ads

ad

C-9, Unit-I, Kautiliyam Arthasatram, Short notes


C-9, Unit-I, Kautiliyam Arthasatram, Short notes


१. आन्वीक्षिकी
आन्वीक्षिकी-विद्यायाः स्वरूपविषये कौटिल्येन उक्तम्-- ʻसांख्यं योगो लोकायतं चेत्यान्वीक्षिकी।ʼ
अर्थात् सांख्यशास्त्रम्, योगशास्त्रम्, लोकायतं च एतत्त्रयम् आन्वीक्षिकी इत्युच्यते। प्रत्यक्षेण अनुमानेन वा ज्ञातपदार्थस्य पुनः अन्वीक्षा विचारपूर्वकं दर्शनमेव आन्वीक्षिकी। अस्मिन् अर्थे युक्तिविद्या तर्कशास्त्रम् वा आन्वीक्षिकी इत्युच्यते।
आन्विक्षिकी-विद्यायाः उपयोगिता-विषये  कौटिल्येन उक्तम्-- ʻबलाबले चैतासां हेतुभिरन्वीक्षमाणा लोकस्योपकरोति, व्यसनेऽभ्युदये च बुद्धिमवस्थापयति, प्रज्ञा-वाक्य-क्रियावैशारद्यं च करोति।ʼ
अर्थात् आन्वीक्षिकी विद्या युक्तिद्वारा विचार्य अन्यासां तिसृणां विद्यानां प्राधान्यम् अप्राधान्यं च निर्धारयति, विपदि अभ्युदये च बुद्धिं स्थिरं रक्षति, मनुष्यान् प्रज्ञावन्तः, वाक्यप्रयोगे कर्मणि च दक्षतां प्रददाति। अत उच्यते—
ʻप्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्।
आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता।।ʼ

२. दण्डनीति—
दण्डनीतेः स्वरूपविषये कौटिल्येन उक्तम्--ʻआन्वीक्षिकी-त्रयी-वार्तानां योगक्षेमसाधनो दण्डः। तस्य नीतिर्दण्डनीतिः।ʼ
आन्वीक्षिकी-त्रयी-वार्तानां योगक्षेमं साधयति दण्डः, तस्य दण्डप्रयोगस्य नीतिरेव दण्डनीतिः इति।
दण्डनीतेः उपयोगिता-विषये  कौटिल्येन उक्तम्--ʻअलब्धलाभार्था, लब्धपरिरक्षणी, रक्षितविवर्धनी, वृद्धस्य तीर्थेषु प्रतिपादनी च। तस्यामायत्ता लोकयात्रा।ʼ
दण्डनीत्या अप्राप्तवस्तुनः प्राप्तिः, प्राप्तवस्तुनः रक्षणम्, रक्षितवस्तुनः वर्धनं, वर्धितवस्तुनः कार्ये प्रतिपादनम् च भवति। अस्यं दण्डनीत्यामेव लोकसमाजे प्रचलितानां नियमानां कार्यकारित्वं निर्भरशीलम् इति।
दण्डप्रयोग-विषये कौटिल्य आह-- ʻतीक्ष्णदण्डो हि भूतानामुद्वेजनीयः, मृदुदण्डः परिभूयते। यथार्हदण्डः पूज्यः।ʼ

