ads

ad

संस्कृतभाषया संक्षिप्तम् उत्तरम् (अभिज्ञानशकुन्तलम्), 2nd sem, c-3, unit-I (cbpbu)


संस्कृतभाषया संक्षिप्तम् उत्तरम् (अभिज्ञानशकुन्तलम्),
2nd sem, c-3, unit-I (cbpbu)
संस्कृतभाषया संक्षिप्तम् उत्तरं प्रदेयम्  (पञ्चानाम्)—

१.  अभिज्ञानशकुन्तलम् इति नाटकं केन विरचितम्? तस्य इतरयोः नाटकयोः नाम लिखत।
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटकं महाकविना कालिदासेन विरचितम्? तस्य इतरं नाटकद्वयम्—मालविकाग्निमित्रम् विक्रमोर्वशीयम् चेति।

२. अभिज्ञानशकुन्तलम् इति नाटकस्य वृत्तान्तं कस्माद् ग्रन्थाद् गृहीतम्?
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटकस्य वृत्तान्तं महाभारतस्य आदिपर्वणः गृहीतम्।

३. अभिज्ञानशकुन्तलम् इति नाटके कति अङ्काः सन्ति?
उत्तरम्— महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटके सप्त अङ्काः सन्ति।

४. अभिज्ञानशकुन्तलम् इति नाटकस्य अङ्कानां नामानि लिखत।
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य अङ्कानां नामानि यथा— आश्रमप्रवेशः (प्रथमः अङ्कः), आश्रमनिवेशः (द्वितीयः अङ्कः), मिलनम् (तृतीयः अङ्कः), विदा (चतुर्थः अङ्कः), प्रत्याख्यानम् (पञ्चमः अङ्कः), पश्चात्तापः (षष्ठः अङ्कः), पुनर्मिलनम् (सप्तमः अङ्कः)।

५.  अभिज्ञानशकुन्तलम् इति नाटकस्य नायक-नायिकयोः नामनी लिखत।
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य नायकः हस्तिनापुरस्य राजा दुष्यन्तः, तथा नायिका कण्वदुहिता शकुन्तला।

६. क उच्यते सूत्रधारः?
उत्तरम्— संस्कृतनाटके नाट्यपरिचालकः सूत्रधारः इत्युच्यते।

७. का उच्यते नटी?
उत्तरम्— संस्कृतनाटके सूत्रधाकस्य पत्नी नटी इत्युच्यते।

८. का खलु नान्दी?
उत्तरम्— संस्कृतनाटकस्य प्रस्तावनांशस्य आदौ देव-द्विज-नृपादीनां स्तुतिभाषणेन आशीर्वाद-प्रार्थनापूर्वकं यत् मङ्गलाचरं क्रियते तत्  नान्दी इत्युच्यते।

९. का उच्यते प्रस्तावना?
उत्तरम्— संस्कृतनाटकस्य यस्मिन् अंशे नटी, विदूषकः पारिपार्श्विक वा सूत्रधारेण सह मिलित्वा स्व-स्व-कर्तव्य-विषयम् अवलम्ब्य नाटकस्य आरम्भव्यापारे परस्परम् आलपन्ति, तदशं प्रस्तावना इत्युच्यते।

१०.  अभिज्ञानशकुन्तलम् इति नाटकस्य प्रस्तावनांशे कस्य ऋतोः उल्लेखः अस्ति?
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटकस्य प्रस्तावनांशे ग्रीष्म-ऋतोः उल्लेखः अस्ति।

११.  अभिज्ञानशकुन्तलम् इति नाटकस्य प्रस्तावनांशे नटी कम् ऋतुमवलम्ब्य गीतम् अगायत्?
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटकस्य प्रस्तावनांशे नटी ग्रीष्म-ऋतुमवलम्ब्य गीतम् अगायत्।

१२. अभिज्ञानशकुन्तलम् इति नाटकस्य नान्दीश्लोके कस्य देवस्य स्तुतिः विहिता?
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटकस्य नान्दीश्लोके शिवस्य स्तुतिः विहिता।

१३. अभिज्ञानशकुन्तलम् इति नाटकस्य नान्दीश्लोके शिवस्य कतिविधम् रूपम् उल्लिखितम्?
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटकस्य नान्दीश्लोके शिवस्य अष्टविधम् रूपम् उल्लिखितम्। यथा-- जलम्, अग्निः, यजमानः, चन्द्रः, सूर्यः, आकाशः, पृथिवी, वायुः चेति।

१४. क उच्यते गान्धर्वविवाहः?
उत्तरम्—गुरुजनानाम् अनुमतिम् अनपेक्ष्य पारस्परिक-प्रणयवशात् सञ्जातः विवाहः गान्धर्वविवाहः इत्युच्यते।

 

१५. किमासीत् दुष्यन्तस्य अमात्यस्य नाम?

उत्तरम्-- दुष्यन्तस्य अमात्यस्य नाम आसीत् आर्यः पिशुनः इति।


१६. का आसीत् अनसूया/ प्रियंवदा/ गौतमी/ हंसपदिका/ वसुमती?
उत्तरम्— अनसूया प्रियंवदा च शकुन्तलायाः प्रियसख्यौ आस्ताम्।
गौतमी महर्षेः कण्वस्य आश्रमस्य वृद्धा तापसी। सा शकुन्तलायाः मातृस्वरूपा आसीत्।
हंसपदिका राज्ञः दुष्यन्तस्य अन्यतमा महिषी आसीत्।
वसुमती राज्ञः दुष्यन्तस्य प्रधाना महिषी आसीत्।

१७. क आसीत् करभकः?
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटकस्य द्वितीयाङ्के करभकस्य उल्लेखः अस्ति। स राजमातुः वार्तावाहकः आसीत्।

 

१८. क आसीत् शारङ्गरवः / शारद्वतः?

