ads

ad

3rd sem, C-7, Unit-II, तद्धितप्रकरणम्, सूत्रव्याख्या


3rd sem, C-7, Unit-II, तद्धितप्रकरणम्, सूत्रव्याख्या

१.  गर्गादिभ्यो यञ्—४।१।१०५
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः तद्धितप्रकरणे अपत्याधिकारान्तर्गतम् यञ्-प्रत्यय-विषयकं विधिसूत्रम्। सूत्रस्य पदच्छेदः—गर्गादिभ्यः यञ्। सूत्रे ʻगर्गादिभ्यःʼ इति पञ्चम्येकवचनम्। अस्यार्थः—गर्गादिभ्यः परम्। ʻयञ्ʼ इति प्रथमैकवचनम्। अस्यार्थः—यञ्-प्रत्ययः भवति। गर्गादिः इति गणविशेषः। गर्गादिगणे गर्ग, वत्स, पुलस्ति, चमस, रेभ, अग्निवेश, शङ्ख, शक, अवट इत्यादयः शब्दाः सन्ति। सूत्रस्य अर्थवोधार्थमत्र ʻतस्यापत्यम्ʼ इत्यस्मात् सूत्रात् ʼअपत्यम्ʼ इति पदम्, तथा ʻगोत्रे ʻकुञ्जरादिभ्यश्च फञ्ʼ इत्यतः ʻगोत्रेʼ इति पदम् अनुवर्तेते। तस्मात् पूर्णाङ्गं सूत्रं भवति-- ʻगर्गादिभ्यो यञ् गोत्रापत्येʼ इति।
सूत्रार्थः—गर्गादिभ्यः गोत्रापत्ये यञ्-प्रत्ययः भवति।
यञ्-प्रत्ययस्य अन्त्यः ञकारः ʻहलन्त्यम्ʼ इत्यनेन इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः भवति। तेन यकारः अवशिष्यते।
उदाहरणम्—गार्ग्यः। वात्स्यः।
गार्ग्यः—ʻगर्गस्य गोत्रापत्यम्ʼ इति विग्रहे—
गर्ग ङस् यञ् (ʻ गर्गादिभ्यो यञ्ʼ इत्यनेन सूत्रेण षष्ठ्यन्तात् प्रातिपदिकात् गर्गाद् उत्तरं यञ्-प्रत्ययः),
>  गर्ग यञ् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻगर्ग ङस् यञ्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ  इत्यनेन सूत्रेण सुप्-ङस्-लोपः),
> गर्ग य (ʻहलन्त्यम्ʼ इत्यनेन यञ्-प्रत्ययस्य अन्त्यः ञकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> गार्ग य (ʻतद्धितेष्वचामादेःʼ इत्यनेन सूत्रेण गर्गस्य आदिभूतस्य अकारस्य वृद्धिः, ʻवृद्धिरादैच्ʼ इत्यनेन आ, ऐ, औ इत्येतेषां वृद्धिसंज्ञा, ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया कण्ठस्थानसाम्यात् आकारः),
> गार्ग् य (ʻयचि भम्ʼ इत्यनेन सूत्रेण यकारादौ यञ्-प्रत्यये परे ʻगार्गʼ इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ इत्यनेन सूत्रेण तस्य अन्त्योऽकार-लोपः),
> गार्ग्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> गार्ग्य सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> गार्ग्यस् (ʻसुʼ इत्यस्य उकारः अनुबन्धलोपः),
> गार्ग्यरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                            > गार्ग्यर् (ʻरुʼ इत्यस्य उकारः अनुबन्धलोपः),
> गार्ग्यः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻगार्ग्यर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻगार्ग्यःʼ इति रूपं सिद्धम्)।
एवम्—वत्सस्य गोत्रापत्यम्—इति विग्रहे--  
वत्स + यञ् > वात्स्यः।

