ads

ad

3rd sem, C-5, संक्षिप्तम् प्रश्नोत्तरम्—लौकिकसंस्कृतसाहित्येतिहासः-3


 3rd sem, C-5, संक्षिप्तम् प्रश्नोत्तरम्—लौकिकसंस्कृतसाहित्येतिहासः-3

गीतिकाव्यम्

१. कीदृशं संस्कृतकाव्यं गीतिकाव्यमुच्ते?
उत्तरम्—संस्कृतभाषया रचितं कोषकाव्यं खण्डकाव्यं वा गीतिकाव्यमपुच्यते।

२. संस्कृत-गीतिकाव्यानां के तावद् उपजीब्याः विषयाः?
उत्तरम्-- संस्कृत-गीतिकाव्यानाम् उपजीब्याः विषयाः खलु प्रेम, भक्तिः, नीतिश्चेति।

३. संस्कृतसाहित्यस्य कस्यचिद् एकस्य शृङ्गाररसात्मक-गीतिकाव्यस्य नाम लिखत। अस्य लेखकः कः?
उत्तरम्-- संस्कृतसाहित्यस्य एकं शृङ्गाररसात्मकं गीतिकाव्यं चौरपञ्चाशिका इति। अस्य लेखकः विल्हणः इति।

४. संस्कृतसाहित्यस्य केषाञ्चित् शृङ्गाररसात्मक-गीतिकाव्यानां तथा तेषां लेखकानां नामानि लिखत।
उत्तरम्-- संस्कृतसाहित्यस्य प्रसिद्धानि शृङ्गाररसात्मक-गीतिकाव्यानि यथा—
कालिदास-विरचितं मेघदूतम्, धोयी-रचितं पवनदूतम्, घटकर्पर-रचितं घटकर्परकाव्यं, अमरु-रचितम् अमरुशतकम्, विल्हण-रचिता चौरपञ्चाशिका, गोवर्धन-रचिता आर्यासप्तशती, हाल(सातवाहन)-रचिता गाथासप्तशती (गाहासत्तसई), दामोदर-रचितं कुट्टनीसतकाव्यम्, भर्तृहरि-रचितं शृङ्गारशतकम् इति।

५. संस्कृतसाहित्यस्य कस्यचिद् भक्तिरसात्मक-गीतिकाव्यस्य नाम लिख्यताम्।
उत्तरम्-- संस्कृतसाहित्यस्य एकं भक्तिरसात्मकं गीतिकाव्यं गीतगोविन्दम्। अस्य लेखकः जयदेवः इति।

६. संस्कृतसाहित्यस्य केषाञ्चित् भक्तिरसात्मक-गीतिकाव्यानां तथा तेषां लेखकानां नामानि लिखत।
उत्तरम्-- संस्कृतसाहित्यस्य उल्लेखयोग्यानि भक्तिरसात्मक-गीतिकाव्यानि यथा—
जयदेव-रचितं गीतगोविन्दम्, बाणभट्ट-रचितं चण्डीशतकम्, कवि-मयूरभट्ट-रचितं मयूराष्टकम्, मूककवि-रचिता मूकपञ्चशती, आनन्दवर्धन-रचितं देवीशतकम्, विल्वसङ्गल-रचितं कृष्णकर्णामृतम्, मधुसूदनसरस्वती-रचिता आनन्दमन्दाकिनी, जगन्नाथ-रचिता सुधालहरी, अमृतलहरी, करुणालहरी, शङ्कराचार्य-रचिता आनन्दलहरी, रामचन्द्र-रचितं भक्तिशतकम् इत्यादीनि।

७.  किमुच्यते दूतकाव्यम्? उदाहरणं दीयताम्।
उत्तरम्—यस्मिन् काव्ये नायकः नायिका वा जागतिकवस्तु पशुपक्षिणं वा दूतरूपेण प्रियतमसमीपं प्रियतमासमीपं वा प्रेरयति, तद् दूतकाव्यमुच्यते। यथा—कालिदास-रचितं मेघदूतम्, धोयी-रचितं पवनदूतम्, घटकर्पर-रचितं घटकर्परकाव्यम्, रूपगोस्वामी-रचितं हंसदूतम् इत्यादीनि।