उत्तरम्-- शारङ्गरवः  शारद्वतश्च महर्षेः कण्वस्य शिष्यौ आस्ताम्। तौ शकुन्तलया सह हस्तिनापुरं गतौ।

१९. क आसीत् ययातिः?
उत्तरम्—राज्ञः नहूषस्य पुत्रः आसीत् ययातिः। स शुक्राचार्यस्य कन्यां देवयानीं परिणीतवान्। ततः देवयान्याः परिचारिकां शर्मिष्ठां परिणीतवान्।

२०. शकुन्तला-शब्दस्य कोऽर्थः?
उत्तरम्-- शकुन्त इत्यस्य अर्थः पक्षी। शकुन्तैः लाति इति शकुन्तला। शकुन्तलायाः जन्मनः परं सा मात्रा परित्यक्ता सती पक्षिभिः रक्षिता। अतः तस्याः नाम शकुन्तला इति।

२१. अभिज्ञानशकुन्तलम् इति नाटके विदूषकस्य नाम किम्?
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटके विदूषकस्य नाम माधव्यः इति।

२२. अनसूया-शब्दस्य कोऽर्थः?
उत्तरम्—परगुणेषु दोषाविष्करणम् असूया, या असूयां न करोति सा अनसूया इति। अनसूया शकुन्तलाया अन्यतमा सखी आसीत्।

२३. का आसीत् सानुमती? कस्मिन् सा आविर्भूता?
उत्तरम्--  सानुमती शकुन्तलायाः मातुः स्वर्गलोकस्य अप्सरसः मेनकायाः सखी आसीत्। अभिज्ञानशकुन्तलम् इति नाटकस्य षष्ठाङ्के सा आविर्भूता।

२४. नाटकस्य अन्तिमश्लोकस्य नाम किम्?
उत्तरम्-- नाटकस्य अन्तिमश्लोकस्य नाम भरतवाक्यम् इति।

२५. शकुन्तलया संवर्धितस्य हरिणशिशोः नाम किम्?
उत्तरम्-- शकुन्तलया संवर्धितस्य हरिणशिशोः नाम आसीत् दीर्घापाङ्गः इति।

२६. शकुन्तया सह के हस्तिनापुरं गताः, का च न गताः?
उत्तरम्—शार्ङ्गरवः, शारद्वतः, गौतमी च हस्तिनापुरं गताः। महर्षिः कण्व, अनसूया, प्रियंवदा च न गताः।

२७.  प्रत्याख्याता शकुन्तला कया नीता?
उत्तरम्—अप्सरस्तीर्थमारात् काचित् ज्योतिर्मयी नारीमूर्तिः प्रत्याख्यातां शकुन्तलां नीतवती।

२८. शकुन्तलायाः मातापितरौ कौ?
उत्तरम्—स्वर्गलोकस्य अप्सराः मेनका शकुन्तलायाः जन्मदात्री माता, तथा महर्षिः विश्वामित्र तस्याः जन्मदाता पिता। पालन-पोषणात् महर्षिः कण्व तस्याः पिता।

२९. कुलपति-शब्दस्य कोऽर्थः?
उत्तरम्—यः मुनिः दश सहस्रं शिष्यम् अन्नादिना पोषयित्वा शिक्षादानं करोति स्म, स कुलपतिः इत्यभिहितः। महर्षिः कण्वः कुलपतिः आसीत्।

३०. महर्षिः कण्वः कथं सोमतीर्थं गतः?
उत्तरम्—शकुन्तलायाः प्रतिकूलं दैवं शमयितुं महर्षिः कण्वः सोमतीर्थं गतः।

३१. आर्यपुत्रः क उच्यते?
उत्तरम्—संस्कृतनाटके पत्नी तस्याः पतिम् आर्यपुत्रः इतिरूपेण सम्बोधयति।

३२. कस्मिन् राजवंशे दुष्यन्तः अजायत? कुत्रासीत् तस्य राजधानी?
उत्तरम्—पुरुवंशे दुष्यन्तः अजायत। हस्तिनापुरं तस्य राजधानी आसीत्।

३३. कुत्रासीत् महर्षेः कण्वस्य आश्रमः?
उत्तरम्—मालिनीनदीतीरे महर्षेः कण्वस्य आश्रमः आसीत्।

३४. क उच्यते कञ्चुकी?
उत्तरम्—राजान्तःपुरस्य अध्यक्षः कञ्चुकी इत्युच्यते। स जात्या ब्राह्मणः, नानागुणान्वितः, सर्वकार्यकुशलश्च इति।

३५. अभिज्ञानशकुन्तलम् इति नाटकस्य कस्मिन् अंशे हंसपदिकायाः गीतमस्ति?
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटकस्य पञ्चमाङ्कस्य प्रथमांशे हंसपदिकायाः गीतमस्ति।

३६. अभिज्ञानशकुन्तलम् इति नाटकस्य कस्मिन् अंशे शकुन्तलायाः प्रत्याख्यानं सङ्घटितम्?
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटकस्य पञ्चमाङ्कस्य शेषांशे शकुन्तलायाः प्रत्याख्यानं सङ्घटितम्।

३७. शकुन्तला कथम् अभिशप्ता?
उत्तरम्— शकुन्तला पतिगतचिन्तायां मग्ना आसीत्। तस्मात् कारणात् सा कण्वाश्रमम् अतिथिरूपेण आगतस्य महर्षेः दुर्वाससः घोषिताम् आगनमवार्ताम् न श्रुतवती। एतेन महर्षिः आत्मानम् अपमानितं मन्यमानः शकुन्तलां शापं दत्तवान्।

३८. अभिज्ञानशकुन्तलम् इति नाटकस्य पञ्चमाङ्कस्य नाम किम्?
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटकस्य पञ्चमाङ्कस्य नाम शकुन्तला-प्रत्याख्यानम् इति।

३९. किमासीत् दुष्यन्तस्य पुरोहितस्य नाम?
उत्तरम्-- दुष्यन्तस्य पुरोहितस्य नाम आसीत् सोमरातः इति।

४०. शकुन्तलया नवमल्लिका केन नाम्ना अभिहिता?
उत्तरम्-- शकुन्तलया नवमल्लिका वनज्योत्स्ना इति नाम्ना अभिहिता। नाटकस्य प्रथमाङ्के अस्याः विवरणम् अस्ति।

