ads

ad

C-8, Unit-II, Short Questions


C-8, Unit-II,  Short Questions (Scientific and Technical Literature (Mathematics, Chemistry, Medical Science, Astronomy, Vāstuśāstra, Dance and Music)

संक्षिप्तम्  प्रश्नोत्तरम्—
१. संस्कृत-वैज्ञानिक-साहित्यस्य मुख्यशाखानां नामानि लिखत।
उत्तरम्-- संस्कृत-वैज्ञानिक-साहित्यस्य मुख्याः शाखाः यथा—
(क) आयुर्वेदः, (ख) ज्योतिर्विद्या, (ग) गणितविद्या, (घ) किमियाविद्या, (ङ) धातुविद्या,
(च) सुरापातनविद्या, (छ) रत्नविद्या, (ज) प्राणिविद्या, (झ) पक्षिविज्ञानम्, (ञ) कृषिविद्या उद्भिद्विद्या च।

२. भारतीय-ज्योतिर्विद्यायाः मुख्यविभागानां  नाम लिखत।
उत्तरम्-- भारतीय-ज्योतिर्विद्यायाः द्वौ मुख्यौ विभागौ—गणितम्, फलित-ज्योतिषं चेति।

३. भारतीय-ज्योतिर्विद्यायाः मुख्यानाम् आचार्याणां तथा तेषां ग्रन्थानां नामानि लिखत।
उत्तरम्-- भारतीय-ज्योतिर्विद्यायाः मुख्याः आचार्याः--   आर्यभटः (आर्यभट्टः), वराहमिहिरः, ब्रह्मगुप्तः, भास्कराचार्यः प्रमुखाः। आर्यभट-रचितः ग्रन्थः आर्यभटीयम्, आर्यसिद्धान्तः वा, वराहमिहिर-रचिता पञ्चसिद्धान्तिका, ब्रह्मगुप्त-रचितः ब्रह्मस्फुटसिद्धान्तः, भास्कराचार्य-रचितं ग्रन्थद्वयम्--  सिद्धान्तशिरोमणिः, करणकुतूहलम् च।
अन्ये च ग्रन्थाः--  भोज-रचितः राजमृगाङ्कः, शतानन्द-रचिता भास्वती, मकरन्द-रचितं तिथ्यादिपत्रम्, गणेश-रचितं ग्रहलाघवम्, सिद्धान्तरहस्यम् वा, कमलाकरस्य  सिद्धान्ततत्त्वविवेकः, प्रथमभास्करस्य महाभास्करीयम्, द्वितीयभास्करस्य लघुभास्करीयम्, मञ्जुलस्य लघुमानसम् इत्यादयः।

४. भारतीय-ज्योतिषस्य द्वयोः ग्रन्थयोः, तथा तयोः लेखकयोः नाम लिखत।
उत्तरम्-- भारतीय-ज्योतिषस्य ग्रन्थद्वयं यथा--  वराहमिहिरस्य बृहत्संहिता, पृथुयशा-रचिता होराशत्पञ्चाशिका इति।
अन्ये ग्रन्थाः--  वराहमिहिरस्य बृहत्विवाहपटलम्, पल्लवविवाहपटलम्, बृहज्जातकम्, लघुजातकम्, वशिष्ठ-रचिता वृद्धवशिष्ठसंहिता, हर्षकीर्ति-रचितः ज्योतिषसारोद्धारः, कालिदासस्य ज्योतिर्विदाभरणम्,  भृगु-रचिता भृगुसंहिता, वल्लालसेन-लक्ष्मणसेनयोः अद्भुतसागरः इत्यादयः।

५. पञ्चसिद्धान्तिका-ग्रन्थे के तावद् ग्रन्थाः अन्तर्भुक्ताः?
उत्तरम्—वराहमिहिरस्य पञ्चसिद्धान्तिका-ग्रन्थे बृहत्संहिता, बृहद्विवाहपटलम्, पल्लवविवाहपटलम्, बृहज्जातकम्, लघुजातकम् चेति ग्रन्थाः अन्तर्भुक्ताः।
अस्मिन् ग्रन्थे तत्काले प्रचलिताः पञ्च सिद्धान्ताः आलोचिताः यथा—सूर्यसिद्धान्तः, रोमकसिद्धान्तः, पौलिशसिद्धान्तः, पैतामहतन्त्रम्, वशिष्ठसिद्धान्तः चेति।