८. संस्कृतसाहित्यस्य किं तावत् प्रख्यातं दूतकाव्यम्? अस्य लेखकः कः?
उत्तरम्-- संस्कृतसाहित्यस्य प्रख्यातं दूतकाव्यम् मेघदूतम्। अस्य लेखकः महाकविः कालिदासः।

९. मेघदूतमनुसृत्य रचितानां कतिपय-दूतकाव्यानां नामानि लिखत।
उत्तरम्-- मेघदूतमनुसृत्य रचितानि कतिपय-दूतकाव्यानि यथा-- धोयी-रचितं पवनदूतम्, घटकर्पर-रचितं घटकर्परकाव्यम्, रूपगोस्वामि-रचितं हंसदूतम्, कृष्णदेव-रचितं भ्रमरदूतम्, विनय-विजयगणि-रचितम् इन्द्रदूतम् इत्यादीनि।

१०. कालिदास-रचितं गीतिकाव्ययोः नामनी लिखत।
उत्तरम्—कालिदास-रचितं गीतिकाव्यद्वयं यथा—मेघदूतम्, ऋतुसंहारम् चेति।

११. क आसीत् अमरुः? तस्य काव्यस्य नाम लिखत।
उत्तरम्— संस्कृतसाहित्यस्य अन्यतमः गीतिकाव्यरचयिता आसीत् अमरुः। तद्रचितं काव्यम् अमरुशतकम् इति।

१२.  किं तावत् शतककाव्यम्? उदाहरणं दीयताम्।
उत्तरम्—संस्कृतसाहित्ये शतश्लोक-सम्बलितं काव्यं शतककाव्यम् इत्युच्यते। यथा—भर्तृहरि-रचितं शृङ्गारशतकम्, नीतिशतकम्, वैराग्यशतकम्।

१३. किमुच्यते अन्योक्तिकाव्यम्?
उत्तरम्—संस्कृतसाहित्ये यस्मिन् काव्ये प्राकृतिक-वस्तूनां, तथा विविधानां विषयानां वर्णनामाध्यमेन वर्णनातिरिक्तः अन्यः कश्चिद् अर्थः प्रकाश्यते तद् अन्योक्तिकाव्यम् इत्युच्यते। यथा—
शम्भुकवेः अन्योक्तिमुक्तालता, लक्ष्मीनरसिंहस्य अन्योक्तिमाला, सोमनाथस्य अन्योक्तिशतकम्, चन्द्रचूडस्य अन्योक्तिमुक्ताभरणम् इत्यादीनि।

१४. का खलु शार्ङ्गधरपद्धतिः?
उत्तरम्—शार्ङ्गधरेण संकलितः प्रख्यातः कोषग्रन्थः खलु शार्ङ्गधरपद्धतिः। अत्र विविधविषये कवीनां द्वानवत्यधिक-द्विशतस्य (२९२) त्रिषष्टि सहस्रं (६३, ०००) श्लोकाः संगृहीताः।

१५.  पद्यावली केन रचिता?
उत्तरम्—गौडीय-वैष्णवसम्प्रदायस्य विख्यातः आचार्यः रूपगोस्वामी। तेन सङ्कलितः ग्रन्थः पद्यावली इति। अत्र कवीनां पञ्चविंशत्यधिक-शतस्य गोपीभिः कृष्णस्य लीलाविषयकाः सप्ताशीत्यधिकं त्रिशतं श्लोकाः सङ्कलिताः।

१६. मेघदूतम् केन छन्दसा विरचितम्? तस्य लक्षणं लिख्यताम्।
उत्तरम्—कालिदासस्य मेघदूतम् मन्दाक्रान्ता-छन्दसा रचितम्। तस्य लक्षणम्—
ʻमन्दाक्रान्ताम्बुधिरसनगेर्मो भनौ गौ ययुग्मम्ʼ इति।

१७. गाथासप्तशती कया भाषया रचिता?
उत्तरम्-- गाथासप्तशती प्राकृतभाषया रचिता। अत्र सप्त शतं श्लोकाः सन्ति।

