाटकम्, प्रकरणम् इत्यादयः दश भेदाः दृश्यकाव्यस्य। श्रव्यकाव्यं तु गद्यं, पद्यं, चम्पूश्चेति त्रिविधम्।

२. किं तावत् महाकाव्यम्?
उत्तरम्—सर्गबन्धं काव्यं महाकाव्यम् इत्युच्यते-- ʻसर्गबन्धमहाकाव्यम्ʼ।

३. अश्वघोषस्य ग्रन्थानां नामानि तिखत।
उत्तरम्— बौद्धकवेः अश्वघोषस्य ग्रन्थाः—बुद्धचरितम्, सौन्दर्यनन्दम् चेति महाकाव्यद्वयम्; शारिपुत्रप्रकरणम् इति रूपकम्; तथा महायानश्रद्धोत्पादशास्त्रम्, सूत्रालङ्कारः, वज्रसूची, गण्डीस्तोत्रगाथा, त्रिदण्डमाला चेति बौद्धधर्मविषयकाः ग्रन्थाः।

४. कालिदास-रचितानां ग्रन्थानां नामानि लिखत।
उत्तरम्— कालिदास-रचितानि नाटकानि त्रीणि। यथा—मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशकुन्तलम् इति। द्वे महाकाव्ये। यथा—कुमारसम्भवम्, रघुवंशम् चेति। द्वे गीतिकाव्ये। यथा—मेघदूतम्, ऋतुसंहारम् चेति। सिंहासनद्वात्रिंशिका, ज्योतिर्विदाभरणम् चेति ग्रन्थद्वयमपि कालिदास-रचितम् इति केचित् मन्यन्ते।

५. कालिदासः कस्य अलङ्कारस्य प्रयोगे विख्यातः? तद्विषयकं प्रशंसासूचकं वाक्यं तिखत।
उत्तरम्— कालिदासः उपमा इति अलङ्कारप्रयोगे विख्यातः। तद्विषयकं प्रशंसासूचकं वाक्यं यथा-- ʻउपमा कालिदासस्यʼ।

६. निम्नोक्तानां कवीनां काव्यानां नामानि लिखत—
भारविः / माघः / कुमारदासः / भट्टिः / श्रीहर्षः / रत्नाकरः / भर्तृमेण्ठः / अभिनन्दः / देवप्रभः / शिवस्वामी।
उत्तरम्— भारवि-रचितं काव्यम् किरातार्जुनीयम्।
माघ-रचितं काव्यम् शिशुपालवधम्।
कुमारदास-रचितं काव्यम् जानकीहरणम्।
भट्टि-रचितं काव्यम् भट्टिकाव्यम्, रावणवधम् वा।
श्रीहर्ष-रचितं काव्यम् नैषधचरितम्।
रत्नाकर-रचितं काव्यम् हरविजयम्।
भर्तृमेण्ठ-रचितं काव्यम् हयग्रीववधम्।
अभिनन्द-रचितं काव्यम् रामचरितम्।
देवप्रभ-रचितं काव्यम् पाण्डवचरितम्।
शिवस्वामि- रचितं काव्यम् कप्पिनाभ्युदयः।

७. रघुवंशम् इति काव्यं केन विरचितम्? अत्र कति सर्गाः सन्ति?
उत्तरम्—महाकविना कालिदासेन रघुवंशं विरचितम्। अस्मिन् काव्ये ऊनविंशतिः सर्गाः सन्ति।

८. कुमारसम्भवम् इति काव्यं केन विरचितम्? अत्र कति सर्गाः सन्ति?
उत्तरम्—महाकविना कालिदासेन कुमारसम्भवम् विरचितम्। अस्मिन् काव्ये सप्तदश सर्गाः सन्ति। अत्र कुमारस्य कार्तिकेयस्य जन्मवृत्तान्तं वर्णितम्।

९. जानकीहरणम् केन रचितम्? अत्र कति सर्गाः सन्ति?
उत्तरम्-- जानकीहरणम् कुमारदासेन रचितम्? अत्र एकविंशतिः सर्गाः सन्ति। वाल्मीकेः रामायणम् उपजीव्य इदं रचितम्।

१०. किरातार्जुनीयम् केन रचितम्? अत्र कति सर्गाः सन्ति?
उत्तरम्-- किरातार्जुनीयम् भारविना रचितम्? अत्र अष्टादश सर्गाः सन्ति। महाभारतस्य वनपर्व उपजीव्य इदं रचितम्।

११. भारवेः अपरं नाम किम्? स कथं विख्यातः?
उत्तरम्—भारवेः अपरं नाम दामोदरः इति। भारविः अर्थगौरवप्रयोगे विख्यातः--ʻभारवेरर्थगौरवम्ʼ।

