ads

ad

भारतीय-संस्कृतौ, साहित्ये च महाभारतस्य प्रभावः (for 3rd Sem Hons, C-5)


२. भारतीय-संस्कृतौ, साहित्ये च महाभारतस्य प्रभावः (for 3rd Sem Hons, C-5)
उपक्रमः—भारतवर्षस्य शिक्षा-संस्कृति-सभ्यताध्यात्मचेतनायाः मूर्तं रूपं हि महाभारतम्। कस्यचिन्मतानुसारेण अयं ग्रन्थः पुराणम्, कश्चिद् वदति पुराणेतिहासः, व्यासदेवेन उक्तम्—काव्यं परमपूजितम् इति। भिण्टारनित्श्-महोदयेनोक्तम्-- ‘a whole literature’. अयं ग्रन्थः धर्मशास्त्र-कामशास्त्र-मोक्षशास्त्ररूपेनापि अभिहितः। ʻभारतसंहिताʼ, ʻपञ्चमवेदःʼ, शतसाहस्रीसंहिताʼ, ‘जयः’, ‘संहिता’, ‘आख्यानम्’, ‘उपाख्यानम्’,‘ इतिहासः’, ‘काव्यम्’ इत्यादिभिरपि अयं ग्रन्थः आख्यायितः। समग्रे महाभारते शतसहस्रं श्लोकाः सन्ति। अतः अयं ग्रन्थः ʻशतसाहस्रीसंहिताʼ इत्यभिधीयते।                                   
 भारतीय-जीवने संस्कृतौ च महाभारतस्य प्रभावः— महाभारतं युग-युगान्तरं यावत् भारतवर्षस्य जनजीवने सुगभीरं प्रभावं विस्तारयति। महाभारते वर्णितैः यथा भारतीयाः प्रभाविताः, तथा तेषां धर्म-कर्म-भक्ति-जगदपि सममेव प्रभाविता। धर्मनिष्ठस्य युधिष्ठिरस्य उदारं चरित्रम्, अप्रतिद्वन्द्विनः वीरस्य अर्जुनस्य पुरुषकारः, भीमस्य क्षात्रतेजः, सर्वोपरि युधिष्ठिरं प्रति अन्येषां भ्रातॄणाम् आनुगत्यं सर्वेषामेव अनुसरणीयम्। द्रौपद्याः क्षत्रियोचितं तेजः, गान्धार्याः धार्मिकता, कुन्त्याः धर्मनिष्ठा इत्यादिः नारीणाम् आचरणीयः धर्मः। सूतपुत्रः कर्णः तस्य दैवायत्तं जन्म उपेक्ष्य पौरुष-दानशीलतयोः कृतित्वं घोषितवान्। एतद्व्यतिरिक्तं भीष्मस्य आत्मत्यागः, विदुरस्य नीतिपरायणता इत्यादयः भारतीयानां शाश्वत-नैतिकप्रेरणायाः मूलम्।                 
 श्रीकृष्णस्य धर्मस्थापनार्थम् अविच्छेद्य-महाभारत-निर्माणप्रचेष्टा, तथा गीतायाः मर्मवाणी अस्माकं कर्मजीवने, भावजीवने च शाश्वतं प्रभावं विस्तारयति। गीतायाः अन्तर्निहितं तत्त्वं देशकालस्य सीमा अतिक्रम्य विश्वमानवानाम् आदरणीया सम्पत्तिः सञ्जाता। भारतीय-धर्मशास्त्राणां मध्ये यः आपातो विरोधोऽस्ति, तेषां विरोधानां मीमांसापूर्वकं गीतायां सर्वेषां मतानां मार्गाणां च समन्वयसाधनं कृतम्। नीतिशास्त्ररूपेण, दर्शनशास्त्ररूपेण, इतिहासरूपेण च महाभारतं भारतीयानां जीवने, संस्कृतौ च सञ्जीवनी-सुधाम् आवहति।                                                                                                       
भारतीयसाहित्ये महाभारतस्य प्रभावः—भारतवर्षस्य साहित्यक्षेत्रे अपि महाभारतस्य प्रभावः सुदूरप्रसारी। ख्रीष्टपूर्वकालाद् आरभ्य सप्तदश-ख्रीष्टाब्दपर्यन्तम् महाभारतमवलम्ब्य वहूनि काव्य-नाटक-महाकाव्य-चम्पूकाव्यानि रचितानि। तेषु मुख्याः रचनाः यथा—                                                              