४१. अभिज्ञानशकुन्तलम् इति नाटकस्य कुत्र कुत्र विदूषकः दृश्यते?
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटकस्य द्वितीयाङ्के  पञ्चमाङ्के च विदूषकः दृश्यते।


४२. शकुन्तलया पालितस्य मृगशिशोः नाम किमासीत्? कस्मिन् अंशे तस्य उल्लेखः अस्ति?
उत्तरम्-- शकुन्तलया पालितस्य मृगशिशोः नाम आसीत् दीर्घापाङ्गः। नाटकस्य चतुर्थाङ्के तस्य उल्लेखः अस्ति।

४३. शकुन्तलायाः प्रत्याख्यानं कस्मिन् अङ्के सङ्घटितम्?
उत्तरम्-- शकुन्तलायाः प्रत्याख्यानं पञ्चमाङ्के सङ्घटितम्।

४४. अभिज्ञानशकुन्तलम् इति नाटकस्य मुख्यो रसः कः?
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटकस्य मुख्यो रसः शृङ्गारः इति।

४५. किमासीत् शकुन्तलायाः मातुर्नाम? तया कस्य तपः भग्नम्?
उत्तरम्—शकुन्तलायाः मातुर्नाम आसीत् मेनका। सा स्वर्गलोकस्य अप्सराः आसीत्। तया महर्षेः विश्वमित्रस्य तपः भग्नम्।

४६. नाटकस्य प्रारम्भिक-श्लोकस्य अन्तिम-श्लोकस्य च नाम किम्?
उत्तरम्-- नाटकस्य प्रारम्भिक-श्लोकं नान्दी इत्युच्यते, तथा अन्तिम-श्लोकं भरतवाक्यम् इत्युच्यते।

४७. शकुन्तलायाः पतिगृहं गमनकाले महर्षेः कण्वस्य अवस्था कीदृशी आसीत्?
उत्तरम्-- शकुन्तलायाः पतिगृहं गमनकाले महर्षेः कण्वस्य हृदयम् उकण्ठिकम्, अश्रुवेग-संवरणात् कण्ठः स्तम्भितः, चिन्ताशक्तिः च गृही पिता इव जडताग्रस्ता जाता।

४८. शकुन्तलायाः पतिगृहं गमनात् परं कण्वस्य प्रतिक्रिया कीदृशी आसीत्?
उत्तरम्-- शकुन्तलायाः पतिगृहं गमनात् परं महर्षिः कण्वः परमां शान्तिं लब्धवान्। तदा तस्य अन्तरात्मा प्रत्यर्पितन्यास इव अत्यन्तं चिन्तानिर्मुक्तः जातः।

४९. शकुन्तलां  सज्जीकरणाय वनस्पतिभिः कानि द्रव्याणि दत्तानि?
उत्तरम्-- शकुन्तलां  सज्जीकरणाय वनस्पतिभिः परिधेयं क्षौमयुगलम्, अलङ्करणाय रत्नालङ्कारजातं, चरण-रञ्जनाय अलक्तकरसः इति द्रव्याणि दत्तानि।

५०. हंसपदिकायाः गीतं श्रुत्वा दुष्यन्तः किं मन्यते स्म?
उत्तरम्-- हंसपदिकायाः गीतं श्रुत्वा दुष्यन्तः मन्यते स्म यत् हंसपदिकया सह तस्य सकृदेव प्रणयः सञ्जातः। तद् उल्लिख्य हंसपदिका तं निपुणं तिरस्करोति स्य।

५१. अभिज्ञानशकुन्तलम् इति नाटकस्य नान्दीश्लोकानुसारम् आद्या सृष्टिः का?
उत्तरम्-- अभिज्ञानशकुन्तलम् इति नाटकस्य नान्दीश्लोकानुसारम् आद्या सृष्टिः जलम् इति।

५२. कः विधिहुतं वहति?
उत्तरम्—शिवस्य अग्निरूपा तनुः विधिहुतं वहति।

५३. कौ कालं विधत्तः?
उत्तरम्—सूर्यः चन्द्रमाश्च कालं विधत्तः।

५४. श्रुतिविषयगुणा का?
उत्तरम्—शिवस्य आकाशरूपा तनुः श्रुतिविषयगुणा। आकाशः शब्दैकगुणः। उच्यते—शब्दगुणकमाकाशम् इति।

५५. का सर्ववीजप्रकृतिः / सर्वभूतप्रकृतिः?
उत्तरम्—शिवस्य पृथिवीरूपा तनुः सर्ववीजप्रकृतिः / सर्वभूतप्रकृतिः इति।

५६. केन प्राणिनः प्राणवन्तः जायन्ते?
उत्तरम्—वायुना प्राणिनः प्राणवन्तः जायन्ते। वायुः शिवस्य अन्यतमा तनुः।

५७. सन्धिविच्छेदं कुरुत—प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः।
उत्तरम्—प्रपन्नः + तनुभिः + अवतु , वः + ताभिः + अष्टाभिः + ईशः।
प्रपन्नः तनुभिः अवतु वः ताभिः अष्टाभिः ईशः।

५८. ‘अभिरूपभूयिष्ठा परिषदियम्।
--अस्याः पङ्क्तेः ग्रन्थस्थानं निर्णेयम्। अत्र वक्ता कः?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रस्तावनांशे समुपलभ्यते इयं पङ्क्तिः।
अत्र वक्ता नाट्यपरिचालकः सूत्रधारः। रङ्गप्रेक्षकाणां गुणवर्णनाप्रसङ्गेन तेनेदम् उक्तम्।

५९. वलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः।
---अस्य श्लोकांशस्य ग्रन्थस्थानं किम्? केन कं प्रति इदमुक्तम्?
उत्तरम्— महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रस्तावनांशे समुपलभ्यते अयं श्लोकांशः।
अत्र वक्ता नाट्यपरिचालकः सूत्रधारः तस्य पत्नीं नटीं प्रति इदमुक्तवान्।