१२. ʻनारिकेलफलसम्मितं वचो भारवेःʼ इति केन कथमुक्तम्?
उत्तरम्—टीकाकारेण मल्लिनाथेन भारवेः रचनाशैलीविषये इदमुक्तम्। भारवि-रचितानां केषाञ्चित् श्लोकानाम् आपात-काठिन्यं लक्षीकृत्य तेन इदमुक्तम्।

१३. शिशुपालवधस्य वृत्तान्तं कस्मात् गृहीतम्? तत्र कति सर्गाः सन्ति?
उत्तरम्—माघ-रचितस्य शिशुपालवधस्य वृत्तान्तं महाभारतस्य सभापर्वणः गृहीतम्। तत्र विंशतिः सर्गाः सन्ति।

१४. भारविः कथम् ʻआतपत्रभारविःʼ, तथा माघः कथं ʻघण्टामाघःʼ इत्युच्यते?
उत्तरम्—विशेषोपमा-प्रयोगात् भारविः ʻआतपत्रभारविःʼ, तथा माघः कथं ʻघण्टामाघःʼ इत्युच्यते।

५. क आसीत् भट्टिः? तस्य कानि नामान्तराणि?
उत्तरम्—षष्ठख्रीष्टाब्दस्य विख्यातः संस्कृतकविः आसीत् भट्टिः। तस्य नामान्तराणि—भर्तृहरिः, भट्टस्वामी, भर्तृस्वामी, स्वामिभट्टः चेति।

६. भट्टिकाव्ये कति सर्गाः सन्ति? कस्मात् ग्रन्थात् अस्य वृत्तान्तं गृहीतम्?
उत्तरम्-- भट्टिकाव्ये द्वाविंशतिः सर्गाः सन्ति? वाल्मीकेः रामायणात् अस्य वृत्तान्तं गृहीतम्

७. भट्टिकाव्ये कति काण्डानि सन्ति? तेषां नामानि तिखत।
उत्तरम्-- भट्टिकाव्ये चत्वारि काण्डानि सन्ति। तेषां नामानि यथा—प्रकीर्णकाण्डम्, अधिकारकाण्डम्, प्रसन्नकाम्डम्, तिङन्तकाण्डम् चेति।

१८. श्रीहर्षस्य काव्यस्य नाम लिख्यताम्। तत्र कति सर्गाः सन्ति?
उत्तरम्—श्रीहर्षस्य काव्यस्य नाम नैषधचरितम्। तत्र द्वाविंशतिः सर्गाः सन्ति। महाभारतस्य वनपर्वणः नलोपाख्यानात् अस्य वृत्तान्तं गृहीतम्।

१९. किं तावत् संस्कृतसाहित्यस्य वृहत्तमं काव्यम्? अस्य रचयिता कः? अत्र कति सर्गाः सन्ति?
उत्तरम्-- संस्कृतसाहित्यस्य वृहत्तमं काव्यं हरविजयम् इति। ? अस्य रचयिता काश्मीरी कविः राजानकः रत्नाकरः।  अत्र पञ्चाशत् सर्गाः सन्ति।

२०. किमुच्यते द्विसन्धानकाव्यम्?
उत्तरम्—संस्कृतसाहित्ये श्लेषालङ्कारेण रचितं काव्यं द्विसन्धानकाव्यम् इत्युच्यते। यथा—धनञ्जयस्य राघवपाण्डवीयम्, विद्यामाधवस्य पार्वतीरुक्मिणीयम्, हरदत्तसूरेः राघवनैषधीयम्, चिदम्बरस्य राघव-यादव-पाण्डवीयम् इत्यादीनि।

२१. किमुच्यते शास्त्रकाव्यम्?
उत्तरम्—यस्मिन् काव्ये अलङ्कार-व्याकरणादिशास्त्राणां विविधानां विषयानां सन्निवेशः क्रियते तत् शास्त्रकाव्यम् इत्युच्यते। यथा—हलायुधस्य कविरहस्यम्, भट्टभीमस्य रावणार्जुनीयम्, हेमचन्द्रस्य कुमारपालचरितम्, नारायणस्य धातुकाव्यम् इत्यादीनि।

२२. कतिपयस्य व्याकरणकाव्यस्य नाम लिखत।
उत्तरम्—संस्कृतसाहित्यस्य कतिपयं व्याकरणकाव्यं यथा-- हलायुधस्य कविरहस्यम्, भट्टभीमस्य रावणार्जुनीयम्, हेमचन्द्रस्य कुमारपालचरितम्, नारायणस्य धातुकाव्यम् इत्यादीनि।

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—