ads

ad

3rd sem, C-5, संस्कृतसाहित्येतिहासः, संक्षिप्ता टिप्पणी


3rd sem, C-5, संस्कृतसाहित्येतिहासः, 
संक्षिप्ता टिप्पणी

. कादम्बरी--
अपूर्व-प्रतिभाबलेन ये खलु कवयः संस्कृतसाहित्य-भाण्डारं पुष्टिं विदधाति, तेषु बाणभट्टः अन्यतमः। तद्रचितं काव्यं कादम्बरी कथाश्रेण्याः गद्यकाव्यम्। गुणाढ्यस्य बृहत्कथातः अस्य वृत्तान्तं संगृहीतम्। अस्य पूर्वार्धस्य रचयिता बाणभट्टः स्वयम्, उत्तरार्धस्य च रचयिता तस्य पुत्रः भूषणभट्टः।
विदिशाराजस्य शूद्रकस्य सभायां काचित् चण्डालकन्या एकं शुकम् आनीतवती। स शुकः स्वजीवनवृत्तान्तं वक्तुमारेभे। तस्य पितुः मरणात् परं जावालिः मुनिः तं पोषितवान्। ततः जावालिमुखेन द्वितीयं वृत्तान्तं वर्णितम्। उज्जयिनीराजः तारापीडः, तस्य मन्त्री शुकनासः। तारापीडस्य पुत्रः चन्द्रपीडः, शुकनासस्य पुत्रः वैशम्पायनः। विद्याशिक्षां समाप्य तौ दिग्विजयार्थं बहिर्गतौ। एकं किन्नरमिथुनम् अनुसरणक्रमेण चन्द्रापीडः अच्छोदसरस्तीरम् उपनीतः। तत्र स तपस्यारताम् एकां युवतीम् अपश्यत्। तस्याः नाम महाश्वेता. सा चन्ड्रापीडं तस्याः जीवनवृत्तान्तम् उक्तवती। पुण्डरीकेण सह तस्याः प्रणयः सञ्जातः। महाश्वेता-विरहेण सः अम्रियत। महाश्वेतापि सहमरणं गन्तुमुद्यता। तदा काचिद् देवता पुण्डरीकस्य देहं नीत्वा स्वर्गं गता। तदा दैववाणी जाता—तयोः पुनर्मिलनं भवेत्।
महाश्वेतायाः सखी कादम्बरी। सा अस्य काव्यस्य नायिका। चन्द्रापीडः महाश्वेता-समीपं तस्याः वृत्तान्तं श्रुत्वा तां प्रति आकृष्टः जातः। कालक्रमेण तयोः साक्षात्कारः अभवत्। तयोः अनुरागः गभीरः सञ्जातः। एकदा द्वावपि प्रबलया उत्कण्ठया कालं यापयतः स्म।  
अवशिष्टांशः भूषणभट्टेन रचितः। काव्यस्य उपसंहारे दृश्यते--  शुकः एव मुनिकुमारः पुण्डरीकः, चण्डालकन्या तस्य माता लक्ष्मीः, राजा शूद्रक एव चन्द्रापीडः। शुकशूद्रकयोः प्राणत्यागात् पुण्डरीकः आकाशात् आविर्भूतः। अन्ते च चन्द्रापीड-कादम्बर्योः, तथा पुण्डरीक-महाश्वेतयोः मेलनं सङ्घटितम्। समग्रे काव्ये मुख्यचरित्राणां त्रयाणां जन्मनां  वृत्तान्तं वर्णितम्।
मूल्यायनम्-- वाणस्य कवित्वशक्तेः सर्वोत्तमं निदर्शनं कादम्बरी। प्राचीनैः समालोचकैः, विदग्धैः पण्डितैः, सहृदयैः पाठकैश्च कादम्बर्याः भूयसी प्रशंसा कृता। बाणस्य काव्यं काव्यरसिकाणाम् अमन्दम् आनन्दं जनयति। प्रथाबहिर्भूतोपमा-प्रयोगेन, अपूर्व-चित्रनिर्माणेन, भाव-भाषयोः सामञ्जस्यविधानेन च बाणस्य काव्यम् अनवद्यम्। अतः हेतोः केनचिद् रसज्ञेन समालोचकेन उक्तम्-- ʻकादम्बरीरसज्ञानामाहारोपि न रोचते।ʼ

