ads

ad

SEC-2, Short Questions (Self-Management in Gita), 4th Semester, CBPBU


SEC-2, Short Questions (Self-Management in Gita), 4th Semester, CBPBU

१.  इन्द्रियेभ्यः परं किम् अस्ति?
उत्तरम्-- इन्द्रियेभ्यः परं मनः अस्ति।

२. मनसः परं किम् अस्ति।
उत्तरम्-- मनसः परम् बुद्धिः अस्ति।

३. बुद्धेः परतः किम् अस्ति?
उत्तरम्-- बुद्धेः परतः आत्मा अस्ति।

४. कः खलु आत्मा?
उत्तरम्-- -- बुद्धेः परतः यः अस्ति स एव आत्मा।

५. कामरूपः शत्रुः कथं विनाश्यते?
उत्तरम्—आत्मना आत्मानं संस्तभ्य कामरूपः शत्रुः विनास्यते।

६. कस्य कः सनातनः अंशः?
उत्तरम्—भगवतः श्रीकृष्णस्य सनातनः अंशः जीवः।

७. जीवलोके कः कम् आकर्षति?
उत्तरम्-- भगवतः श्रीकृष्णस्य सनातनः अंशः जीवः मनःषष्ठानि इन्द्रियाणि जीवलोके आकर्षति।

. कानि तावत् मनःषष्ठानि इन्द्रियाणि?
उत्तरम्—श्रोत्रं, चक्षुः, स्पर्शनं, रसनं, घ्राणं  (चक्षुः, कर्णः, नासिका, जिह्वा, त्वक् ) चेति पञ्च इन्द्रियाणि, तथा मनः इति समवायेन मनःषष्ठानि इन्द्रियाणि।

९. कः कथं विषयान् उपसेवते?
उत्तरम्—जीवात्मा हि चक्षुः, कर्णः, नासिका, जिह्वा, त्वक्, मनश्च अधिष्ठाय शब्दादीन् विषयान् उपसेवते।

१०. ʻइतीयं मे भिन्ना प्रकृतिरष्ठधाʼ
 -- कं प्रति कस्येयमुक्तिः?  के तावद् भगवतः प्रकृतेः अष्ट भागाः?
उत्तरम्—श्रीमद्भगवद्गीतायाम् अर्जुनं प्रति श्रीकृष्णस्य उक्तिरियम्। भगवतः प्रकृतेः अष्ट भागाः यथा--  क्षितिः, अप्, तेजः, मरुत्, व्योम, मनः, बुद्धिः, अहङ्कारश्चेति।

११. किं तावद् सविकारक्षेत्रम्?
उत्तरम्--  पञ्च महाभूतानि, अहङ्कारः, बुद्धिः, मूलप्रकृतिः, पञ्च कर्मेन्द्रियाणि, पञ्च ज्ञानेन्द्रियाणि,  रूप-रसादि पञ्च तन्मात्रम्, इच्छा, द्वेषः, सुखं, दुःखं,देहेन्द्रियाणां संघातः (समष्टिः), चेतना, धृतिः चेति समुदायेन  सविकारक्षेत्रम् उच्यते।

१२.  के  तावत् प्रकृतिजाताः त्रयः गुणाः?
उत्तरम्— सत्त्वं, रजः, तमश्चेति प्रकृतिजाताः त्रयः गुणाः।

१३. के तावत् देहे आत्मानं निबध्नन्ति?
उत्तरम्--  सत्त्वं, रजः, तमश्चेति प्रकृतिजाताः त्रयः गुणाः देहे आत्मानं निबध्नन्ति।

१४. सत्त्वं (सत्त्वगुणः) किंस्वरूपम्? तत् कथम् आत्मानं बध्नाति?
उत्तरम्--  सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयं च। तत् सुखसङ्गेन ज्ञानसङ्गेन च आत्मानं बध्नाति।

१५. रजः (रजोगुणः) किंस्वरूपम्? तत् कथम् आत्मानं बध्नाति?
उत्तरम्-- रजो रागात्मकं तृष्णासङ्गसमुद्भूतं च। तत् कर्मसङ्गेन आत्मानं बध्नाति।

१६.तमः (तमोगुणः) किंस्वरूपम्? तत् कथम् आत्मानं निबध्नाति?
उत्तरम्—तमः अज्ञानजं तथा सर्वेषां जीवानां मोहजनकम्। तत् प्रमादेन, आलस्येन, निद्रया च आत्मानं निबध्नाति।