३. पञ्चाङ्गमन्त्रः
राजतान्त्रिक-शासनव्यवस्थायां राजा सर्वमयः कर्तापि तेन एकाकिना शासनकार्य-परिचालनं न सम्भाव्यते। सर्वेषु कार्येषु सुनिर्दिष्टा परिकल्पनया तथा  सविशदं विचार-विमर्शेन प्रयोजनम्। अस्यार्थं राजा प्रयोजनीय-संख्यकान् मन्त्रिणः नियुज्य कार्यारम्भात् पूर्वं मन्त्रणां कुर्यात्। अतः उक्तं कौटिल्येन—ʻमन्त्रपूर्वाः सर्वारम्भाः।ʼ
मन्त्रस्य पञ्च अङ्गानि सन्ति। अस्मिन् विषये कौटिल्य आह-- ʻकर्मणामारम्भोपायः, पुरुषद्रव्यसम्पद्, देशकालविभागः, विनिपातप्रतीकारः कार्यसिद्धिरिति पञ्चाङ्गो मन्त्रः।ʼ
कर्मणामारम्भोपायःस्वराज्ये परिखा-प्राकारादि-समन्वित-दुर्गादिनिर्माण-विषयाकानां तथा शत्रुराज्ये सन्धिविग्रहादि-निमित्तं दूतप्रेरणादि-विषयानां कार्याणाम् आरम्भोपायः।
पुरुषद्रव्यसम्पद्स्वराज्ये दुर्ग-प्रासादादि-निर्माणकुशलाः पुरुषाः, परराज्ये सन्धिविग्रहादिविषये अनुष्ठानकुशलाः दूत-सेनापत्यादयः पुरुषाः, तथा रत्न-सुवर्णादीनि द्रव्यादीनि।
देशकालविभागःस्वराज्ये दुर्गादि-निर्माणविषये यथोपयुक्तं स्थानं, तथा सन्धि-विग्रहादि-सम्पादनार्थम् उपयुक्तं परराज्यं देशः इति। शस्याद्युत्पादनोपयोगी वर्षादयः ऋतवः, तथा युद्धयात्रापयोगी शरदादिः प्रशस्तः कालः। तयोः देशकालयोः प्राशस्त्याप्राशस्त्य-विषये विवेचनम्।
विनिपातप्रतीकारःकार्यमध्ये विध्ने उपस्थिते तस्य प्रतीकार-विषये चिन्तनम्।
कार्यसिद्धिः—कार्यसिद्धविषये विवेचनम्।

४. वार्ता-- 
वार्ता-विद्यायाः स्वरूप-विषये  कौटिल्य आह-- ʻकृषिपाशुपाल्ये वणिज्या च वार्ता।ʼ
कृषिकर्म, पशुपालनं वाणिज्यं च वार्ता इत्युच्यते। मनुष्याणां जीवनधारणोपयोगि अर्थनैतिकं कर्मजातमेव वार्ता।
वार्ताया उपयोगिता-विषये  कौटिल्येन उक्तम्-- ʻधान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रदानादौपकारिकी। तया स्वपक्षं परपक्षं च वशीकरोति कोशदण्डाभ्याम्।ʼ
वार्ताविद्या धान्यं, पशुं, सुवर्णं, ताम्रादि-पदार्थं, काष्ठवंशादि-वनजद्रव्यं, कर्मकुशल-श्रमिकादि प्रदाय समाजस्य उपकारं साधयति। अनया विद्यया राजा कोशदण्डाभ्यां स्वपक्षीय-जनान्, परपक्षीयान् च वशीकरोति।

५. मात्स्यन्याय
ʻमात्स्यन्यायःʼ इत्यस्य आक्षरिकार्थः--  मत्स्येषु प्रचलितः न्यायः नीतिः वा इति। जलाशये बृहत् मत्स्यः क्षुद्रान् मत्स्यान्  गिलन्ति, तत्र प्रतिवादकर्ता शसनकर्ता वा कोऽपि नास्ति। अयमेव जलाशयस्य नियमः। शतपथब्राह्मणस्य मनुमत्स्यकथायां प्रथमं मात्स्यन्याय-विषये उक्तम्--  ʻमत्स्य एव मत्स्यं गिलति।ʼ
राज्ञः शासकस्य वा मुख्यं कर्तव्यम्--  समुचित-दण्डप्रयोगेन  दुष्टानां दमनम्, तथा सुष्ठु न्यायनीति-प्रयोगेन शिष्टानां पालनम् इति। राजा शासकः वा यदि तत् कर्तुं न समर्थः भवेत्, अथवा देशे यदि कोऽपि शासकः न स्यात् तर्हि बलवतः जनाः दुर्बलान् उत्पीडयन्ति, निपीडयन्ति, तेषां सर्वस्वं ग्रसन्ति च। सर्वे स्वाधिकारात् वञ्चिताः भवन्ति। इयम् अराजकावस्था एव मात्स्यय्यायः इत्युच्यते। उक्तं च कौचिल्येन--  ʻअप्रणीतो हि मात्स्यन्यायमुद्भावयति। बलीयान् अबलं हि ग्रसते दण्डधराभावे। तेन गुप्तः प्रभवति इति।ʼ