२. अत इञ्—४।१।९५
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः तद्धितप्रकरणे अपत्याधिकारान्तर्गतम् इञ्-प्रत्यय-विषयकं विधिसूत्रम्। सूत्रस्य पदच्छेदः—अतः इञ्। सूत्रे ʻअतःʼ इति पञ्चम्येकवचनम्। अस्यार्थः—अकारात् परम्। ʻइञ्ʼ इति प्रथमैकवचनम्। अस्यार्थः—इञ्-प्रत्ययः भवति। सूत्रस्य अर्थवोधार्थमत्र ʻतस्यापत्यम्ʼ इत्यस्मात् सूत्रात् ʻअपत्यम्ʼ इति पदम्, तथा ʻङ्याप्प्रातिपदिकात्ʼ इत्यतः ʻप्रातिपदिकात्ʼ इति पदम् अनुवर्तेते। तस्मात् पूर्णाङ्गं सूत्रं भवति-- ʻअतः प्रातिपदिकात् अपत्ये इञ्ʼ।
सूत्रस्थम् ʻअतःʼ इति पदम् ʻप्रातिपदिकात्ʼ इत्यस्य विशेषणम्। तस्मात् तत्र तदन्तविधिः।
सूत्रार्थः—अकारान्तात् प्रातिपदिकात् अपत्ये अर्थे इञ् प्रत्ययः भवति।
इञ्-प्रत्ययस्य अन्त्यः ञकारः ʻहलन्त्यम्ʼ इत्यनेन इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः भवति। तेन इकारः अवशिष्यते।
उदाहरणम्—दाक्षिः।
ʻदक्षस्य अपत्यम्ʼ इति विग्रहे—
दक्ष ङस् इञ् (ʻअत इञ्ʼ इत्यनेन सूत्रेण षष्ठ्यन्तात् प्रातिपदिकात् दक्षात् उत्तरम् इञ्-प्रत्ययः),
>  दक्ष इञ् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻदक्ष ङस् यञ्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ  इत्यनेन सूत्रेण सुप्-ङस्-लोपः),
> दक्ष इ (ʻहलन्त्यम्ʼ इत्यनेन इञ्-प्रत्ययस्य अन्त्यः ञकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> दाक्ष इ (ʻतद्धितेष्वचामादेःʼ इत्यनेन सूत्रेण दक्षस्य आदिभूतस्य अकारस्य वृद्धिः, ʻवृद्धिरादैच्ʼ इत्यनेन आ, ऐ, औ इत्येतेषां वृद्धिसंज्ञा, ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया कण्ठस्थानसाम्यात् आकारः),
>  दाक्ष् इ (ʻयचि भम्ʼ इत्यनेन सूत्रेण इकारादौ इञ्-प्रत्यये परे ʻदाक्षʼ इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ इत्यनेन सूत्रेण तस्य अन्त्योऽकार-लोपः),
>  दाक्षि  (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> दाक्षि सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> दाक्षिस् (ʻसुʼ इत्यस्य उकारः अनुबन्धलोपः),
> दाक्षिरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकार-स्थाने ʻरुʼ इत्यादेशः),                                                     
> दाक्षिर् (ʻरुʼ इत्यस्य उकारः अनुबन्धलोपः),
> दाक्षिः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻदाक्षिर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻदाक्षिःʼ इति रूपं सिद्धम्)।