६०. दिवसाः परिणामरमणीया।
---अस्य वाक्यस्य ग्रन्थस्थानं किम्? केन कं प्रति इदमुक्तम्? केन प्रसङ्गेन इदमुक्तम्?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रस्तावनांशे समुपलभ्यते इदं वाक्यम्।
अत्र वक्ता नाट्यपरिचालकः सूत्रधारः तस्य पत्नीं नटीं प्रति इदमुक्तवान्।
ग्रीष्मकालस्य वर्णनाप्रसङ्गेन अपराह्णवेलायाः वैशिष्ट्यविषये इदमुक्तम्।

६१. तवास्मि गीतरागेण हारिणा प्रसभं हृतः।
---अस्य वाक्यस्य ग्रन्थस्थानं किम्? केन कं प्रति कथम् इदमुक्तम्?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रस्तावनांशे समुपलभ्यते अयं श्लोकांशः।
अत्र वक्ता नाट्यपरिचालकः सूत्रधारः तस्य पत्नीं नटीं प्रति इदमुक्तवान्।
नटी-परिवेशितं गीतं श्रुत्वा सूत्रधारः आप्लुतः सन् इदमुक्तवान्।

६२. मृगानुसारिणं साक्षात् पश्यामीव पिनाकिनम्।
--अस्य वाक्यस्य ग्रन्थस्थानं किम्? अत्र वक्ता कः? क उच्यते पिनाकी?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते अयं श्लोकांशः।
अत्र वक्ता राज्ञः दुष्यन्तस्य सारथिः।
शिवः पिनाकी इत्युच्यते। पिनाक-नामक-धनुः-धारणात् शिवस्य पिनाकी इति नामान्तरम्।

६३. अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः।
--अस्य वाक्यस्य ग्रन्थस्थानं किम्? अत्र वक्ता कः? के हरितः, के च हरीन् इत्युच्यन्ते?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते इदं वाक्यम्।
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः।
अत्र हरितः इति सूर्यस्य अश्वाः, तथा हरीन् इत्यनेन इन्द्रस्य अश्वाः बोध्यन्ते।

६४. राजन्! आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः
---अस्य वाक्यस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् इदं वाक्यम् उद्धृतम्? अत्र वक्ता कः? कं प्रति इदमुक्तम्?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते इदं वाक्यम्।
अत्र वक्ता कण्वाश्रमस्य जनैकः वैखानसः।
वैखानसः दुष्यन्तं प्रति इदमुक्तवान्। मृगयार्थमागतः राजा दुष्यन्तः आश्रममृगं हन्तुमुद्यतः अभवत्। तदा तत्र  उपस्थितः जनैकः वैखानसः तन्निवारणाय इदमुक्तवान्।

६५. न खलु न खलु वाणः सन्निपात्योऽयमस्मिन्
मृदुनि मृगशरीरे—।
---अस्य श्लोकांशस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् अयं श्लोकांशः उद्धृतः? अत्र वक्ता कः? कं प्रति इदमुक्तम्?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते अयं श्लोकांशः
अत्र वक्ता कण्वाश्रमस्य जनैकः वैखानसः।
वैखानसः दुष्यन्तं प्रति इदमुक्तवान्। मृगयार्थमागतः राजा दुष्यन्तः आश्रममृगं हन्तुमुद्यतः अभवत्। तदा तत्र  उपस्थितः जनैकः वैखानसः तं मृगहनने निषेधं कृत्वा इदमुक्तवान्।

६६. आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि
---अस्य श्लोकांशस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् अयं श्लोकांशः उद्धृतः? अत्र वक्ता कः? कं प्रति इदमुक्तम्?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते अयं श्लोकांशः
अत्र वक्ता कण्वाश्रमस्य जनैकः वैखानसः।
वैखानसस्य कथानुसारं दुष्यन्तेन वाणसंयमने कृते सति स दुष्यन्तं प्रति इदमुक्तवान्।

६७. पुत्रमेवं गुणोपेतं चक्रवर्तिनमवाप्नुहि
---अस्य श्लोकांशस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् अयं श्लोकांशः उद्धृतः? अत्र वक्ता कः? कं प्रति इदमुक्तम्?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते अयं श्लोकांशः
अत्र वक्ता कण्वाश्रमस्य जनैकः वैखानसः।
वैखानसस्य कथानुसारं दुष्यन्तेन वाणसंयमने कृते सति स दुष्यन्तं चक्रवर्ति-लक्षणयुक्त-पुत्रलाभाय इदमुक्तवान्।

६८. अहो मधुरमासां दर्शनम्
---अस्य वाक्यस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् इदं वाक्यम् उद्धृतम्? अत्र वक्ता कः? कस्मिन् प्रसङ्गे इदमुक्तम्?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते अयं श्लोकांशः
अत्र वक्ता हस्तिपुरस्य राजा दुष्यन्तः।
वृक्षान्तरालात् अनसूया-प्रियंवदाभ्यां सह शकुन्तलां दृष्ट्वा मुग्धः दुष्यन्तः तासां रूप-वर्णनाप्रसङ्गेन इदमुक्तवान्।

६९. अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र
---अस्य श्लोकांशस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् अयं श्लोकांशः उद्धृतः? अत्र वक्ता कः? तेन कथम् इदमुक्तम्?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते अयं श्लोकांशः
अत्र वक्ता हस्तनापुरस्य राजा दुष्यन्तः।
कण्वाश्रमं प्रवेशकाले दुष्यन्तस्य दक्षिणः बाहुः स्फुरति स्म। बाहुस्पन्दने वरस्त्रीलाभः स्यात् इति लौकिकः विश्वासः। आश्रमः शमगुणप्रधानोऽपि तत्र संसारधर्मोपयोगी स्त्रीलाभः अवश्यमेव सम्भाव्यते। यतः यत् खलु भवितव्यं तस्य लाभस्य उपायः सर्वत्रैव विद्यते—इति दुष्यन्तस्य आशयः।