१८. ʻगाथासप्तशतीʼ इत्यस्य प्राकृतं नाम लिखत।
उत्तरम्-- ʻगाथासप्तशतीʼ इत्यस्य प्राकृतं नाम ʻगाहासत्तसईʼ इति।

१९. आर्यासप्तशती केन रचिता?  केन छन्दसा च रचिता? अत्र कति श्लोकाः सन्ति?
उत्तरम्-- आर्यासप्तशती गोवर्धनाचार्येण रचिता। अयं ग्रन्थः आर्याछन्दसा रचितः। अत्र सप्त शतं श्लोकाः सन्ति।

२०. कुट्टनीमतकाव्यस्य रचयिता कः? इदम किंविधं काव्यम्?
उत्तरम्-- कुट्टनीमतकाव्यस्य रचयिता दामोदरः। इदं शृङ्गाररसात्मकं गीतिकाव्यम् इति।

गद्यकाव्यम्

१.  किं तावद् गद्यम्?
उत्तरम्-- ʻअपादः पदसन्तानः गद्यम्ʼ, अथवा ʻवृत्तगन्धोज्झितं काव्यं गद्यम्ʼ इति।

. संस्कृतगद्यकाव्यस्य कति मुख्याः भेदाः?
उत्तरम्—संस्कृतगद्यकाव्यस्य द्वौ मुख्यौ भेदौ। यथा—कथा आख्यायिका चेति।

३. कथाख्यायिका-भिन्नाः संस्कृतगद्यकाव्यस्य अन्ये च के भेदाः सन्ति?
उत्तरम्-- कथाख्यायिका-भिन्नाः संस्कृतगद्यकाव्यस्य खण्डकथा, परिकथा, कथानिका चेति भेदाः सन्ति।

४. संस्कृतगद्यस्य प्राचीनतमं निदर्शनं कुत्र दृश्यते?
उत्तरम्-- संस्कृतगद्यस्य प्राचीनतमं निदर्शनं कृष्णयजुर्वेदस्य तैत्तिरीयसंहितायां दृश्यते। यथा—सत्यं वद, धर्मं चर, स्वाध्यायान्मा प्रमद।ʼ

५. संस्कृतसाहित्यस्य कतिपय-प्राचीनगद्यस्य नाम लिखत।
उत्तरम्—पतञ्जलेः महाभाष्ये वासवदत्ता, सुमनोत्तरा, भैमरथी च इत्येतेषां गद्यकाव्यानां नामानि लभ्यन्ते। उत्तरकाले वररुचेः चारुमती, रामिल-सोमिलयोः शूद्रककथा, रुद्र-रचिता त्रैलोक्यसुन्दरी,  अज्ञातनाम-कवीनां शातकर्णीहरणम्, मनोवती, तरङ्गवती इत्यादीनां गद्यकाव्यानां नामानि अपि लभ्यन्ते। बाणभट्टेन आढ्यराजस्य भट्टार-हरिचन्द्रस्य गद्यकाव्यस्य प्रशंसा कृता।

६. संस्कृतगद्यसाहित्यस्य के तादत् ʻत्रयीʼ इत्युच्यते? 
उत्तरम्—संस्कृतगद्यसाहित्यस्य सुबन्धुः, बाणभट्टः, दण्डी चेति प्रख्याताः त्रयः कवयः ʻत्रयीʼ इत्युच्यते।

७. बाणभट्ट-रचितस्य गद्यकाव्यद्वयस्य नाम लिखत।
उत्तरम्-- बाणभट्ट-रचितं गद्यकाव्यद्वयं यथा—कादम्बरी, हर्षचरितम् चेति।

८. कादम्बरीकाव्यस्य नायक-नायिकयोः नामनी लिखत।
उत्तरम्-- कादम्बरीकाव्यस्य नायकः चन्द्रापीडः, नायिका च कादम्बरी।

९. का उच्यते ʻअतिद्वयीकथाʼ?
उत्तरम्—काव्यज्ञानां मतानुसारेण बाणभट्टस्य कादम्बरी काव्यगुणोत्कर्षेण गुणाढ्य-रचितां बृहत्कथाम्, तथा सुबन्धु-रचितां वासवदत्ताम् अतिक्रामति। अतः कादम्बरी ʻअतिद्वयीकथाʼ इत्युच्यते।