३. शिवादिभ्योऽण्—४।१।११२
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः तद्धितप्रकरणे अपत्याधिकारान्तर्गतम् अण्-प्रत्यय-विषयकं विधिसूत्रम्। सूत्रस्य पदच्छेदः—शिवादिभ्यः अण्। सूत्रे ʻशिवादिभ्यःʼ इति पञ्चमी-बहुवचनम्। अस्यार्थः— शिवादिभ्यः परम्। ʻअण्ʼ इति प्रथमैकवचनम्। अस्यार्थः—अण्-प्रत्ययः भवति। सूत्रस्य अर्थवोधार्थमत्र ʻतस्यापत्यम्ʼ इत्यस्मात् सूत्रात् ʻअपत्यम्ʼ इति पदम् अनुवर्तते। तस्मात् पूर्णाङ्गं सूत्रं भवति-- ʻ शिवादिभ्यः अपत्ये अण्।ʼ
शिवादिः इति गणविशेषः। अत्र शिव, प्रौष्ठ, गङ्गा, विपाश, चण्ड, दण्ड, कुठार, लोहित, मुख, सुख इत्यादयः शब्दाः सन्ति।
सूत्रार्थः—शिवादिभ्यः अपत्ये अर्थे अण् प्रत्ययः भवति।
अण्-प्रत्ययस्य अन्त्यः णकारः (ण्) ʻहलन्त्यम्ʼ इत्यनेन इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः भवति। तेन अकारः अवशिष्यते।
उदाहरणम्—शैवः। गाङ्गः।
शैवः-- ʻशिवस्य अपत्यम्ʼ इति विग्रहे—
शिव ङस् अण (ʻशिवादिभ्योऽण्ʼ इत्यनेन सूत्रेण षष्ठ्यन्तात् प्रातिपदिकात् शिवात् उत्तरम् अण्-प्रत्ययः),
>  शिव अण् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻशिव ङस् अण्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ  इत्यनेन सूत्रेण सुप्-ङस्-लोपः),
> शिव अ (ʻहलन्त्यम्ʼ इत्यनेन अण्-प्रत्ययस्य अन्त्यः णकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> शैव अ (ʻतद्धितेष्वचामादेःʼ इत्यनेन सूत्रेण शिवस्य आदिभूतस्य इकारस्य वृद्धिः, ʻवृद्धिरादैच्ʼ इत्यनेन आ, ऐ, औ इत्येतेषां वृद्धिसंज्ञा, ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया तालुस्थानसाम्यात् ऐकारः),
>  शैव् अ (ʻयचि भम्ʼ इत्यनेन सूत्रेण अकारादौ अण्-प्रत्यये परे ʻशैवʼ इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ इत्यनेन सूत्रेण तस्य अन्त्योऽकार-लोपः),
>  शैव  (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> शैव सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> शैवस् (ʻसुʼ इत्यस्य उकारः अनुबन्धलोपः),
> शैवरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                                       
> शैवर् (ʻरुʼ इत्यस्य उकारः अनुबन्धलोपः),
> शैवः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻशैवर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻशैवःʼ इति रूपं सिद्धम्)।
एवम्—गाङ्गः। ʻगङ्गायाः अपत्यम्ʼ इति विग्रहे-- 
गङ्गा ङस् अण् (ʻशिवादिभ्योऽण्ʼ) > गङ्गा अण् > गङ्गा अ > गाङ्गा अ (ʻतद्धितेष्वचामादेःʼ) > गाङ्ग् अ (ʻयस्येति चʼ) > गाङ्ग > गाङ्ग सु > गाङ्गस् > गाङ्गरु > गाङ्गर् > गाङ्गः।

४.  स्त्रीभ्यो ढक्—४।१।१२०
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः तद्धितप्रकरणे अपत्याधिकारान्तर्गतम् ढक्-प्रत्यय-विषयकं विधिसूत्रम्। सूत्रस्य पदच्छेदः—स्त्रीभ्यः ढक्। सूत्रे ʻस्त्रीभ्यःʼ इति पञ्चमी-बहुवचनम्। अस्यार्थः—स्त्रीप्रत्ययान्तेभ्यः परम्। ʻढक्ʼ इति प्रथमैकवचनम्। अस्यार्थः—ढक्-प्रत्ययः भवति। सूत्रस्य अर्थवोधार्थमत्र ʻतस्यापत्यम्ʼ इत्यस्मात् सूत्रात् ʻअपत्यम्ʼ इति पदम् अनुवर्तते। तस्मात् पूर्णाङ्गं सूत्रं भवति-- ʻस्त्रीभ्यः अपत्ये ढक्।ʼ
सूत्रार्थः—स्त्रीप्रत्ययान्तेभ्यः उत्तरम् अपत्ये ढक्-प्रत्ययः भवति।
ढक्-प्रत्ययस्य अन्त्यः ककारः (क्) ʻहलन्त्यम्ʼ इत्यनेन इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः भवति। तेन ढकारः अवशिष्यते। ततः ʻआयनेयीनीयियः फ ढ ख छ घां प्रत्ययादीनाम्ʼ  इत्यनेन सूत्रेण ढ्-स्थाने ʻएय्ʼ इत्यादेशः भवति।
उदाहरणम्—वैनतेयः।
ʻविनताया अपत्यं पुमान्ʼ इति विग्रहे—
विनता ङस् ढक् (ʻस्त्रीभ्यो ढक्ʼ इत्यनेन सूत्रेण षष्ठ्यन्तात् प्रातिपदिकात् ʻविनताʼ इत्यस्मात् उत्तरम् ढक्-प्रत्ययः),
>  विनता ढक् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻविनता ङस् ढक्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ  इत्यनेन सूत्रेण सुप्-ङस्-लोपः),
> विनता ढ (ʻहलन्त्यम्ʼ इत्यनेन ढक्-प्रत्ययस्य अन्त्यः ककारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> विनता एय् अ (ʻआयनेयीनीयियः फ ढ ख छ घां प्रत्ययादीनाम्ʼ  इत्यनेन सूत्रेण ढ्-स्थाने ʻएय्ʼ इत्यादेशः),
>  वैनता एय् अ (ʻकिति चʼ इत्यनेन सूत्रेण ʻविनताʼ इत्यस्य आदिभूतस्य इकारस्य वृद्धिः, ʻवृद्धिरादैच्ʼ इत्यनेन आ, ऐ, औ इत्येतेषां वृद्धिसंज्ञा, ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया तालुस्थानसाम्यात् ऐकारः),
>  वैनत् एय् अ (ʻयस्येति चʼ इत्यनेन सूत्रेण भसंज्ञकस्य ʻवैनताʼ इत्यस्य अन्त्य आकार-लोपः),
>  वैनतेय  (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> वैनतेय सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> वैनतेयस् (ʻसुʼ इत्यस्य उकारः अनुबन्धलोपः),
> वैनतेयरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                            > वैनतेयर् (ʻरुʼ इत्यस्य उकारः अनुबन्धलोपः),
> वैनतेयः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻवैनतेयर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻवैनतेयःʼ इति रूपं सिद्धम्)।