महाकाव्यम्—भारवि-रचितं किरातार्जुनीयम्, माघ-रचितं शिशुपालवधम्,  क्षेमेन्द्रस्य महाभारतमञ्जरी, नीतिवर्मणः कीचकवधम्, वासुदेवस्य युधिष्ठिरविजयम्, श्रीहर्षस्य नैषधचरितम्, वस्तुपालस्य नरनारायणानन्दम्, अमरचन्द्र-सूरि-रचितं वालभारतम् इत्यादीनि काव्यानि महाभारतमवलम्ब्य रचितानि।
नाट्यकृतिः—भासस्य मध्यमव्यायोगः, दूतवाक्यम्, ऊरुभङ्गम्, कर्णभारम्, दूतघटोत्कचम्, पञ्चरात्रम् चेति, कालिदासस्य अभिज्ञानशकुन्तलम्, भट्टनारायणस्य वेणीसंहारम्, कुलशेखरस्य तपतीहरणम्, सुभद्राधनञ्जयम्, प्रह्लानदेवस्य पार्थपराक्रमम्, वत्सराजस्य समुद्रमन्थनम्, काञ्चनपण्डितस्य धनञ्जयविजयम्, कुमारपालस्य द्रौपदीस्वयम्बरम्, रामचन्द्रस्य निर्भयभीमः, मोक्षादित्यस्य भीमविक्रमव्यायोगः इत्यादीनि रूपकाणि महाभारतमवलम्ब्य रचितानि।                                       
चम्पूकाव्यानि-- महाभरतमवलम्ब्य रचितानि चम्पूकाव्यानि  यथा—त्रिविक्रमभट्टस्य नलचम्पूः, अनन्तभट्टस्य भारतचम्पूः, चक्रकवेः द्रौपदीपरिणयः, अम्मलकवेः रुक्मिणीपरिणयः, सुभद्राहरणम् इत्यादीनि।                            
वौद्धसाहित्ये, जैनसाहित्ये च महाभारतस्य प्रभावः—केचिद् वौद्धाचार्याः महाभारतस्य उपाख्यानमवलम्ब्य ग्रन्थान् रचितवन्तः। यथा—विधुरपण्डित-जातके अङ्कितः विधुर-चरित्रं महाभारते वर्णितस्य विदुरस्य आदर्शेन परिकल्पितम्। घटजातके कृष्णस्य उपाख्यानं वर्णितम्। जैन-कविभिरपि महाभारतमवलम्ब्य वहवः ग्रन्थाः विरचिताः। यथा—जिनसेन-रचितं हरिवंशपुराणम्, गुणभद्र-रचितम् उत्तरपुराणम्, शिलाचार्यस्य ʻचौपन्न महापुरिसचरिअʼ, शुभचन्द्रस्य जैनमहाभारतम्, पाण्डवपुराणम् इत्यादयः।                                      
वङ्गसाहित्ये महाभारतस्य  प्रभावः—वङ्गदेशे काशीरामदास-रचितं महाभारतम् प्रायः प्रतिगृहं पठ्यते। माइकेल-मधुसूदनदत्तस्य ʻशर्मिष्ठाʼ, हेमचन्द्रस्य ʻवृत्रसंहारकाव्यʼ, गिरीशचन्द्र-घोषस्य ʻपाण्डवगौरवʼ, ʻपाण्डवेर अज्ञातवासʼ, रवीन्द्रनाथस्य ʻचित्राङ्गदाʼ, ʻगान्धारीर आवेदनʼ, कर्णकुन्तीसंवादʼ इत्यादिषु महाभारतस्य प्रभावः सुतरां दृश्यते।                                         उपसंहारः—महाभारतम् अस्माकं जातीय-जीवनस्य मूलाधारम्, अस्माकं समाजे, साहित्ये च सार्थकं रससञ्चारि, तथा अस्माकम् अन्तरस्य मर्मवाणीस्वरूपम्। युगे युगे इयं वाणी शाश्वतीं शान्तिं वहति। काशीरामदासेन यथार्थमेव उक्तम्-- ʻ महाभारतकथा अमृतसमानाʼ इति। महाभारतस्य मूल्यायनप्रसङ्गेण भिण्टारनित्श्-महोदयेन उक्तम्--
"It is only in a very restricted sense that we may speak of the Mahabharata as an epic and a poem. Indeed in a certain sense, the Mahabharata is not one poetic production, but a whole literature.'

-------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—