६. कृत्याकृत्य
राज्यशासने सर्वविषये सुरक्षाविधानम् राज्ञः कर्तव्यम्। राज्ञा यथा स्वपक्षीयाः पुरुषाः रक्षितव्याः, तथा पररपक्षीयाः अपि स्वपक्षे आनयने प्रयत्नं कर्तव्याः। राज्ञः स्वराज्ये ये खलु जनाः केनापि कारणेन क्रुद्धाः, लुब्धाः, भीताः अपमानिताः वा, तस्मात् ते शत्रूणां कुमन्त्रणया भेद्याः भवितुम् अर्हन्ति ते जनाः कृत्याः इत्युच्यन्ते। ये खलु जनाः कथमपि शत्रुणा न भेद्याः ते अकृत्याः इति।
राजा विविधैः गूढपुरुषैः कृत्याकृत्य-विषये अवगतः भवेत्। विविधैः उपायैः क्रुद्धवर्गस्य, लुब्धवर्गस्य, भीतवर्गस्य, मानिवर्गस्य जनान् राजा स्वपक्षे आनयेत्। ये खलु जनाः राज्ञः शासने तुष्टाः तान् अर्थमानाभ्यां पूजयेत्। ये च अतुष्टाः तान् साम-दान-दण्ड-भेदैः उपायैः वशीभूतान् कुर्यात्। एवं विचक्षणः विजिगीषुः राजा  शत्रोः उपजापात् कृत्यान् अकृत्यान् च, क्षुद्रकान् प्रधानान् च पुरुषान् रक्षेत्।

७. भीतवर्गः
शत्रुराज्ये कृत्यपक्षीयेषु जनेषु भीतवर्गः अन्यतमः। कार्यसिद्धये अन्यस्य हत्यादिभिः नृशंसकर्मभिः यःजनः स्वयं दूषितः,  राजान्तःपुरे राज्ञः विरुद्धं कर्मकारी जनः, यस्य पापकर्म सर्वसमीपं प्रकाशितम्, समदोषयुक्तस्य जनस्य दण्डं दृष्ट्वा यः भयात् उद्विग्नः, बलपूर्वकं यः अन्यस्य भूमिम् अधिकृतवान्, राजदण्डेन राजसैनिकेन वा यः उत्पीडितः, सहसा यस्य धनं प्रभूतं वर्धितम्, स्वार्थसिद्धये यः राजकुलस्य जनम् आश्रितवान्, यः राज्ञः विद्वेषभाजनम्, यः च राजद्वेषी –इत्येवं प्रकाराः जनाः भीतवर्गान्तर्गताः।
भीतवर्गस्य जनानाम् उपजाप-विषये कौटिल्येन उक्तम्--  ʻʻयथा लीनः सर्पो यस्माद् भयं पश्यति तत्र विषम् उत्सृजति एवम् अयं राजा जातशङ्कः त्वयि पुरा क्रोधविषम् उत्सृजति, अन्यत्र गम्यताम्ʼ इति भीतवर्गमुपजापयेत्।ʼʼ

८. लोकायत
ʻलोकायतम्ʼ इत्यनेन चार्वाकदर्शनम् इत्युच्यते। कौटिल्येन लोकायतम् आन्वीक्षिकीविद्यायाः अन्नर्भुक्तं कृतम्। उक्तं च तेन-- ʻसांख्यं योगो लोकायतं चेत्यान्वीक्षिकी।ʼ
मनुष्याणां स्वाभाविकीं प्रवृत्तिम् प्रवणतां च अवलम्ब्य एव लोकायतदर्शनं समुद्भूतम्। अस्मिन् दर्शने इहजगत् जीवनं च मुख्यः विषयः। लोकायतदर्शनस्य मुख्यं वक्तव्यम्—
ʻयावज्जीवेच्छुखं जीवेद् ऋणं कृत्वा घृतं पिवेत्।
भस्मीभूतस्य देहस्य पुनरागनमं कुतः।।ʼ
साधारण-जनानां चिन्ता-चेतना भावधारा च अस्मिन् मतवादे प्रतिफलिता, अतः अस्य ʻलोकायतम्ʼ इत्यभिधानम्।
जीवने सुखसमृद्धिलाभाय अर्थोपाजनेन आवश्यकम्। अर्थलाभस्य, तथा तस्य वृद्धेः उपायः, कथं वा समाजस्य व्यक्तेः च उपकारः भवेत् –इति लौकिकजीवनस्य विषयकत्वात् लोकायतम् आन्वीक्षिक्याः अन्तर्भुक्तम् ।