७०. दूरीकृता खलु उद्यानलता वनलताभिः
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् अयं सन्दर्भः उद्धृतः? अत्र वक्ता कः? अत्र वनलताः काः? उद्यानलता च काः?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः।
अत्र वनलताः इत्यनेन शकुन्तला, अनसूया, प्रियंवदा च बोधिताः। उद्यानलताः इत्यनेन अन्तःपुरचारिण्यः रमण्यः बोधिताः।

७१. असाधुदर्शी खलु तत्रभवान् काश्यपः
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् अयं सन्दर्भः उद्धृतः? अत्र वक्ता कः?
काश्यपः कः? काश्यपः कथम् असाधुदर्शी?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः।
कश्यप-मुनेः गोत्रसम्भूतत्वात् महर्षिः कण्वः काश्यपः इत्युच्यते।
शकुन्तला कोमलशरीरा। आश्रमधर्मपालनरूपं कठोरं कर्तव्यपालनं त्वया दुष्करं, तथापि महर्षिः कण्वः तां तस्मिन्नेव कर्मणि नियुक्तवान्। अतः हेतोः महर्षिः कण्वः असाधुदर्शी इति दुष्यन्तस्य अभिमतम्।

७२. किमिव हि मधुराणां मण्डनं नाकृतीनाम्
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् अयं सन्दर्भः उद्धृतः? अत्र वक्ता कः?
कमुद्दिश्य इदमुक्तम्?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः।
वल्कल-परिहितां शकुन्तलामुद्दिश्य दुष्यन्तेन इदमुक्तम्।

७३. सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् अयं सन्दर्भः उद्धृतः? अत्र वक्ता कः?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः।

७४. न प्रभातरलं ज्योतिरुदेति वसुधातलात्
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् अयं सन्दर्भः उद्धृतः? अत्र वक्ता कः?
कस्याः विषये इदमुक्तम्?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः।
शकुन्तला-विषये इदमुक्तम्। शकुन्तला अप्सरसः मेनकायाः गर्भजाता। स्वर्गस्य सौन्दर्यं तस्यां मूर्तत्वात् सा एवम् अपरूपा सञ्जाता, अन्यथा एतत् न सम्भाव्यते।

७५. आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम्
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् अयं सन्दर्भः उद्धृतः? अत्र वक्ता कः?
कदा तेन इदमुक्तम्?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः।
गुणवते पात्राय शकुन्तला सम्प्रदीयेत—इति महर्षेः कण्वस्य प्रथमः सङ्कल्पः आसीत्। प्रियंवदा-सकाशात् एतत् श्रुत्वा दुष्यन्तः एवमाह।

७६. गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् अयं सन्दर्भः उद्धृतः? अत्र वक्ता कः?
कथं तेन इदमुक्तम्?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः।
हस्तिवृत्तान्तेन पर्याकुला शकुन्तला अनसूया-प्रियंवदाभ्यां सह प्रस्थिता। शकुन्तलायाम् आसक्तः दुष्यन्तः ताम् अधिकं द्रष्टुं कामयते स्म। अतः तस्य शरीरं पुरः धावमानः अपि तस्य चञ्चलं मनः शकुन्तलां द्रष्टुं केतोः चीनांशकमिव पश्चाद् धावति।

७७. गिरिचर इव नागः प्राणसारं विभर्त्ति
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् अयं सन्दर्भः उद्धृतः? कस्येयमुक्तिः? /वक्ता कः? अस्य प्रसङ्गं लिखत।
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य द्वितीयाङ्के समुपलभ्यते अयं सन्दर्भः
राज्ञः दुष्यन्तस्य सेनापतेः इयमुक्तिः / अत्र वक्ता राज्ञः दुष्यन्तस्य सेनापतिः।
मृगयायाः गुणवर्णना-प्रसङ्गेन सेनापतिना इदमुक्तम्।

७८. शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्?/ कस्मात् स्थानात् अयं सन्दर्भः उद्धृतः? कस्येयमुक्तिः? /वक्ता कः? अस्य प्रसङ्गं लिखत।
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य द्वितीयाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः। स तस्य सेनापतिम् इदमुक्तवान्।
ऋषयः शमप्रधानाः अपि तेषु यत् गूढं दाहात्मकं तेजः अस्ति, तस्य वर्णनाप्रसङ्गेन दुष्यन्तः इदमुक्तवान्।

७९. सर्वं कान्तमात्मीयं पश्यति
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? कस्येयमुक्तिः? अस्य प्रसङ्गं लिखत।
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य द्वितीयाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः। स विदूषकम् इदमुक्तवान्।
शकुन्तलायाः सौन्दर्यस्य प्रशंसां कर्तुकामः दुष्यन्तः विदूषकमाह—भवता दर्शनीयं न दृष्टम्। तदा विदूषकः आह—ननु भवान् अग्रतो मे वर्तते। ततः दुष्यन्तः इदमाह—सर्वं कान्तमिति।



८०. स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? कस्येयमुक्तिः? अस्य प्रसङ्गं लिखत।
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य द्वितीयाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः। स शकुन्तलाविषये विदूषकम् इदमुक्तवान्।
शकुन्तलायाः रूपलावण्येन विस्मयविमुग्धः राजा दुष्यन्तः शकुन्तला-विषये आत्मनः अनुभूति-प्रकाश-प्रसङ्गेन इदमाह।

८१. कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? कस्येयमुक्तिः? अत्र कृत्यद्वयं किम्?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य द्वितीयाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः। स विदूषकम् इदमुक्तवान्।
यज्ञविघ्नोपशान्तये ऋषिभ्यः प्रदत्तं प्रतिश्रुतिपालनम्, तथा मातुः ब्रतानुष्ठाने स्थातव्यम् इति कृत्यद्वमत्र अभिहितम्।

८२. परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? कस्येयमुक्तिः?अस्य प्रसङ्गं लिखत।
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य द्वितीयाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः। स विदूषकम् इदमुक्तवान्।
विदूषकः लघुचित्तः। स यदि अन्तःपुरं समागम्य महिषीभ्यः शकुन्तलया सह तस्य प्रणयव्यापारं प्रकाशयेत् तर्हि अनर्थः भवेत्। अतः दुष्यन्तः विदूषकस्य विश्वासोत्पादनार्थम् आह—शकुन्तलाविषये तेन यदुक्तं तत्तु परिहासमात्रं, तत्र काचिदपि सत्यता नास्ति।