५. तेन प्रोक्तम्—४।३।१०१
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः तद्धितप्रकरणे शैषिकाधिकारान्तर्गतम् छादि-प्रत्यय-विषयकं विधिसूत्रम्। सूत्रे ʻतेनʼ इति तृतीयैकवचनम्। ʻप्रोक्तम्ʼ इति प्रथमैकवचनम्। सूत्रस्य अर्थवोधार्थमत्र ʻङ्याप्प्रातिपदिकात्ʼ इत्यस्मात् सूत्रात् ʻप्रातिपदाकात्ʼ इति पदम् अनुवर्तते। तस्मात् पूर्णाङ्गं सूत्रं भवति--    ʻतेन प्राक्तम् प्रातिपदिकात् (छादयः प्रताययाः)।ʼ
सूत्रार्थः-- ʻप्रोक्तम्ʼ इत्यर्थे तृतीयान्तात् प्रातिपदिकात् उत्तरं यथाविहिताः छादयः प्रत्ययाः स्युः।
उदाहरणम्—पाणिनिना प्रोक्तम्—पाणिनीयम्।
ʻपाणिनिना प्रोक्तम्ʼ इति विग्रहे—
पाणिनि टा छ (ʻतेन प्रोक्तम्ʼ इत्यनेन सूत्रेण तृतीयान्तात् प्रातिपदिकात् ʻपाणिनिʼ इत्यस्मात् उत्तरम् छ-प्रत्ययः),
>  पाणिनि छ (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻपाणिनि टा छʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ  इत्यनेन सूत्रेण सुप्-टा-लोपः),
> पाणिनि ईय् अ (ʻआयनेयीनीयियः फ ढ ख छ घां प्रत्ययादीनाम्ʼ  इत्यनेन सूत्रेण छ्-स्थाने ʻईय्ʼ इत्यादेशः),
>  पाणिन् ईय् अ (ʻयचि भम्ʼ इत्यनेन सूत्रेण ईकारादौ ईय्-प्रत्यये परे ʻपाणिनिʼ इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ इत्यनेन सूत्रेण तस्य अन्त्य इकार-लोपः),
>  पाणिनीय  (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> पाणिनीय सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  पाणिनीय अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण सु-स्थाने अमादेशः),
>  पाणिनीयम् (ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻपाणिनीयम्ʼ इति रूपं सिद्धम्)।