९. सत्री
प्राचीनभारते राज्ञा नियुक्तः गुप्तचरविशेषः सत्री इति। सत्रिणः लक्षणविषये कौटिल्येन उक्तम्--  ʻये चास्य सम्बन्धिनः अवश्यभर्तव्याः ते लक्षणम् अङ्गविद्यां जृम्भकविद्यां मायागतम् आश्रमधर्मं निमित्तम् अन्तरचक्रम् इत्यधीयानः सत्रिणः संसर्गविद्या वा।ʼ
अर्थात् ये खलु गुप्तचराः राज्ञा सह सम्बन्धवशात् अवश्यपोष्याः, ते यदि सामुद्रिकादि लक्षणशास्त्रम्, अङ्गविद्याम्, वशीकरणविद्याम् अन्तर्धानविद्याम्, इन्द्रजालविद्याम् आश्रमधर्मम्, निमित्तशास्त्रम्, अन्तरचक्रविद्याम्, संयोगस्थापनकारि कामशास्त्रम्, तथा तत्सम्पर्कित-नृत्यगीतादि-कलाविद्याम् अधीयानाः ते सत्री इत्युच्यते।

१०. अरिषड्वर्ग
ʻअरिःʼ इत्यस्य अर्थः शत्रुः। षण्णाम् अरीणां समाहारः इति अरिषड्वर्गः। आचार्यस्य कौटिल्यस्य मतानुसारेण कामः, क्रोधः, लोभः, मानम्, मदः हर्षश्चेति षट् अरयः। एतानि षट् व्यसनानि इति मनोर्मतम्।
कामः—पार्थिव-भोग्यवस्तु-भोगस्य लालसा, विशेषतः परस्त्रीविषये आसक्तिः।
क्रोधः—चित्तविकारविशेषः यः ज्ञानिनमपि अन्धीकरोति, तथा मनसि विद्वेषभावं जनयति।
लोभः—परद्रव्यलाभाय प्रबला इच्छा।
मानः—स्वयं महान् इति आत्मविषये श्लाघा।
मदः—धनबल-जनबल-विद्यादिभ्यः जातः गर्वः अहङ्कारः वा।
हर्षः—अभीष्टवस्तुभोगात् जातः सुखानुभवः आनन्दं वा।
एते षट् अरयः मिलितभावेन मनुष्यान् न्याय्यात् पथः भ्रष्टान् कुर्वन्ति।
षण्णाम् अन्तःशत्रूणां त्यागेन एव इन्द्रियजयः कर्तव्यः-- ʻकाम-क्रोध-लोभ-मान-मद-हर्षत्यागात् कार्यः।ʼ

११.  अर्थशास्त्रम्
ʻअर्थशास्त्रम्ʼ इति शब्दस्य आक्षरिकार्थः—अर्थविषयकं शास्त्रम्। परन्तु आधुनिक-युगस्य अर्थनीतिविद्यातः इदं शास्त्रं भिन्नम्। संस्कृते अर्थशास्त्रम् व्यापकार्थे गृहीतम्। आचार्येण कौटिल्येन उक्तम्--  ʻमनुष्याणां वृत्तिरर्थः, मनुष्यवती भूमिरित्यर्थः। तस्याः पृथिव्याः लाभपालनोपायशास्त्रम् अर्थशास्त्रम् इति।ʼ अर्थात् सम्पद्, तथा सम्पदः अधिकारिणां मनुष्याणां धात्री या पृथिवी तस्याः पृथिव्याः ग्रहण-पालनोपायः यस्मिन् शास्त्रे उक्तं तदेव अर्थशास्त्रम् इति।
प्राचीन-भारतीयार्थशास्त्रेषु कौटिलीयम् अर्थशास्त्रम् सर्वोत्कृष्टम्। अस्मिन् ग्रन्थे पञ्चदश अधिकरणानि, तथा १५० अध्यायाः सन्ति।
कौटिल्यस्य अर्थशास्त्रस्य मुख्यः आलोच्य-विषयः—
राज्ञः विद्या-विनयशिक्षा, राज्ञः राज्यस्य च सुरक्षाविधानम्, शासनकार्ये विविधे विभागे नियुक्तानाम् अध्यक्षाणां कर्तव्यम्, व्यवहारविधिः, द्वादश राजमण्डलम्, तेषां पारस्परिकः सम्बन्धः, सन्धि-विग्रहादेः षड्गुणस्य प्रयोगः, सप्ताङ्गयुक्तस्य राज्यस्य विपत् सङ्कटं च, राज्ञः अभियानम्, दुर्बलतरस्य विजिगीषोः राज्ञः कर्तव्यम्, शत्रोः दुर्गसम्भोपायः, अर्थशास्त्रस्य व्याख्या, न्यायः इत्यादयः।

-------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—