८३. ‘सखे! परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? कस्येयमुक्तिः? अस्य प्रसङ्गं लिखत।
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य द्वितीयाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः। स विदूषकम् इदमुक्तवान्।
शकुन्तला तापसकन्यका इति मत्वा विदूषकः दुष्यन्तं शकुन्तलाव्यापारात् निवर्तयितुं चेष्टते स्म। तदा आत्मप्रत्ययपूर्वकं दुष्यन्त आह—यद् वस्तु परिहार्यं तत्र पौरवाणां मनः न प्रवर्तते।

८४. परवती खलु तत्रभवती। न च सन्निहितोऽत्र गुरुजनः
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? कस्येयमुक्तिः? का खलु अत्र परवती, कश्च गुरुजनः?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य द्वितीयाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः स विदूषकम् इदमुक्तवान्।
शकुन्तला परवती, यतः सा अधुना पितुरधीना।  गुरुजनः अत्र महर्षिः कण्वः।

८५. परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? कस्येयमुक्तिः? अत्र के तावद् द्वे प्रतिष्ठे?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य तृतीयाङ्के समुपलभ्यते अयं सन्दर्भः
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः । सः अनसूयाम् इदमुक्तवान्।
दुष्यन्तस्य नवपरिणीता स्त्री शकुन्तला, तथा उत्तराधिकारसूत्रेण प्राप्तं तस्य राज्यम्  इति द्वे प्रतिष्ठे दुष्यन्तस्य कुलस्य।

८६. चक्रवाकवधूके ! आमन्त्रयस्व सहचरम्। उपस्थिता रजनी
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? कया इदमुक्तम्? अत्र चक्रवाकवधूः सहचरश्च इति शब्दद्वयेन कौ बोद्धव्यौ ?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य तृतीयाङ्के समुपलभ्यते अयं सन्दर्भः
अनसूया-प्रियंवदयोः मध्ये अन्यतमा नेपथ्यतः लताकुञ्जे दुष्यन्तेन सह आलापरतां शकुन्तलामुद्दिश्य इमुक्तवती।
अत्र चक्रवाकवधूः इत्यनेन शकुन्तला निर्दिष्टा, तथा सहचरः इत्यनेन दुष्यन्तः निर्दिष्टः।
रजनी इत्यनेन कण्वाश्रमस्य वृद्धा तापसी गौतमी निर्दिष्टा।

८७. न हि तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति
---अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? कया इदमुक्तम्? अत्र किमविषयकम् आलोचनं कृतम्?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य चतुर्थाङ्कस्य विष्कम्भके समुपलभ्यते अयं सन्दर्भः
शकुन्तलायाः अन्यतमा सखी प्रियंवदा अनसूयाम् इदमुक्तवती।
अत्र दुष्यन्तविषये आलोचनं कृतम्। शकुन्तया सह विवाहात् परं दुष्यन्तः हस्तिनापुरं प्रत्यागतः। स तत्र गत्वा आश्रमवृत्तान्तं स्मरिष्यति वा न वेति अनसूयायाः दुश्चिन्ता-दूरीकरणाय प्रियंवदा इदमुक्तवती।

८८. प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति
--अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? कया इदमुक्तम्? अत्र प्रकृतिवक्रः इत्यनेन कः अभिहितः?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य चतुर्थाङ्कस्य विष्कम्भके समुपलभ्यते अयं सन्दर्भः
शकुन्तलायाः अन्यतमा सखी प्रियंवदा अनसूयाम् इदमुक्तवती।
प्रकृतिवक्रः इत्यनेन सुलभकोपः महर्षिः दुर्वासाः अभिहितः।

८९. रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी
--अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? कया इदमुक्तम्? अत्र का प्रकृतिपेलवा प्रियसखी?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य चतुर्थाङ्कस्य विष्कम्भके समुपलभ्यते अयं सन्दर्भः
शकुन्तलायाः अन्यतमा सखी अनसूया प्रियंवदाम् इदमुक्तवती।
अत्र प्रकृतिपेलवा प्रियसखी खलु शकुन्तला।

९०. को नामोष्णोदकेन नवमालिकां सिञ्चति
--अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? कया इदमुक्तम्? अत्र नवमल्लिका इत्यनेन का निर्दिष्टा?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य चतुर्थाङ्कस्य विष्कम्भके समुपलभ्यते अयं सन्दर्भः
शकुन्तलायाः अन्यतमा सखी प्रियंवदा अनसूयाम् इदमुक्तवती।
अत्र नवमल्लिका इत्यनेन शकुन्तला निर्दिष्टा।


९१. आश्रमपदं परित्यजन्त्या दुःखदुःखेन मे चरणौ पुरः प्रवर्तेते
--अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? कया इदमुक्तम्? अस्य प्रसङ्गं लिखत।
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य चतुर्थाङ्के समुपलभ्यते अयं सन्दर्भः
शकुन्तला प्रियंवदाम् इदमुक्तती।
कण्वाश्रमात् हस्तिनापुरं गमनकाले शकुन्तला आत्मनः विरहकातर-भाववर्णनाप्रसङ्गेन अदमुक्तवती।

९२. भगवन्! उदकान्तं स्निग्धजनोऽनुदम्तव्यः
--अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? केन इदमुक्तम्? भगवन् इत्यनेन अत्र कः अभिहितः?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य चतुर्थाङ्के समुपलभ्यते अयं सन्दर्भः
महर्षेः कण्वस्य अन्यतमः शिष्यः शार्ङ्गरवः कण्वम् इदमुक्तवान्।
अत्र भगवन् इत्यनेन महर्षिः कण्वः अभिहितः।