६. सभाया यः—४।४।१०५
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः तद्धितप्रकरणे यदधिकारान्तर्गतम् य-प्रत्यय-विषयकं विधिसूत्रम्। सूत्रस्य पदच्छेदः—सभायाः यः। सूत्रे ʻसभायाःʼ इति पञ्चम्येकवचनम्। अस्यार्थः-- ʻसभाʼ इत्यस्मात् परम्। ʻयःʼ इति प्रथमैकवचनम्। सूत्रस्य अर्थवोधार्थमत्र ʻतत्र साधुःʼ  इति सूत्रम् अनुवर्तते। तस्मात् पूर्णाङ्गं सूत्रं भवति--  ʻतत्र साधुः सभाया यः।ʼ
सूत्रार्थः—सभा-शब्दाद् यः प्रत्ययः भवति ʻतत्र साधुःʼ इत्यस्मिन् विषये।
अत्र य-प्रत्ययः यत्-प्रत्ययस्य अपवादः।
उदाहरणम्—सभायां साधुः –सभ्यः।
ʻसभायां साधुःʼ इत्यर्थे
सभा ङि य (ʻसभाया यःʼ इत्यनेन सूत्रेण सप्तम्यन्तात् प्रातिपदिकात् ʻसभाʼ इत्यस्मात् उत्तरं य-प्रत्ययः),
>  सभा य (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻसभा ङि यʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ  इत्यनेन सूत्रेण सुप्-ङि-लोपः),
> सभ् य (ʻयचि भम्ʼ इत्यनेन सूत्रेण यकारादौ य-प्रत्यये परे ʻसभाʼ इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ इत्यनेन सूत्रेण तस्य अन्त्य आकार-लोपः),
>  सभ्य  (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> सभ्य सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> सभ्यस् (ʻसुʼ इत्यस्य उकारः अनुबन्धलोपः),
> सभ्यरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                            > सभ्यर् (ʻरुʼ इत्यस्य उकारः अनुबन्धलोपः),
> सभ्यः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻसभ्यर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻसभ्यःʼ इति रूपं सिद्धम्)।

७. अतिशायने तमबिष्ठनौ—५।३।५५
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः तद्धितप्रकरणे प्रागिवीयाधिकारान्तर्गतम् तमप्-इष्ठन्-प्रत्यय-विषयकं विधिसूत्रम्। सूत्रे ʻअतिशायनेʼ इति सप्तम्येकवचनम्। अस्यार्थः—अतिशयार्थे। अति-पूर्वकः शीङ्-धातुः उपसर्गवशात् उत्कर्षे वर्तते। ʻअतिशयनम् अतिशायनम् प्रकर्षःʼ इति काशिका। ʻतमबिष्ठनौʼ इति प्रथमा-द्विवचनम्। अस्यार्थः—तमप् इष्ठन् चेति प्रत्ययद्वयं भवति। सूत्रस्य अर्थवोधार्थमत्र ʻङ्याप्प्रातिपदिकात्ʼ इत्यस्मात् सूत्रात् ʻप्रातिपदाकात्ʼ इति पदम् अनुवर्तते। तस्मात् पूर्णाङ्गं सूत्रं भवति-- ʻअतिशायने प्रातिपदिकात् तमबिष्ठनौ।ʼ
सूत्रार्थः—अतिशयविशिष्टार्थवृत्तेः स्वार्थे तमबिष्ठनौ प्रत्ययौ स्तः।
तमप्-प्रत्ययस्य अन्त्यः पकारः, इष्ठन्-प्रत्ययस्य अन्त्यः नकारश्च ʻहलन्त्यम्ʼ इत्यनेन इतौ,तथा ʻतस्य लोपःʼ इत्यनेन तयोः लोपः भवति।
उदाहरणम्—आढ्यतमः। लघुतमः। लघिष्ठः।
आढ्यतमः-- ʻअयम् एषाम् अतिशयेन आढ्यःʼ इत्यर्थे ʻअतिशायने तमबिष्ठनौʼ इत्यनेन सूत्रेण तमप्-प्रत्यये ʻआढ्य तमप्ʼ इति स्थिते, तमपः पकार-अनुबन्धलोपे ʻआढ्यतमʼ इति जाते, पुंलिङ्गे प्रथमैकवचने सु-विभक्तौ ʻआढ्यतमःʼ इति रूपम्। 
एवम्—लघु + तमप् > लघुतमः।
लघु + इष्ठन्—लघिष्ठः।
ʻअयमेषाम् अतिशयेन लघुःʼ इत्यर्थे ʻअतिशायने तमबिष्ठनौʼ इत्यनेन सूत्रेण इष्ठन्-प्रत्यये ʻलघु इष्ठन्ʼ इति स्थिते, इष्ठन्-प्रत्ययस्य नकार-अनुबन्धलोपे ʻलघु इष्ठʼ इति जाते, ʻटेःʼ इत्यनेन सूत्रेण भसंज्ञकस्य ʻलघुʼ इत्यस्य टेः उकारस्य लोपे ʻलघ् इष्ठʼ इति जाते, परस्पर-संयोगे ʻलघिष्ठʼ इति जाते, पुंलिङ्गे प्रथमैकवचने सुविभक्तौ ʻलघिष्ठःʼ इति रूपं भवति।

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—