१७. सत्त्वगुणात् किम् उत्पद्यते?
उत्तरम्-- सत्त्वगुणात् ज्ञानम् उत्पद्यते।

१८. रजोगुणात् किम् उत्पद्यते?
उत्तरम्—रजोगुणात् लोभः उत्पद्यते।

१९. तमोगुणात् किम् उत्पद्यते?
उत्तरम्—तमोगुणात् अज्ञानं, प्रमादः, मोहश्चेति उत्पद्यन्ते।

२०.  का उच्यते व्यवसायात्मिका बुद्धिः?
उत्तरम्-- ʻनिष्कामभावेन कर्म कृत्वा अहं मुक्तिं प्राप्स्यामिʼ इत्येवं निश्चयात्मिका बुद्धिरेव व्यवसायात्मिका बुद्धिः उच्यते।

२१. निष्काम-कर्मयोगे व्यवसायात्मिका बुद्धिः (निश्चयात्मिका बुद्धिः) कीदृशी भवेत्?
उत्तरम्-- निष्काम-कर्मयोगे व्यवसायात्मिका बुद्धिः (निश्चयात्मिका बुद्धिः) एकनिष्ठा भवति। सा अन्याः दिशः न धावति।

२२. अव्यवसायिनां (सकाम-कर्मकारिणां जनानां) बुद्धिः कीदृशी भवति।
उत्तरम्-- अव्यवसायिनां (सकाम-कर्मकारिणां जनानां) बुद्धयः बहुशाखाविशिष्टाः अनन्ताश्च भवन्ति।

२३. इन्द्रियाणि किंस्वरूपाणि? तानि किं कुर्वन्ति?
उत्तरम्—इन्द्रियाणि प्रमाथीनि, अर्थात् चित्तविक्षेपकारीणि। तानि संयमिनः विवेकिनः पुरुषस्यापि चित्तं बलपूर्वकं हरन्ति, विषयासक्तं कुर्वन्ति वा।

२४. केन नियोजितः पुरुषः पापं चरति?
उत्तरम्—कामेन क्रोधेन च अनिच्छन्  अपि बलात् नियोजितः पुरुषः पापं चरति।

२५. केन ज्ञानम् आवृतम्?
उत्तरम्—ज्ञानिनः नित्यवैरिणा  दुष्पूरणेन कामरूपेण अग्निना ज्ञानम् आवृतम्।

२६. किं खलु नरकस्य द्वारस्वरूपम्?
उत्तरम्—कामः क्रोधः लोभश्चेति त्रिविधं नरकस्य द्वारस्वरूपम्।

२७. आत्मनः विनाशस्य कारणं किम्?
उत्तरम्--  कामः क्रोधः लोभश्च एतत्त्रयम् आत्मनः विनाशस्य कारणम्।

२८. कामः क्रोधः लोभश्च एतत्त्रयं कथं त्यजेत्?
उत्तरम्-- कामः क्रोधः लोभश्चेति त्रिविधं नरकस्य द्वारस्वरूपम्, तथा आत्मनः विनाशकारणम्। अतः आत्मनः रक्षार्थम् एतत्त्रयं त्यजेत्।

२९. मनः किंस्वरूपम्?
उत्तरम्—मनः हि चञ्चलम्, इन्द्रियाणां विक्षेपजनकम्, बलवद् अनमनीयम्, तस्य संयमनं च सुदुष्करम्।

३०. मनः कथं वशीक्रियते?
उत्तरम्—मनः चञ्चलं, दुर्निग्रहमपि अभ्यासेन वैराग्येन च तत् वशीक्रियते।

३१. कथं नियतं कर्म कर्तव्यम्?
उत्तरम्—अकर्मणः कर्म ज्यायः, कर्महीनस्य जनस्य शरीरयात्रापि न प्रसिध्येत्। तस्मात् प्रतिनियतं कर्म कर्तव्यम्।

३२. कथं योगः अभ्यस्यते?
उत्तरम्—शुचौ देशे यथानिर्दिष्टम् आसनं प्रतिष्ठाप्य तत्र उपविश्य चित्तस्य इन्द्रियाणां च क्रिया संयम्य मनः च एकाग्रं कृत्वा आत्मविशुद्धये योगः अभ्यस्यते।
३३. कस्य जनस्य योगः न भवति?
उत्तरम्—अतिभोजनकारिणः, एकान्तम् अनाहारिणः, अतिस्वप्नशीलस्य, अतिजागरणशीलस्य च जनस्य योगः न भवति।

३४. कीदृशस्य जनस्य योगः दुःखहा भवति?
उत्तरम्—यः जनः परिमितरूपेण आहारं, विहारं, कर्मचेष्टां च करोति, तथा परिमितरूपेण न निद्राति जागर्ति च तस्य एव जनस्य योगः दुःखहा भवति।