. किमुच्यते गणितशास्त्रम्? तु
उत्तरम्--  संख्यागणनया अङ्कगणनया वा यस्याः पद्धतेः प्रयोगः क्रियते तद् गणितम् इति।

७. गणितस्य मुख्यं विभागद्वयं किम्?
उत्तरम्-- गणितस्य मुख्यं विभागद्वयं—संख्यागणितम् (पाटीगणितम्, वीजगणितम्) आकृतिगणितम् (ज्यामितिः) च।

८. प्राचीनभारतीय-गणितसास्त्रस्य कस्यचिद् ग्रन्थस्य तथा तस्य लेखकस्य नाम लिखत।
उत्तरम्-- प्राचीनभारतीय-गणितसास्त्रस्य विख्यातः ग्रन्थः सिद्धान्तशिरोमणिः। अस्य रचयिता भास्कराचार्यः।
अन्ये ग्रन्थाः--  आर्यभटस्य आर्यभटीयम्, ब्रह्मगुप्तस्य ब्रह्मस्फुटसिद्धान्तः, महावीराचार्यस्य  गणितसारसंग्रहः, श्रीधराचार्यस्य त्रिशती, श्रीनिवासस्य  गणितचूडामणिः, वृद्धर्षि-रचिता गणितावली, नारायण-पण्डित-रचिता गणितकौमुदी इत्यादयः।

९. किमुच्यते वास्तुशास्त्रम्?
उत्तरम्--  गृह-अट्टालिका-प्रासाद-सेतु-दुर्गादि-निर्माणविषयकं शास्त्रम् वास्तुशास्त्रम् इत्युच्यते।

१०. कः आसीत् आर्याणां मुख्यः स्थपतिः ? तस्य ग्रन्थस्य नाम लिख्यताम्।
उत्तरम्-- आर्याणां मुख्यः स्थपतिः आसीत् विश्वकर्मा। तद्रचितः ग्रन्थः विश्वकर्मावास्तुशास्त्रम् इति।

११. . कः आसीत् अनार्याणां मुख्यः स्थपतिः ? तस्य ग्रन्थस्य नाम लिख्यताम्।
उत्तरम्-- अनार्याणां मुख्यः स्थपतिः आसीत् मयदानवः।  तद्रचितः ग्रन्थः मयमतस् इति।

१२.  वास्तुशास्त्रस्य  अन्येषां कतिपय-ग्रन्थानां नामानि लिखत।
उत्तरम्—वास्तुशास्त्रस्य अन्ये प्रचलिताः ग्रन्थाः यथा--  भोजराजस्य समराङ्गनसूत्रधारः, टि. गणपतिशास्त्रीमहोदयेन आविष्कृतः ग्रन्थः मानसारः, शिल्परत्नम्, मनुष्यालयचन्द्रिका, ईश्वरचन्द्र-शास्त्रीमहोदयेन प्रकाशितः युक्तिकल्पतरुः, रघुनन्दन भट्टाचार्यस्य वास्तुयोगतत्त्वम्, चालुक्य-सोमेश्वरस्य मानसोल्लासः, श्रीनाथस्य वास्तुमञ्जरी, काश्यपस्य काश्यपसंहिता, काश्यपशिल्पशास्त्रम् च, मण्डनस्य प्रासादमण्डनम्, नारदस्य नारदशिल्पशास्त्रम् इत्यादयः।

१३. प्राटीनभारतीय-रसायनशास्त्रस्य उल्लेखयोग्य-ग्रन्थानां नामानि लिखत।
उत्तरम्—वौद्धदार्शनिक-नागार्जुनस्य रसरत्नाकरः, शार्ङ्गधर-रचिता शार्ङ्गधरसंहिता, शैवसम्प्रदायस्य तन्त्रग्रन्थः देवीशास्त्रम्, वाग्भट-रचितम् अष्टाङ्गहृदयम्, भगवद्-गोविन्दपाद-रचितं रसहृदयम्, सोमदेव-रचितः रसेन्द्रचूडामणिः, यशोधर-रचितः रसप्रकाशसुधाकरः, गोविन्दाचार्यस्य रससारः, विष्णुदेवस्य रसराजलक्ष्मीः, माधव-रचिता रसकौमुदी इत्यादयः।

