ads

ad

3rd sem, C-5, संस्कृतसाहित्येतिहासः, संक्षिप्ता टिप्पणी-2


3rd sem, C-5, संस्कृतसाहित्येतिहासः, संक्षिप्ता टिप्पणी-2

मेघदूतम्

संस्कृतसाहित्ये मेघदूतं सर्वापेक्षया समादृतं गीतिकाव्यम्। महाकविः कालिदासः अस्य रचयिता। काव्यमिदं मन्दाक्रान्ता-छन्दसा विरचितम्। समालोचकैः पूर्वमेघः उत्तरमेघश्चेति अस्य भागद्वयं कृतम्। पूर्वमेघे प्रकृतेः विचित्रं रूपं वर्णयित्वा उत्तरमेघे मेघमुखेन यक्षपत्नीसमीपं वार्ता प्रेरिता।

मेघदूतस्य विषयवस्तु— स्वाधिकारप्रमत्तः कश्चिद् यक्षः प्रभुना कुवेरेण अभिशप्तः सन् वर्षेण दण्डभोगाय कैलासपर्वतात् सुदूरे रामगिरिपर्वते निर्वासितः अभवत्। तत्र स कतिचित् मासान् कथञ्चित् अतिक्रान्तः। ततः वर्षाकालः समायातः। विरह-कातरः यक्षः तस्य पत्नीसपीपं वार्ता-प्रेरणार्थं पर्वतसानुदेशे आश्लिष्टं नूतनं मेघं दूतरूपेण नियुक्तवान्। यक्षः मेघस्य गमनमार्गस्य वर्णनायां मानससरोवरम्, आम्रकूटपर्वतम्, दशार्ण-जनपदम्, विदिशानगरीम्, ब्रह्मावर्त-कनखल-कुरुक्षेत्रादि जनपदम्, सिन्धु-रेवा-शिप्रा-गन्धवती-चर्मण्वती इत्यादीः नदीः, तथा अन्यानि स्थानान्यपि वर्णितवान्। पूर्वमेघे तदानीन्तन-भारतवर्षस्य भौगोलिकरूपस्य विवरणं प्रदत्तम्।
उत्तरमेघे अलकानगर्याः वर्णनाकाले यक्षेण उक्तम्—तत्र उन्नतेषे विशालेषु भवनेषु अपरूपाः मनोरमाश्च रमण्यः वसन्ति। तत्र यौवनमेव एकमात्रं वयः। आनन्दं विना तत्र अश्रुपातः न भवति। तादृशे सुरम्ये प्रासादे तस्य अपरूपा स्त्री वसति। यक्षमुखेन तस्याः वर्णना—
ʻतन्वी श्यामा शिखरिदशना पक्वविम्बाधरोष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः।ʼ
अन्ते च तेन उक्तम्-- 
ʻया तत्र स्याद् युवतिविषये सृष्टिराद्येव धातुः।ʼ
तस्य विरहेण यक्षवधूः अधुना विनिद्राम् रजनीं यापयति। सा अधुना शीर्णा चन्द्रकला इव—
ʻप्राचीमूले तनूमिव कलामात्रशेषां हिमांशोः।ʼ
अथवा शिशिरमथिता पद्मिनी इव--
ʻशिशिरमथितां पद्मिनीं वान्यरूपाम्।ʼ
अथवा मेघाच्छन्ने दिवसे स्थलपद्ममिव-- 
ʻसाभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम्।ʼ
यक्षः तस्याः पत्नीं सान्त्वनादानपूर्रवकं मेघमुखेन उक्तवान्—शापावसाने परिणत-शरच्चन्द्रिकासु क्षपासु तयोः पुनर्मिलनं भवेत्। यक्षेण मेघः अनुरुद्धः—यथावसरं यथाकालं स कुशलसंवादं निवेदयेत् इति।

मूल्यायनम्—प्राचीनानां मतानुसारेण मुघदूतं खण्डकाव्यम्, आधुनिकानां पण्डितानां मतानुसारेण वर्षाकाव्यम्, विरहकाव्यम्, गीतिकाव्यम् वा। कालिदासस्य अन्तर्निहिता चेतना एव मुघदूतस्य प्रतिश्लोकं प्रकाशिता। अतः मन्मयता-स्पर्शेन मुघदूतं सार्थकं गीतिकाव्यं सञ्जातमिति।  Dr. S. N. Dasgupta-महोदयेन मेघदूतस्य मूल्यायनप्रसङ्गेन उक्तस्—The Meghaduta still remains unsurpassed as a masterpiece of its kind, not for its matter, nor for its description, but purely for its poetry.’