११. दण्डि-रचितस्य गद्यकाव्यद्वयस्य नाम लिखत।
उत्तरम्-- दण्डि-रचितं गद्यकाव्यद्वयं यथा—दशकुमारचरितम्, अवन्तीसुन्दरीकथा चेति।

१२. किं काव्यं कस्यां श्रेण्यां वर्तते-- कादम्बरी, हर्षचरितम्, वासवदत्ता, दशकुमारचरितम्, अवन्तीसुन्दरीकथा।
उत्तरम्—बाणभट्ट-रचिता कादम्बरी, तथा सुबन्धु-रचिता वासवदत्ता कथाश्रेण्याः गद्यकाव्यम्।
बाणभट्टस्य हर्षचरितम्, दण्डिनः दशकुमारचरितम्, अवन्तीसुन्दरीकथा चेति आख्यायिकाश्रेण्याः गद्यकाव्यम्।

१३. दण्डी किमर्थं विख्यातः? तस्य प्रशस्तिसूचकं वाक्यं लिखत।
उत्तरम्-- दण्डी पदलालित्य-सृजनाय विख्यातः। तस्य प्रशस्तिसूचकं वाक्यं-- ʻदण्डिनः पदलालित्यम्ʼ इति।

१४. सुबन्धु-बाणभट्ट-दण्डिनः उत्तरकालीनस्य कस्यचिद् गद्यकाव्यस्य तथा तस्य कवेः नाम लिखत।
उत्तरम्-- सुबन्धु-बाणभट्ट-दण्डिनः उत्तरकालीनम् एकं गद्यकाव्यं तिलकमञ्जरी। अस्य काव्यस्य लेखकः धनपालः।
अन्यानि काव्यानि—ओडयदेवस्य गद्यचिन्तामणिः, वामनभट्टबाणस्य वेमभूपालचरितम्, सोड्ढलस्य उदयनसुन्दरीकथा।

कथासाहित्यम् (उपाख्यानसाहित्यम्)

.  संस्कृतसाहित्ये कस्तावत् प्राचीनतमः कथासंग्रहः?
उत्तरम्-- संस्कृतसाहित्ये प्राचीनतमः कथासंग्रहस्तु गुणाढ्य-रचिता बृहत्कथा। केषाञ्चित् मतानुसारेण
पञ्चतन्त्रस्य मूलरूपं यत् खलु बहुपूर्वमेव लुप्तं जातम्।

२. कथासाहित्यसृष्टिविषये कानि तावत् कारणानि वर्तन्ते?
उत्तरम्-- कथासाहित्यसृष्टिविषये मूलतः त्रीणि कारणानि वर्तन्ते। यथा—
१. अवसरसमये चित्तविनोदनम्,
२. सहजेन उपायेन सरलमतिभ्यः शिशुभ्यः शिक्षादानम्,
३. धर्मशास्त्राणां नीतिशास्त्राणां च दुर्वोध्यविषयानां वोधगम्यरूपेण प्रचारः।

३. निम्नोक्तानां काव्यानां कवीनां नामानि लिखत—
बृहत्कथा, पञ्चतन्त्रम्, दृहत्कथामञ्जरी, वृहत्कथाश्लोकसंग्रहः, कथासरित्सागरः,  हितोपदेशः, वेतालपञ्चविंशतिः, शुकसप्ततिः, सिंहासनद्वित्रांशिका, पुरुषपरीक्षा, भोजप्रबन्धः, प्रबन्धचिन्तामणिः।
उत्तरम्—ʻबृहत्कथाʼ इति ग्रन्थस्य रचयिता गुणाढ्यः।
ʻपञ्चतन्त्रम्ʼ इति ग्रन्थस्य रचयिता विष्णुशर्मा।
ʻबृहत्कथामञ्जरीʼ इति ग्रन्थस्य रचयिता क्षेमेन्द्रः।
ʻबृहत्कथाश्लोकसंग्रहःʼ इति ग्रन्थस्य रचयिता बुद्धस्वामी।
ʻकथासरित्सागरʼ इति ग्रन्थस्य रचयिता सोमदेवः।
ʻहितोपदेशःʼ इति ग्रन्थस्य रचयिता नारायणः।
ʻवेतालपञ्चविंशतिःʼ इति ग्रन्थस्य रचयिता शिवदासः।
ʻशुकसप्ततिःʼ इति ग्रन्थस्य रचयिता चिन्तामणिभट्टः।
ʻसिंहासनद्वित्रांशिकाʼ इति ग्रन्थस्य रचयितारूपेण कालिदासः, रामचन्द्रः, सिद्धसेनः दिवाकरः, क्षेमङ्करः इत्येतेषां कवीनां नानानि  लभ्यन्ते।
ʻपुरुषपरीक्षाʼ इति ग्रन्थस्य रचयिता विद्यापतिः।
ʻभोजप्रबन्धःʼ इति ग्रन्थस्य रचयिता वल्लालः (वल्लभः)।
ʻप्रबन्धचिन्तामणिःʼ इति ग्रन्थस्य रचयिता मेरुतुङ्गः।