१४. आयुर्वेदस्य अष्टानाम् अङ्गानां नामानि लिखत।
उत्तरम्--  आयुर्वेदस्य अष्ट अङ्गानि यथा--  शल्यतन्त्रम्, शालाक्यतन्त्रम्, कायचिकित्सा, भूतविद्या, कौमारभृत्यः, अगदतन्त्रम्, रसायनम्, वाजीकरणम् चेति।

१५. भारतीयायुर्वेदस्य प्राचीनाचार्याणां तथा तेषां ग्रन्थानां नामानि लिखत।
उत्तरम्-- भारतीयायुर्वेदस्य  उल्लेखयोग्याः आचार्याः धन्वन्तरिः, दिवोदासः, नकुलः, काशीराजः प्रमुखाः।
धन्वन्तरि-रचितं चिकित्सातत्त्वविज्ञानम्, दिवोदास-रचितं चिकित्सादर्शनम्, नकुल-प्रणीतं वैद्यकसर्वस्वम्, काशीराज-रचिता चिकित्साकौमुदी।

१६. क आसीत् चरकः?
उत्तरम्--  भारतीयायुर्वेदस्य विख्यातः आचार्यः चरकः। स चरकसंहिता इति ग्रन्थस्य संकलयिता। अयं ग्रन्थः कायचिकित्साविषयकः।

१७. क आसीत् सुश्रुतः?
उत्तरम्--  भारतीयायुर्वेदस्य अन्यतमः विख्यातः आचार्यः सुश्रुतः। स सुश्रुतसंहिता इति ग्रन्थस्य संकलयिता। सुश्रुतसंहिता धन्वन्तरि-सम्प्रदाय-प्रवर्तितायाः शल्यचिकितसायाः श्रेष्ठः ग्रन्थः।

१८. चरकसंहितायाः भागानां नामानि लिखत।
उत्तरम्—चरकसंहितायाः अष्ट भागाः सन्ति। यथा--  सूत्रस्थानम्, निदानस्थानम्, विमानस्थानम्, शारीरस्थानम्, इन्द्रियस्थानम्, चिकित्सास्थानम्, कल्पस्थानम्, सिद्धिस्थानम् चेति।

१९. सुश्रुतसंहितायाः भागानां नामानि लिखत।
उत्तरम्—सुश्रुतसंहितायाः षट् भागाः सन्ति। यथा--  सूत्रस्थानम्, निदानस्थानम्, शारीरस्थानम्, चिकित्सास्थानम्, कल्पस्थानम्, उत्तरतन्त्रम् चेति।

२०. क आसीत् भास्कराचार्यः?
उत्तरम्—प्राचीनभारतीयः अन्यतमः विख्यातः ज्योतिर्विद् गणिताचार्यश्च आसीत् भास्कराचार्यः।

२१. भास्कराचार्यस्य ग्रन्थस्य नाम किम्? तत्र कति अध्यायाः सन्ति? तेषां नामानि लिखत।
उत्तरम्—भास्कराचार्य-रचितः ग्रन्थः सिद्धान्तशिरोमणिः। तत्र चत्वारः अध्यायाः सन्ति। यथा--  लीलावती, वीजगणितम्, ग्रहगणिताध्यायः, गोलाध्यायः चेति।

२२. का आसीत् लीलावती?
उत्तरम्—भास्कराचार्यस्य अपूर्वसुन्दरी विदुषी कन्या आसीत् लीलावती। भास्कराचार्यः तस्य सिद्धान्तशिरोमणि-ग्रन्थस्य प्रथमाध्यायस्य नामकरणं कन्यायाः नामानुसारेण कृतवान्।

२३. मयमतम् किंजातीयकः ग्रन्थः। अस्य रचयिता कः?
उत्तरम्-- मयमतम् वास्तुशास्त्रस्य ग्रन्थः। अस्य रचयिता मयदानवः।

२५. क आसीत् ब्रह्मगुप्तः? तस्य ग्रन्थस्य नाम लिख्यताम्।
उत्तरम्—प्राचीनभारतस्य विख्यातः ज्योतिर्विद् तथा गणितविद् आसीत् ब्रह्मगुप्तः। तस्य ग्रन्थस्य नाम ब्रह्मस्फुटसिद्धान्तः।

२६. सङ्गीतशास्त्रस्य अपरं नाम किम्?
उत्तरम्--  सङ्गीतशास्त्रस्य अपरं नाम गान्धर्वविद्या इति।