--------

गीतगोविन्दम्

संस्कृतभाषया रचितेषु भक्तिमूलक-गीतिकाव्येषु गीतगोविन्दं सर्वप्रधानम्। कविः जयदेवः अस्य रचयिता। ख्रीष्टीये द्वादशे शतके वीरभूम-परिसरे केन्दुविल्व इति ग्रामे कविः जयदेवः अजायत। तस्य पिता भोजदेवः, माता च वामादेवी। आत्मविषये कविना उक्तम्-- ʻपद्मावती-चरण-चारण-चक्रवर्तीʼ, ʻकेन्दुविल्व-समुद्र-सम्भव-रोहिणीरमणःʼ, ʻपद्मावतीरमण-जयदेवकविःʼ। स बङ्गाधिपस्य लक्ष्मणसेनस्य सभाकविः आसीत्। तस्य गीतगोविन्दे सङ्गीत-शिल्पकला-भक्तिरसानाम् अपूर्वं समन्वयसाधनं जातम्।

गीतगोविन्दस्य वर्णनीयः विषयः—कविना राधाकृष्णयोः अपार्थिव-प्रेमलीलाम् अवलम्ब्य भागवतम् अनुसृत्य इदं काव्यं विरचितम्। अत्र द्वादशसु सर्गेषु अष्टाशीतिः श्लोकाः, चतुर्विंशति च गीतं विद्यन्ते। यमुना-नदीतीरस्य शुचिस्निग्धस्य वृन्दावनस्य कुञ्जकुटिरे राधाकृष्णयोः मिलन-विरह-मानाभिमान-रागोनुराग-आनन्द-वेदनादीनां भावानां वर्णनमेव कवेः मुख्यमुद्देश्यम्।
उत्कण्ठिता राधा कृष्णचिन्तायां व्याकुला। कृष्णस्तदा अन्याभिः व्रजाङ्गनाभिः सह लीलया मत्तः। अन्याः नार्यः प्रति कृष्णस्य अनुराग-व्यापारं श्रुत्वा राधा मनःकष्टं प्राप्ता। तथापि कृष्णं स्मरन् सा कालं यापयति। सखी-मुखात् राधायाः दुर्दशां श्रुत्वा कृष्णः व्याकुलः जातः। राधायाः विरह-दुःखं दूरीकरणाय कृष्णः दूतीमुखेन तस्य आगमनवार्तां प्रेरितवान्। कृष्णस्य प्रतीक्षां कुर्वती राधा आशाहता क्रुद्धा च जाता। अन्ते च राधाकृष्णयोः मेलनेन काव्यं समाप्तं जातम्।

मूल्यायनम्—कविना तस्य काव्यविषये उक्तम्-- ʻकरोति जयदेवकविः प्रबन्धम्ʼ, ʻमङ्गलमुज्ज्वलगीतिम्ʼ, ʻमधुरकोमलकान्तपदावलीम्ʼ। पाश्चात्त-समालोचकानां मतेन गीतगोविन्दम्  ʻRefined yatra, Pastoral drama', ‘lyric drama,' melodrama'  इति।  श्रीचैतन्यस्य मते—इदं काव्यम् आध्यात्मिक-भावादर्शस्य ग्रन्थः। डः सुशीलकुमार दे-महोदयेन उक्तम्-- ʻइदं कविजीवनस्य निगूढतमयोः सुख-दुःखयोः वर्णविन्यासेन सत्यसौन्दर्येण च समुज्ज्वलम्। कवेः राधा न केवलं तस्य कल्पनारूपिणी, तस्य जीवनस्य सर्वासाम् अनुभूतिप्रीतीनाम् राजलक्ष्मीरपिʼ । (भावानुवादः)। 
जयदेवः भावेन भाषया च, वृत्तान्तेन ऐतिह्येन च, बङ्गानां जीवने महासङ्गमं सङ्घटितवान्। अस्मिन् सङ्गमतीर्थे पुण्यस्नानं कृत्वा बङ्गसाहित्ये नवयुगस्य सूचना जाता। समालोचकेन अक्षयचन्द्र-सरकार-महोदयेन यथार्थमेव उक्तम्-- ʻजयदेवः यथा बङ्गानां गीतिगङ्गा-स्रोतसः हरिद्वार-स्वरूपम्, अस्माकं मूलं प्रस्रणम्, चिरन्तनः महाजनः, महागुरुः, आदिकविः च, तथा संस्कृतरूपे विशाले भारतसागरे जयदेवस्य गीतगोविन्दम् अस्माकं गङ्गासागरः।ʼ (भावानुवादः)।