४. पञ्चतन्त्रम् केन विरचितम्? तत्र कानि तन्त्राणि सन्ति? तेषां नामानि लिखत।
उत्तरम्-- ʻपञ्चतन्त्रम्ʼ इति काव्यं विष्णुशर्मणा विरचितम्। पञ्चतन्त्रे पञ्च तन्त्राणि सन्ति। यथा—मित्रभेदः, मित्रप्राप्तिः, काकोलूकीयम्, लब्धप्रणाशम्, अपरीक्षितकारकम् चेति।

५. पञ्चतन्त्र-रचनायाः उद्देश्यं किमासीत्?
उत्तरम्—पञ्चतन्त्रस्य रचयिता कथामुखे आह—आसीत् दाक्षिणात्यजनपदे महिलारोप्यनगरे अमरशक्तिः नाम राजा। तस्य त्रयः मूर्खाः पुत्राः आसन्। तान् मासषट्केण नीतिशास्त्रेषु पारदर्शिनः कर्तुं स पञ्चतन्त्रं विरचितवान्।
६. हितोपदेशः केन विरचितः? तत्र कति परिच्छेदाः सन्ति? तेषां नामानि लिखत।
उत्तरम्—नारायणशर्मणा हितोपदेशः विरचितः। तत्र चत्वारः परिच्छेदाः सन्ति। यथा—मित्रलाभः, सुहृद्भेदः, विग्रहः, सन्धिः चेति।

७. का खलु बृहत्कथा? कस्य राज्ञः राजत्वकाले अयं ग्रन्थः विरचितः?
उत्तरम्—गुणाढ्यरचिता बृहत्कथा संस्कृतसाहित्ये एकः विख्यातः कथासंग्रहः। अयं ग्रन्थः प्रथमे ख्रीष्टाब्दे सातवाहन-राज्ञः राजत्वकाले रचितः।

८. बृहत्कथा कया भाषया विरचिता?
उत्तरम्--  बृहत्कथा पैशाची-प्राकृत-भाषया विरचिता।

९. बृहत्कथामुपजीब्य के तावत् त्रयः ग्रन्थाः विरचिताः?
उत्तरम्-- बृहत्कथामुपजीब्य विरचिताः त्रयः ग्रन्थाः यय़ा—बुद्धस्वामि-रचितः श्लोकसंग्रहः, क्षेमेन्द्र-रचिता बृहत्कथामञ्जरी, तथा सोमदेव-रचितः कथासरित्सागरः इति।

१०. बृहत्कथामुपजीब्य विरचितानां चतुर्णां संस्कृतगद्यकाव्यानां नामानि लिखत।
उत्तरम्-- बृहत्कथामुपजीब्य विरचितानि चत्वारि संस्कृतगद्यकाव्यानि यथा—
दण्डि-रचितं दशकुमारचरितम्, बाणभट्ट-रचिता कादम्बरी, सुबन्धु-रचिता वासवदत्ता, तथा धनपाल-रचिता तिलकमञ्जरी इति।