२७. भारतीय-सङ्गीतस्य उत्सः कः?
उत्तरम्-- भारतीय-सङ्गीतस्य उत्सः सामवेदस्य सामगानम् इति।

२८. वैदिकोत्तर-साहित्ये उल्लिखितानां   मुख्यानां प्राचीन-सङ्गीतार्याणां  नामानि लिखत।
उत्तरम्--  वैदिकोत्तर-साहित्ये उल्लिखिताः  मुख्याः प्राचीन-सङ्गीतार्याः यथा—सदाशिवः,  ब्रह्मा, भरतः, काश्यपः, मातङ्गः, कोहलः, याष्टिकः, दत्तिलः, तुम्बुरुः, नारदः, नन्दिकेश्वरः प्रमुखाः।

२९. भरत-रचितस्य सङ्गीतशास्त्रविषयक-ग्रन्थस्य नाम लिख्यताम्।
उत्तरम्-- भरत-रचितः सङ्गीतशास्त्रविषयकः ग्रन्थः गान्धर्ववेदः इति। अयं ग्रन्थः अधुना दुष्प्राप्यः।

३०. दत्तिलकृत-कृत-ग्रन्थस्य नाम लिख्यताम्?
उत्तरम्--  दत्तिलकृत-कृतः सङ्गीतशास्त्रविषयकः ग्रन्थः दत्तिलम् इति।

३१. मतङ्गमुनि-रचितस्य ग्रन्थस्य नाम किम्?
उत्तरम्-- मतङ्गमुनि-रचितः सङ्गीतशास्त्रविषयकः ग्रन्थः बृहद्देशी इति।

३२. नारदकृत-ग्रन्थस्य नाम किम्?
उत्तरम्—नारदकृतः सङ्गीतशास्त्रविषयकः ग्रन्थः सङ्गीतमकरन्दम्, सङ्गीतसुदर्शनम् चेति।

३३. सङ्गीतरत्नाकरः इति ग्रन्थस्य रचयिता कः?
उत्तरम्--  शार्ङ्गदेवः सङ्गीतरत्नाकरः इति ग्रन्थस्य रचयिता।
सङ्गीतशास्त्रस्य अन्ये ग्रन्थाः—
सोमभूपाल-रचिता सङ्गीतरत्नावली, अहोल-रचितं सङ्गीतपारिजातम्, भोज-रुचिपति-रङ्गनाथ-रचितः पृथक् पृथक् ग्रन्थः सङ्गीतकल्पतरुः, दामोदर-रचितं सङ्गीतदर्पणः, जयन-रचिता सङ्गीतरत्नावली इत्यादयः।

३४. प्राचीनभारतस्य कतिपय-नृत्याचार्याणां नामानि लिखत।
उत्तरम्--  प्राचीनभारतस्य  उल्लेखयोग्याः नृत्याचार्याः यथा--  कामदेवः, वासुकिः, धेनुकः, द्रोहिणिः, स्वाती, काश्यपः, शिविः, नारदः, शार्दूलः प्रमुखाः।

३५. प्राचीनभारतीय-नृत्यस्य आदिगुरुः कः?
उत्तरम्--  मार्कण्डेय-पुराणानुसारेण  प्राचीनभारतीय-नृत्यस्य आदिगुरुः मार्कण्डेयः।

३६. भारतीय-नृत्यस्य कतिपय-ग्रन्थानां नामानि लिखत।
उत्तरम्--  भारतीय-नृत्यस्य उल्लेखयोग्याः ग्रन्थाः यथा--  नन्दिकेश्वर-रचितः भरतार्णवः, अभिनयदर्पणः, कोहलस्य तालाध्यायः, अशोकमल्ल-रचितः नृत्याध्यायः, राणाकुम्भ-रचितः नृत्यरत्नकोषः, जयसेन-रचिता नृत्यरत्नावली, सोमल-रचितः नाट्यचूडामणिः, गोपेन्द्र-तिप्पभूपालस्य तालदीपिका, अच्युतरायस्य तालकवोधः, शुभङ्करस्य हस्तमुक्तावली, सङ्गीतदामोदरः, पुण्डरीक-विठ्ठल-रचितः नर्तननिर्णयः, तुलाराज-रचितः नाट्यवेदागमः इत्यादयः।
------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—