९३. अर्थो हि कन्या परकीय एव
--अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? केन इदमुक्तम्? अस्य प्रसङ्गं लिखत।
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य चतुर्थाङ्के समुपलभ्यते अयं सन्दर्भः
महर्षिः कण्वः इदमुक्तवान्।
महर्षिः कण्वः शकुन्तलां प्रेरयित्वा आत्मनः चिन्तामुक्तस्य हृदयस्य भाव-वर्णनाप्रसङ्गेन इदमुक्तवान्।

९४. सकृत्कृतप्रणयोऽयं जनः
--अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? केन इदमुक्तम्? अत्र कया सह कस्य सकृत् प्रणयः उल्लिखितः?  अत्र वक्तुः चरित्रस्य किं वैशिष्ट्यं प्रकटितम्?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य पञ्चमाङ्के समुपलभ्यते अयं सन्दर्भः
हस्तिनापुरस्य राजा दुष्यन्तः विदूषकम् इदमुक्तवान्।
अत्र हंसपदिकया सह दुष्यन्तस्य सकृत् प्रणयः उल्लिखितः।
अत्र राज्ञः चरित्रस्य मधुकरवृत्तेः वैशिष्ट्यं प्रकटितम्।

९५. भावस्थिराणि जननान्तरसौहृदानि
--अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? केन इदमुक्तम्? अस्य प्रसङ्गं लिखत।
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य पञ्चमाङ्के समुपलभ्यते अयं सन्दर्भः
हस्तिनापुरस्य राजा दुष्यन्तः इदमुक्तवान्।
हंसपदिकायाः गीतं श्रुत्वा इष्टजनविरहादृतेऽपि दुष्यन्तः पर्याकुलः जातः। दुष्यन्तः तस्य कारण-व्याख्याप्रसङ्गेन उक्तवान्—जन्मजन्मान्तरस्य संस्कारवशादेव स विरहगीतं श्रुत्वा एवं पर्याकुलः जातः।

९६. जनाकीर्णं मन्ये हुतबहपरीतं गृहमिव
--अस्य सन्दर्भस्य ग्रन्थस्थानं किम्? केन इदमुक्तम्? अस्य प्रसङ्गं लिखत।
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य पञ्चमाङ्के समुपलभ्यते अयं सन्दर्भः
अस्य वाक्यस्य वक्ता कण्वशिष्यः शार्ङ्गरवः। स शारद्वतम् इदमुक्तवान्।
निर्जनारण्य-परिवेशात् आगत्य जनाकीर्णं राजप्रासादं प्रविश्य शार्ङ्गरवः तस्य अनुभूति-प्रकाश-प्रसङ्गेन इदमुक्तवान्।

९७. त्वमर्हतां प्राग्रहरः स्मृतोऽसि नः
--अस्य सन्दर्भस्य ग्रन्थस्थानं किम्?  कस्य कं प्रति इयं वार्ता?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य पञ्चमाङ्के समुपलभ्यते अयं सन्दर्भः
महर्षिः कण्वः शार्ङ्गरव-माध्यमेन दुष्यन्तं प्रति इयं वार्ता प्रेरिता।

९८. अनिर्वर्णनीयं परकलत्रम्
--अस्य सन्दर्भस्य ग्रन्थस्थानं किम्?  अत्र वक्ता कः? अस्य प्रसङ्गं लिखत।
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य पञ्चमाङ्के समुपलभ्यते अयं सन्दर्भः
अस्य सन्दर्भस्य वक्ता राजा दुष्यन्तः।
दुष्यन्तः शार्ङ्गरव-शारद्वत-गौतमीनां मध्ये अवगुण्ठनवतीं शकुन्तलां दृष्ट्वा तस्याः अनिन्द्यसुन्दरं रूपं वर्णयित्वा ततः परकलत्रस्य रूपवर्णनम् असमीचीनमिति इति मन्यमानः इदमुक्तवान्।

९९.  किं चात्रभवती मया परिणीतपूर्वा
--अस्य वाक्यस्य ग्रन्थस्थानं किम्?  अत्र वक्ता कः? अत्रभवती इत्यनेन अत्र का अभिहिता? अस्य प्रसङ्गं लिखत।
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य पञ्चमाङ्के समुपलभ्यते इदं वाक्यम्।
अस्य वाक्यस्य वक्ता राजा दुष्यन्तः।
अत्रभवती इत्यनेन अत्र शकुन्तला अभिहिता।
दुष्यन्तः शार्ङ्गरव-मुखात् शकुन्तला तेन परिणीतपूर्वा इति श्रुत्वा विस्मितः अभवत्। दुर्वाससः शापप्रभावात् तेन सर्वं विस्मृतम्। अतः तस्य अयं विस्मयप्रकाशः।

१००. पतिकुले तव दास्यमपि वरम्
--अस्य वाक्यस्य ग्रन्थस्थानं किम्?  अत्र वक्ता कः? कामुद्दिश्य इदमुक्तम्?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य पञ्चमाङ्के समुपलभ्यते इदं वाक्यम्।
कण्वशिष्यः शार्ङ्गरवः दुष्यन्तेन शकुन्तला-प्रत्याख्यानात् परं शकुन्तलामुद्दिश्य इदमुक्तवान्।

१०१. सा निन्दन्ती स्वानि भाग्यानि वाला
--अस्य वाक्यस्य ग्रन्थस्थानं किम्?  अत्र वक्ता कः? अत्र का खलु वाला? सा कथं स्वानि भाग्यानि निन्दन्ती आसीत्? 
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य पञ्चमाङ्के समुपलभ्यते इदं वाक्यम्।
अत्र वक्ता राज्ञः दुष्यन्तस्य पुरोहितः सोमरातः।
अत्र वाला दुष्यन्तेन प्रत्याख्याता शकुन्तला।
शकुन्तला दुष्यन्तेन प्रत्याख्याता सती आत्मग्लानिवशात् बाहूत्क्षिप्य स्वानि भाग्यानि निन्दन्ती आसीत्।