३५. किंप्रकारकं खाद्यं सात्त्विकानां प्रियम्?
उत्तरम्— यत् खाद्यम् आयुः, उत्साहं, बलम्, आरोग्यं, चित्तप्रसन्नतां, रुचिं च वर्धयति, तथा सरसम्, स्नेहयुक्तम्, सारवत्, प्रीतिकरं च तदेव खाद्यं सात्त्विकानां प्रियम्।

३६. के तावद् आहाराः सात्त्विकानां प्रियाः?
उत्तरम्—ये खलु आहाराः आयुः-सत्त्व-बल-आरोग्य-सुखप्रीति-वर्धकाः, तथा रस्याः स्निग्धाः स्थिराः हृद्याः च ते एव आहाराः सात्त्विकानां प्रियाः।

३७. किंप्रकारकं खाद्यं ग्रहीतव्यम्?
उत्तरम्-- यत् खाद्यम् आयुः-सत्त्व-बल-आरोग्य-सुखप्रीति-वर्धकम्, तथा सरसम्, स्नेहयुक्तम्, सारवत्, प्रीतिकरं च तदेव खाद्यं ग्रहीतव्यम्।

३८. राजसानां किंप्रकारकं खाद्यं प्रियम्?
उत्तरम्— अतिकटु, अत्यम्लम्, अतिलवणाक्तम्,  अत्युष्णम्, अतितीक्ष्णम्, अतिरुक्षम्, प्रदाहजनकम्, दुःख-शोक-रोगोत्पादकं च खाद्यं राजसानां प्रियम्।

३९. तामसानां किंप्रकारकं भोजनं प्रियम्?
उत्तरम्— बहुपूर्वं पक्वं, शीतलताप्राप्तं, शुष्करसं, दुर्गन्धयुक्तं, पर्युसितम् उच्छिष्टं च भोजनं तामसानां प्रियम्।

४०. किंप्रकारकं भोजनं वर्जनीयम्?
उत्तरम्-- अतिकटु, अत्यम्लम्, अतिलवणाक्तम्,  अत्युष्णम्, अतितीक्ष्णम्, अतिरुक्षम्, प्रदाहजनकम्, दुःख-शोक-रोगोत्पादकं, बहुपूर्वं पक्वं, शीतलताप्राप्तं, शुष्करसं, दुर्गन्धयुक्तं, पर्युसितम् उच्छिष्टं च भोजनं च वर्जनीयम्।

४१. किमुच्यते शारीरिकं तपः?
उत्तरम्—देव-द्विज-गुरु-प्राज्ञ-पूजनं, शौचम्, सरलता, ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते।

४२. किमुच्यते वाचिकं (वाङ्मयं) तपः?
उत्तरम्—अनुद्वेगकरं, सत्यं, प्रियं, हितकरं च वाक्यं, तथा यथाविधि शास्त्राभ्यासं च वाचिकं (वाङ्मयं) तपः
उच्यते।।

४३. किमुच्यते मानसं तपः?
उत्तरम्—मनःप्रसादं, अक्रूरत्वं, मौनभावः, आत्मसंयमः (मनःसंयमः वा), चित्तशुद्धिः (व्यवहारे अकपटता वा) इत्येतत् मानसं तपः उच्यते।

४४. किमुच्यते सात्त्विकं तपः?
उत्तरम्—फलाकाङ्क्षाशून्यैः एकाग्रचित्तैः (ईश्वरे भक्तियुक्तैः) नरैः परया श्रद्धया अनुष्ठितं कायिकं, वाचिकं मानसिकं च  एतत्त्रयं तपः सात्त्विकम् उच्यते।

४५. किमुच्यते राजसं तपः?
उत्तरम्—सत्कार-मान-पूजार्थं दम्भेन चैव यत् तपः क्रियते, यत् च तपः इहलोके अनित्यम् अनिश्चितं तत् राजसं तपः उच्यते।

४६. किमुच्यते तामसं तपः?
उत्तरम्—मूढबुद्धिवशेन आत्मनः पीडया परस्य विनाशाय वा यत् तपः क्रियते तत् तामसम् उच्यते।

४७. कीदृशेन जनेन योगः दुष्प्राप्यः, केन च प्राप्यः?
उत्तरम्—अभ्यासवैराग्याभ्यां यस्य चित्तं न संयतं तेन योगः दुष्प्राप्यः, परन्तु विहितेन उपायेन यत्ने कृते यस्य चित्तं वशीभूतं जायते तेनैव योगः लभ्यः इति।

४८. इहलोके केन सदृशं पवित्रतमं किमपि नास्ति?
उत्तरम्-- इहलोके आत्मज्ञानेन सदृशं पवित्रतमं किमपि नास्ति।