११. बृहत्कथामुपजीब्य विरचितानां चतुर्णां संस्कृतनाटकानां नामानि लिखत।
उत्तरम्-- बृहत्कथामुपजीब्य विरचितानि चत्वारि संस्कृतनाटकानि यथा—
भासस्य स्वप्नवासवदत्तम्, प्रतिज्ञायौगन्धरायणम् च, श्रीहर्षस्य नागानन्दम्, प्रियदर्शिका च।

१२. गुणाढ्यः कस्मात् बृहत्कथायाः उपाख्यनं श्रुतवान्? स केन द्रव्येन तस्य काव्यं लिखितवान्?
उत्तरम्-- गुणाढ्यः कणभूति-नामकात् पिशाचात् बृहत्कथायाः उपाख्यानं श्रुतवान्? स स्वरुधिरेण
पैशाची-प्राकृतभाषया तस्य काव्यं लिखितवान्।

१३. वेतालपञ्चविंशतिः/ शुकसप्ततिः/ सिंहासनद्वित्रांशिका /पुरुषपरीक्षा इति ग्रन्थे कति कथाः सन्ति?
उत्तरम्—शिवदासस्य ʻवेतालपञ्चविंशतिःʼ इति ग्रन्थे पञ्चविंशतिः कथाः सन्ति।
चिन्तामणिभट्टस्य ʻशुकसप्ततिःʼ इति ग्रन्थे सप्ततिः कथाः सन्ति।
ʻसिंहासनद्वित्रांशिकाʼ इति ग्रन्थे द्वात्रिंशत् कथाः सन्ति।
विद्यापतेः ʻपुरुषपरीक्षाʼ इति ग्रन्थे चतुश्चत्वारिंशत् कथाः सन्ति।

१४. ʻशुकसप्ततिःʼ इति ग्रन्थस्य वक्ता कः?
उत्तरम्-- ʻशुकसप्ततिःʼ इति ग्रन्थस्य वक्ता एकः शुकपक्षी।

१५. ʻवेतालपञ्चविंशतिःʼ इति ग्रन्थे कस्य राज्ञः वृत्तान्तं वर्णितम्? अत्र वक्ता श्रोता चकौ?
उत्तरम्-- ʻवेतालपञ्चविंशतिःʼ इति ग्रन्थे राज्ञः विक्रमादित्यस्य वृत्तान्तं वर्णितम्। अत्र वक्ता श्मशानस्य
वृक्षस्थितः कश्चिद् वेतालः, श्रोता च राजा विक्रमादित्यः इति।

१६. ʻसिंहासनद्वित्रांशिकाʼ इति ग्रन्थस्य कथानां वक्तारः के? कस्य समीपं ताः कथाः वर्णिताः?
उत्तरम्--  ʻसिंहासनद्वित्रांशिकाʼ इति ग्रन्थस्य कथानां वक्तारः सिंहासनगात्रे खोदिताः द्वात्रिंशत् पुत्तलिकाः।
ताः राज्ञः विक्रमादित्यस्य गुणावली-विषये धारा-नगर्याः राजानं भोजम् उक्ताः कथाः वर्णितवन्तः। 

१७. संस्कृत-कथासाहित्ये के तावद् ग्रन्थाः बृहत्त्रयी इत्युच्यते?
उत्तरम्-- संस्कृत-कथासाहित्ये त्रयः ग्रन्थाः एकत्र बृहत्त्रयी इत्युच्यते। ते च—
बुद्धस्वामि-रचितः श्लोकसंग्रहः, क्षेमेन्द्र-रचिता बृहत्कथामञ्जरी, तथा सोमदेव-रचितः कथासरित्सागरः इति।

चम्पूकाव्यम्

१. किमुच्यते चम्पूकाव्यम्?
उत्तरम्—आचार्यः दण्डी चम्पूकाव्यस्य लक्षणमाह-- ʻगद्यपद्यमयी काचिच्चम्पूरित्यभिधीयते।ʼ
आचार्यः विश्वनाथ आह-- ʻगद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते।ʼ

२. कदा चम्पूकाव्यस्य रचना आरब्धा?
उत्तरम्—ख्रीष्टीये दशमे ख्रीष्टाब्दे चम्पूकाव्यस्य रचना आरब्धा।