------

रधुवंशम्

महाकवि-कालिदास-रचितम् रघुवंशम् संस्कृतसाहित्यस्य अन्यतमं मुख्यं महाकाव्यम्। सूर्यवंशीयस्य नृपतेः रघोः वंशस्य ख्याताख्यातानां नृपाणां चरित्रवर्णनमेव अस्य काव्यस्य विषयः। कविना मुख्यतः वाल्मीकेः रामायणात् तस्य काव्यस्य उपादानं संगृहीतम्। एतद्व्यतिरिक्तं महाभारते, विविधेषे पुराणेषु वर्णितात् उपाख्यानादपि उपादानं संगृहीतम्। अत्र राज्ञः दिलीपाद् आरभ्य अग्निमित्र-पर्यन्तम् इक्ष्वाकुवंशस्य अष्टाविंशति-संख्यकामाम् राज्ञां जीवनवृत्तान्तं, कीर्तिकलापं, वीरत्वगाथाजातं, तत्सह प्राचीनभारतवर्षस्य भौगोलिकम् ऐतिहासिकं विवरणमपि अत्र उपस्थापितम्। अत्र उनविंशतिः सर्गाः सन्ति।

संक्षिप्तं वृत्तान्तम्—सूर्यवंशस्य आदिपुरुषः मनुः। तस्य उत्तरपुरुषः महाराजः दिलीपः। स एकदा पुत्रकामनया पत्न्या सुदक्षिणया सह कुलगुरोः वशिष्ठस्य आश्रमम् गतः। तत्र तौ वशिष्ठेन आदिष्टौ होमधेनुं नन्दिनीं परिचर्यां कृत्वा वरं लब्धौ। ततः दिलीप-सुदक्षिणयोः पुत्रस्य रघोः जन्म, तस्य विवाहः, राज्यभारग्रहणम्,  दिलीप-सुदक्षिणयोः वाणप्रस्थावलम्बनम्, रघोः दिग्विजययात्रा, विशालस्य साम्राज्यस्य स्थापनम्, विश्वजित्-यज्ञसम्पादनम्, रघोः पुत्रस्य अजस्य जन्म, तस्य विवाहः, राज्याभिषेकः, तस्य राजत्वकालः, अजस्य पुत्रः दशरथः, तस्य राजत्वकालः, अजस्य प्राणत्यागः, रावण-निधनाय रामरूपेण नारायणस्य आविर्भाववार्ता, दशरथेन पुत्रेष्टियज्ञसम्पादनम्, रामादि-पुत्रलाभः, रामस्य शैशवकालः, तस्य विवाहः, रावणेन सीताहरणम्, रामेण रावणनिधनम्, सीतया सह रामस्य अयोध्यां प्रत्यागमनम्, सीतानिर्वासनम्, तस्याः पाताल-प्रवेशः इत्यादयः विषयाः वर्णिताः। अन्तिमे सर्गत्रये कुशः, अतिथिः, निषधः, नलः, पुण्डरीकः, हिरण्यनाभः, सुदर्शनः, अग्निवर्णः प्रमुखानाम् राज्ञां संक्षिप्तं विवरणं प्रदत्तम्।

मूल्यायनम्—वाल्मीकेः रामायणात् उपादानं गृहीत्वापि कालिदासेन रामकथायाः काचिद् भिन्ना परम्परा अनुसृता। कविना कानिचित् नवानि वृत्तान्तानि उपस्थापितानि। तेषु इतिहासस्य उपादानमपि विद्यते। इतिहासनिष्ठा, अतिप्राकृतम् उपादानम्, प्रकृतिचित्रणम्, मानवीयं प्रेम, त्याग-सतता-न्यायनिष्ठा-वास्तववोधः इत्यादीनां नानाविधानाम् उपादानानां संमिश्रणात् रघुवंशम् एकम् आकरषणीयं महाकाव्यम्। रघुवंशस्य मूल्यायन-प्रसङ्गेन Dr. Dasgupta महोदयेन उक्तम्-- ʻThe work has a greater height of aim and range of delivery, but has no known predecessor. It is rather a gallery of pictures than a unified poem. Kālidāsa succeeds in evolving one of the finest specimens of Mahākāvya which exhibits both the diversity and plenitude of his powers.ʼ