-------

२. पञ्चतन्त्रम्
संस्कृत-कथासाहित्यजगति पञ्चतन्त्रं सर्वप्रधानम्। अस्य मुख्यानि चरित्राणि विविधाः पशुपक्षिणः। ते मनुष्यवद् भाषन्ते। पृथिव्याः पञ्चाशदधिक-भाषाभिः पञ्चतन्त्रं प्रकाशितम्। ख्रीष्टीयस्य षष्ठशतकस्य प्रथमार्धे पह्लबी-भाषया इदमनूदितम्। मूलग्रन्थः अधुना लुप्तः।
ʻतन्त्रम्ʼ इति शब्दः कथासंग्रहार्थे प्रयुक्तः। अस्मिन् ग्रन्थे पञ्च तन्त्रानि परिच्छेदाः वा सन्ति। अतः अस्य नाम पञ्चतन्त्रम्। इमानि तन्त्रानि यथा—मित्रभेदः, मित्रप्राप्तिः, काकोलूकीयम्, लब्धप्रणाशम्, अपरीक्षितकारकं चेति। कथामुखे इदं ज्ञापितं यत्, दाक्षिणात्ये महिलारोप्यनगरे अमरशक्तिः नाम राजा बभूव। तस्य त्रीन् मूर्खान् पुत्रान्  मासषट्केण नीतिशास्त्रेषु पारदर्शिनः कर्तुं सभापण्डितः विष्णुशर्मा इदं पञ्चतन्त्रम् रचितवान्। मूलांशः गद्येन निबद्धः, अन्तरा च नीति-उपदेशमूलकाः श्लोकाः अपि सन्ति।
मित्रभेदः— अत्र पिङ्गलक-नामकस्य सिंहस्य, सञ्जीवक-नामकस्य वृषस्य, करटक-दमनक-नामकस्य शृगालद्वयस्य, शशक-सिंहयोः, मूर्खकूर्म-गोपालकाणां, वक-काकादीनां कथाः वर्णिताः। 
मित्रप्राप्तिः—अस्य तन्त्रस्य मुख्याः कथाः—सन्न्यासि-मूषिकयोः, ब्राह्मण-ब्राह्मणपत्न्योः, लुब्धशृगालस्य कथाः।
काकोलूकीयम्--  अस्य तन्त्रस्य मुख्याः कथाः— काक-पेचकयोः, शशक-हस्तिनोः, ब्राह्मण-धूर्तत्रयाणाम्, ब्राह्मण-तस्करयोः, सर्पभेकयोः कथाः।
लब्धप्रणाशम्-- अस्य तन्त्रस्य मुख्याः कथाः—वानर-मकरयोः, शृगाल-सिंहयोः कथाः।
अपरीक्षितकारकम्-- अस्य तन्त्रस्य मुख्याः कथाः— सन्तानकामिनः ब्राह्मणस्य, तथा ब्राह्मण-नकुलयोः कथाः।
मूल्यायनम् -- पञ्चतन्त्रस्य भाषा सहजबोध्या आडम्बरहीना च। तत्र वर्णितासु कथासु न केवलं न्याय-नीति-त्याग-सततादीनाम् आदर्श-प्रचार एव मुख्यम् उद्देश्यम् अपि तु अत्र पशुपक्षिणां रूपकेण मनुष्याणां महत्त्वम्, कपटाचरणम्, शठता, हृदयहीनता इत्यादयः दोषगुणजातमपि परोक्षभावेन सुव्यक्तम्। कथा क्वचित् कथामात्रम्, क्वचित् वा प्रत्यक्ष-न्यायनीतीनाम् आदर्श-प्रचारस्य बाहनम्, क्वचित् पुनः साहित्यगुण-नीतीकथानां सुष्ठु समन्वयभूता। पञ्चतन्त्रस्य मूल्यायनप्रसङ्गेन Dr. Dasgupta-महोदयेन उक्तम्--ʻIt is without reason, therefore that the work enjoyed and still enjoys such unrivalled popularity as a great story-book in so many different times and lands.ʼ