४९. कः केन प्रकारेण आत्मज्ञानं लभते?
उत्तरम्—योगसंसिद्धः, श्रद्धावान्, तत्परः, संयतेन्द्रियः जनः एव आत्मज्ञानं लभते।

५०. कथं कर्मयोगः अवलम्ब्यते?
उत्तरम्—आत्मनः अज्ञानसम्भूतं हृत्स्थम् संशयं ज्ञानरूपेण असिना छित्त्वा कर्मयोगः अवलम्ब्यते।

५१. का उच्यते सात्त्विकी बुद्धिः?
उत्तरम्—यया बुद्ध्या जनः कर्मणि प्रवृत्तिं, तस्मात् निवृत्तिं च, किं कर्तव्यम् किं च अकर्तव्यम्,  कस्मात् भयं, कस्मात् अभयं च, कस्मात् बन्धं, कस्माच्च मोक्षम् इति यथायथभावेन जानाति सा बुद्धिः सात्त्विकी।।

५२. का उच्यते राजसी बुद्धिः?
उत्तरम्-- यया बुद्ध्या जनः धर्मम् अधर्मं च, कार्यम् अकार्यं च यथायथभावेन बोद्धुं न शक्नोति सा बुद्धिः राजसी।

५३. का उच्यते तामसी बुद्धिः?
उत्तरम्-- यया बुद्ध्या जनः अधर्मं धर्ममिति मन्यते, सर्वार्थान् विपरीतरूपेण जानाति, अज्ञानरूपेण तमसा आवृता सा  बुद्धिः तामसी।।

५४. कः खलु जनः आत्मप्रसादम् अधिगच्छति?
उत्तरम्— विधेयात्मा (संयतमनाः पुरुषः) रागद्वेषविमुक्तैः आत्मवश्यैः इन्द्रियैः विषयान् आत्मप्रसादम् अधिगच्छति।

५५. सर्वकर्मणां सिद्धये सांख्यसिद्धान्ते वर्णितानि कानि तावत् पञ्च कारणानि?
उत्तरम्-- सर्वकर्मणां सिद्धये सांख्यसिद्धान्ते पञ्च कारणानि वर्णितानि । तानि यथा-- अधिष्ठानं (स्थानम्), कर्ता, विविधं करणम् (साधनम्), विविधाः पृथक् पृथक् चेष्टाः (व्यापाराः), दैवं चेति। नरः शरीरवाङ्मनोभिः यत् न्याय्यं वा विपरीतं वा कर्म प्रारभते तस्य पञ्च एते हेतवः।।

५६. कस्य कथं कर्मबन्धनं न जायते?
उत्तरम्— तत्त्वदर्शी पुरुषः इन्द्रियैः विविधं कर्म कृत्वा अपि कर्तृत्वाभिमानशून्यः भवति। एवंभूतस्य तत्त्वदर्शिनः एव कर्मबन्धनं न जायते।

५७. क उच्यते योगः?
उत्तरम्—फलासक्तिं त्यक्त्वा, सिद्ध्यसिद्ध्योः समो भूत्वा कर्माणि कर्तव्यानि। इयं समत्वबुद्धिरेव  योग उच्यते।

५८. स्थितप्रज्ञः क उच्यते?
उत्तरम्—यः मनोगतान् सर्वान् कामान् त्यक्त्वा आत्मनि एव आत्मना तुष्टः स स्थितप्रज्ञः इत्युच्यते।

५९. विद्वांसः (ज्ञानिनः) कथं कर्म कुर्वन्ति?
उत्तरम्-- विद्वांसः (ज्ञानिनः) अनासक्तभावेन लोकरक्षार्थं लोकस्य हितसाधनार्तं वा कर्म कुर्वन्ति।

६०. गीता महाभारतस्य कस्मिन् पर्वणि अन्तर्भुक्ता? अस्य रचयिता कः?
उत्तरम्-- गीता महाभारतस्य भीष्मपर्वणि अन्तर्भुक्ता। अस्य रचयिता महर्षिः कृष्णद्वैपायनः वेदव्यासः।

६१. गीतायां कति अध्यायाः श्लोकाश्च सन्ति?
उत्तरम्—गीतायाम् अष्टादश अध्यायाः सप्त शतं श्लोकाश्च सन्ति।

६३. केन कस्य समीपं गीतोपाख्यानं वर्णितम्?
उत्तरम्—व्यासदेवस्य वरप्रभावेन दिव्यदृष्टिं प्राप्य सञ्जयः कुरुक्षेत्रे युद्धार्थं समवेतानां  जनानां वाक्यादि
श्रुत्वा तेषां मनोभावं च परिज्ञाय धृतराष्ट्रसपीपं सर्वं वर्णितवान्। अयमेव गीतीयाः विषयः।


--------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—