-----------


शद्रकः / मृच्छकटिकम्

संस्कृत-नाट्यसाहित्ये शूद्रकः विशिष्ट-स्थानस्य अधिकारी। तस्य आविर्भावकालः प्रथमख्रीष्टाब्दात् पञ्चमख्रीष्टाब्द-पर्यन्तम्। तस्य आत्मपरिचयाद् ज्ञायते यत्, स आसीत् विदिशानगर्याः राजा, विदग्धः लेखकः। सः अश्वमेधयज्ञं सम्पाद्य शतवर्षं जीवितः आसीत्। पुत्रं सिंहासने अभिषिच्य स स्वेच्छया प्राणान् तत्याज। शूद्रक-रचितम् रूपकं मृच्छकटिकम् इति।
मृच्छकटिकम् दशाङ्कविशिषिटं प्रकरणम्। उज्जयिन्याः नगर्याः ब्राह्मणः वणिक् चारुदत्तः, तेन सह गणिकायाः वसन्तसेनायाः प्रणयः, तथा  तस्याः कूलवध्वाः मर्यादालाभः अस्य प्रकरणस्य मूलः विषयः। प्रसङ्गक्रमेण अत्र एकम् राजनैतिकं गौणं वृत्तान्तमपि उपस्थापितम्।

संक्षिप्तं वृत्तान्तम्— वसन्तसेना चारुदत्तं प्रति अनुरक्ता। राज्ञः पालकस्य श्यालकः शकारः वसन्तसेनायाः प्रणयप्रार्थी। परन्तु वसन्तसेना तं प्रति विरक्ता। एकदा चारुदत्तस्य गृहमागनमकाले वसन्तसेना प्रवहणविपर्ययेण शकारस्य प्रमोदोद्यानम् उपस्थिता। तत्र शकारस्य अशिष्टाचरणात् वसन्तसेना तं भर्त्सितवती। एतेन क्रुद्धः शकारः ताम् आहतवान्। तेन वसन्तसेना मूर्छिता जाता। वसन्तसेनां मृतां मत्वा शकारः प्रतिहिंसा-चरितार्थाय वसन्तसेनायाः हत्यापराधेन चारुदत्तम् अभियुक्तवान्। विचारकार्यस्य प्रहसनात् चारुदत्तः मृत्युदण्डेण दण्डितः। कस्यचिद् बौद्धभिक्षोः शुश्रूषया वसन्तसेना स्वस्था जाता। ततः वध्यभूमौ गत्वा वसन्तसेना चारुदत्तम् रक्षितवती। चारुदत्तस्य स्त्रीपुत्रौ अपि तत्र उपस्थितौ। शकारस्य दुष्कर्म, तथा चारुदत्तस्य निर्दोषत्वं प्रमाणितम्। चारुदत्तः मुक्तः जातः, शकारस्य च मृत्युदण्डः घोषितः। चारुदत्तस्य कृपया शकारोपि मुक्तः जातः।
तदा राज्ये एकम् अभ्युत्थानं सङ्घटितम्। तेन राजा पालकः राज्यच्युतः अभवत्, आर्यकः सिंहासनम् आरूढः। चारुदत्तेन एकदा उपकृतः आर्यकः चारुदत्तं राजकार्ये महत्त्वपूर्णं पदं दत्तवान्। तस्यैव अनुरोधेन चारुदत्तः वसन्तसेनां कूलवध्वाः मर्यादां दत्तवान्।

मूल्यायनम् शूद्रकेन संस्कृत-नाटकस्य परम्परा कथञ्चिद् अतिक्रान्ता। बहुमुखीनता, वैचित्र्यं च मानव-चरित्रस्य मुख्यं वैशिष्ट्यम् इत्येवं सत्यं प्रति शूद्रेकेणैव प्रथमम् अस्माकं दृष्टिः आकर्षिता। सन्ध्याकालीनं चौर्यम्, विचारदृश्यम्, द्युतक्रीडायाः दृश्यम्, वध्यभूमेः दृश्यम् इत्यादिषु शूद्रकः अनवद्यः। नामकरणे, चरित्रनिर्वाचने, भाषायाः अलङ्करणे, भावगाम्भीर्ये, परिशीलिता रचनारीतिः, अलङ्कार-छन्दसोः वैचित्र्ये, प्राकृतभाषा-प्रयोगे दक्षताप्रदर्शने, सुचारु-रचरीतिप्रयोगे च शूद्रकः एकः महान् शिल्पी। शूद्रकस्य  मूल्यायन-प्रसङ्गेन Dr. Dasgupta महोदयेन उक्तम्-- ʻThe work is truly worthy of a great dramatist in its skilful handling of a swift-moving plot of sustained interest in its variety of incidents and characters, in its freedom from the usual fault of over elaboration and in its sharpness. '

----------


Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—