--------

हितोपदेशः
संस्कृत-कथासाहित्यजगति अन्यतमः प्रसिद्धः ग्रन्थः हितोपदेशः। वङ्गाधिपस्य धवलचन्द्रस्य सभाकविः नारायणः अस्य रचयिता। लेखकः पञ्चतन्त्रस्य रचनारीतेः आदर्शम् अनुसृतवान्। अत्र चत्वारः अध्यायाः सन्ति। यथा—मित्रलाभः, सुहृद्भेदः, विग्रहः, सन्धिश्चेति। हितोपदेशस्य प्रथमस्य अध्यायद्वयस्य कथाः पञ्चतन्त्रात् संगृहीताः। नारायणः कामन्दकीय-नीतिसारेण सुतरां प्रभावितः। आसु कथासु महाभारतस्य, जातकस्य, कथासरित्सागरस्य च कथानां प्रभावोऽपि दृश्यते।
मित्रलाभः—अत्र अष्ट कथाः सन्ति। मुख्याः कथाः यथा—लघुपतनक-नामकस्य काकस्य, चित्रग्रीव-नामकस्य कपोतस्य, हिरण्यक-नामक-मूषिकस्य, भैरवव्याधस्य कथाः।
 सुहृद्भेदः—अत्र नव कथाः सन्ति। मुख्याः कथाः यथा—पिङ्गलक-नामकस्य सिंहस्य, करटक-दमनकयोः शृगालयोः, नन्दनक-सञ्जीवकयोः वृषयोः, महाविक्रम-सिंहस्य, घण्टाकर्ण-राक्षसस्य, वीरविक्रम-नामकस्य राज्ञः कथाः।
विग्रहः—अत्रापि नव कथाः सन्ति। मुख्याः कथाः यथा—हिरण्यगर्भ-नामकस्य राजहंसस्य, हंसकाकयोः, नीलशृगालस्य कथाः।
सन्धिः—अत्र चतुर्दश कथाः सन्ति। मुख्याः कथाः यथा—सङ्कट-विकट-नामकयोः हंसयोः, महातपा-नामकस्य मुनेः, कुलीर-वकयोः, मन्दविषसर्पस्य कथाः।
हितोपदेशस्य कतिपय उपदेशाः—ʻअज्ञातकुलशीलस्य वासो देयो व कस्यचित्ʼ, ʻउद्योगिनं पुरुषसिंहमुपैति लक्ष्मीःʼ, बुद्धिर्यस्य बलं तस्यʼ।
मूल्यायनम्-- हितोपदेशस्य भाषा अतीव सरला, आवेदनमयी च। नारायणः कथाच्छलेन वालकेभ्यः नीतिविषये उपदेशान् दत्तवान्। सभ्यतायाः उन्नतौ सत्यामपि मनुष्याणाम् आदिमप्रवृत्तिः न परिवर्तिता। तेषां प्रवञ्चना, षठका, नीचाशयता, चतुरता च पूर्ववदेव विद्यन्ते। लेखकः कथाच्छलेन तान् विषयान् विवृतवान्। तस्मादेव कारणात् अयं ग्रन्थः जनगणमानसे महत्त्वपूर्णं स्थानम् अधिकृतः। नारायणस्य मूल्यायनप्रसङ्गेन अध्यापकेन Keith महोदयेन उक्तम्--ʻNārāyana's style as intended for instruction in Sanskrit is simple and normally satisfactorily easy. The chief difficulties occur in the verses he looked over. A considerable number of stanzas are probably his own work, and if so he deserves considerable credit for fluent versification.ʼ
----------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—