३. संस्कृत-चम्पूकाव्यानां वृत्तान्तं केभ्यः ग्रन्थेभ्यः गृहीतम्?
उत्तरम्—रामायणम्, महाभारतम्, पुराणम्, इतिहासः, जीवनचरितम्, कृष्णकथा, भागवतम् इत्येतेभ्यः ग्रन्थेभ्यः संस्कृत-चम्पूकाव्यानां वृत्तान्तं गृहीतम्।

४.  जीवनचरितम् उपजीब्य रचितयोः द्वयोः चम्पूकाव्ययोः नामनी लिखत।
उत्तरम्-- जीवनचरितम् उपजीब्य रचितं चम्पूकाव्यद्यम् यथा—जैनाचार्य-सोमदेवस्य यशस्तिलकचम्पूः, हरिचन्द्रस्य जीवन्धरचम्पूः इति।

५. किं खलु संस्कृतसाहित्यस्य प्राचीनतमं चम्पूकाव्यम्? अस्य रचयिता कः?
उत्तरम्-- संस्कृतसाहित्यस्य प्राचीनतमं चम्पूकाव्यम् नलचम्पूः नलदमयन्तीकथा वा। अस्य रचयिता त्रिविक्रमभट्टः।

६. रामायणचम्पूः / भारतचम्पूः / भागवतचम्पूः इति काव्यस्य रचयिता कः?
उत्तरम्-- रामायणचम्पूः इति काव्यस्य रचयिता विदर्भराजः भोजः।
भारतचम्पूः इति काव्यस्य रचयिता अनन्तभट्टः।
भागवतचम्पूः इति काव्यस्य रचयिता अभिनवः कालिदासः।

७. रामायणमाश्रित्य रचितानां कतिपय-चम्पूकाव्यानां नामानि लिखत।
उत्तरम्-- रामायणमाश्रित्य रचितानि कतिपय-चम्पूकाव्यानि यथा—भोजस्य रामायणचम्पूः, रामकवेः रामाभ्युदयः, दिवाकरस्य चम्पूराघवम्, श्रीनिवासस्य रामकथासुधोदयः, अनन्ताचार्यस्य चम्पूराघभवम्,  देवराजस्य रामाबिषेकचम्पूः, पतञ्जलेः सीताविजयचम्पूः इत्यादीनि।

८. पुराणमुपजीब्य रचितानां कतिपय-चम्पूकाव्यानां नामानि लिखत।
उत्तरम्-- पुराणमुपजीब्य  रचितानि कतिपय-चम्पूकाव्यानि यथा— शेषकृष्णस्य पारिजातहरणचम्पूः,
केशवभट्टस्य दैवज्ञसूर्यस्य, सङ्कर्षणस्य च पृथक् पृथक् नृसिंहचम्पूः, नारायणभट्टस्य स्वाहासुधाकरचम्पूः
इति।

९. जीवनचरितमुपजीब्य रचितानां कतिपय-चम्पूकाव्यानां नामानि लिखत।
उत्तरम्-- जीवनचरितमुपजीब्य  रचितानि कतिपय-चम्पूकाव्यानि यथा— जैनाचार्यस्य सोमदेवस्य
यशस्तिलकचम्पूः, हरिचन्द्रस्य जीवन्धरचम्पूः इति।

१०. कृष्णकथामुपजीब्य रचितानां कतिपय-चम्पूकाव्यानां नामानि लिखत।
उत्तरम्—कृष्णकथामुपजीब्य रचितानि कतिपय-चम्पूकाव्यानि यथा— जीवगोस्वामिनः गोपालचम्पूः,
परमानन्द-दाससेनस्य आनन्दवृन्दावनचम्पूः, मित्रमिश्रस्य आनन्दकदम्बचम्पूः, परशुरामस्य कृष्णचम्पूः,
चिरञ्जीवस्य माधवचम्पूः इति।

११. महाभारतमुपजीब्य रचितानां कतिपय-चम्पूकाव्यानां नामानि लिखत।
उत्तरम्—महाभारतमुपजीब्य रचितानि कतिपय-चम्पूकाव्यानि यथा— अनन्तभट्टस्य भारतचम्पूः, चक्रकवेः
रुक्मिणीपरिणयः, अम्मलकवेः सुभद्राहरणम् इति।

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—