१०१. स्वप्नो नु माया नु मतिभ्रमो नु
--अस्य वाक्यस्य ग्रन्थस्थानं किम्?  अत्र वक्ता कः? अस्य प्रसङ्गं लिखत।
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य षष्ठाङ्के समुपलभ्यते इदं वाक्यम्। (ग्रन्थस्थानम्-- कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य षष्ठाङ्कः।)
वक्ता-- अत्र वक्ता अनुशोचनाग्रस्तः राजा दुष्यन्तः।
प्रसङ्गः—शकुन्तलायाः प्रत्याख्यानजनितेन कारणेन अनुशोचना-कातरं दुष्यन्तं सान्त्वयित्वा विदूषकः आह—शकुन्तलया सह तस्य अवश्यमेव पुनर्मिलनं भवेत्। ततः दुष्यन्तः आह—शकुन्तलया सह तस्य यत् पूर्वमिलनं तत् किं स्वप्नः आसीत्, अथवा माया, अथवा मतिभ्रमः, अथवा पूर्वजन्मनः पुण्यफलम्? क्षीणपुण्यवशात् तेन शकुन्तला प्रत्याख्याता।

१०२. महतस्तेजसो वीजं वालोऽयं प्रतिभाति मे
--अस्य वाक्यस्य ग्रन्थस्थानं किम्?  अत्र वक्ता कः? अत्रः वालकः कः? अस्य प्रसङ्गं लिखत।
उत्तरम्—अस्य वाक्यस्य ग्रन्थस्थानं महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य सप्तमाङ्कः।
अत्र वक्ता राजा दुष्यन्तः।
अत्र वालकः दुष्यन्त-शकुन्तलयोः पुत्रः सर्वदमनः।
महर्षेः मारीचस्य आश्रमे सिंहशिशुना सह क्रीडारतस्य सर्वदमनस्य मध्ये क्षत्रियोचितं तेजः दृष्ट्वा दुष्यन्तः एवमाह।


१०३. वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः
--अस्य वाक्यस्य ग्रन्थस्थानं किम्?  अत्र वक्ता कः?  कस्येयं वर्णना ?
उत्तरम्—अस्य वाक्यस्य ग्रन्थस्थानं महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य सप्तमाङ्कः।
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः।
वसने परिधूसरे’-- इत्यादिना अत्र विरहविधुरायाः तपःक्लिष्टायाः शकुन्तलायाः वर्णना कृता।

१०४. भगवन्! अत्र खलु मे वंशप्रतिष्ठा
--अस्य वाक्यस्य ग्रन्थस्थानं किम्?  अत्र वक्ता कः?  अस्य प्रसङ्गं लिखत।
उत्तरम्—अस्य वाक्यस्य ग्रन्थस्थानं महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य सप्तमाङ्कः।
अत्र वक्ता हस्तिनापुरस्य राजा दुष्यन्तः। स महर्षिं मारीचम् इदमुक्तवान्।
ऋषिभिः यथाविधि कृतजातकर्मादिसंस्कारः  पुत्रः सर्वदमनः दुष्यन्तेन अभिनन्दितः न वेति मारीचेन पृष्टः सन् स एवमाह— अयं पुत्रः तस्य वंशस्य प्रतिष्ठास्वरूपम् इति।

१०५. श्रद्धा वित्तं विधिश्चेति त्रितयं तत् समागतम्
--अस्य वाक्यस्य ग्रन्थस्थानं किम्?  अत्र वक्ता कः?  अत्र श्रद्धा वित्तं विधिश्च इत्येतैः के  तावद् अभिहिताः?
उत्तरम्—अस्य वाक्यस्य ग्रन्थस्थानं महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य सप्तमाङ्कः।
अत्र वक्ता महर्षिः मारीचः।
अत्र श्रद्धा वित्तं विधिश्च इत्येतैः शकुन्तला (श्रद्धा), तस्याः पुत्रः सर्वदमनः (वित्तम्), तथा राजा दुष्यन्तः (विधिः) अभिहिताः।

१०६. प्रवर्ततां प्रकृतिहिताय पार्थिवः
--अस्य वाक्यस्य ग्रन्थस्थानं किम्?  अत्र वक्ता कः? 
उत्तरम्— अस्य वाक्यस्य ग्रन्थस्थानं महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य सप्तमाङ्कः। भरतवाक्यमिदम्।
अस्य श्लोकांशस्य वक्ता राजा दुष्यन्तः।

१०७. क आसीत् मातलिः?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य षष्ठाङ्के मातलेः उल्लेखः अस्ति। स देवराजस्य इन्द्रस्य सारथिः आसीत्।

१०८. धनमित्रः कः आसीत्?
उत्तरम्-- महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य षष्ठाङ्के धनमित्रस्य उल्लेखः अस्ति। स कश्चित् श्रेष्ठी (वणिक्) आसीत्। स केनचित् नौव्यसने अम्रियत।

१०९. क आसीत् ययातिः?
उत्तरम्— ययातिः राज्ञः नहूषस्य पुत्रः आसीत् इति पौराणिकवृत्तान्तम्। स शुक्राचार्यस्य कन्यां देवयानीं परिणीतवान्। ततः देवयान्याः परिचारिकां शर्मिष्ठां परिणीतवान्।
११०. क आसीत् त्रिशङ्कुः?
उत्तरम्—सूर्यवंशस्य अन्यतमः विख्यातः राजा आसीत् त्रिशङ्कुः इति पौराणिकी वार्ता। स अयोध्यायाः राजा आसीत्। राजा हरिश्चन्द्रः तस्य पुत्रः आसीत्।

१११. अभिज्ञानशकुन्तलम् इति नाटकस्य कुत्र कुत्र विष्कम्भकः अस्ति?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य तृतीय-चतुर्थाङ्कयोः आदौ (प्रारम्भे) विष्कम्भकः अस्ति।

११२. अभिज्ञानशकुन्तलम् इति नाटकस्य कुत्र प्रवेशकः अस्ति?
उत्तरम्—महाकवेः कालिदासस्य अभिज्ञानशकुन्तलम् इति नाटकस्य षष्ठाङ्कस्य प्रारम्भे, अर्थात् पञ्चमाङ्क-षष्ठाङ्कयोः मध्ये प्रवेशकः अस्ति।

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—