ads

ad

1st sem, C-2, नीतिशतकम् (संक्षिप्तं प्रश्नोत्तरम्)


1st sem, C-2, नीतिशतकम् (संक्षिप्तं प्रश्नोत्तरम्)

१.  क आसीत् भर्तृहरिः? तेन कति काव्यं विरचितम्?                                                                            उत्तरम्—संस्कृतसाहित्यस्य विख्यातः शतककाव्य-रचयिता आसीत् भर्तृहरिः। तेन त्रयं शतक-काव्यं विरचितम्। यथा—नीतिशतकम्, शृङ्गारशतकम्, वैराग्यशतकम् चेति।
२. नीतिशतकम् किंजातीयं काव्यम्?
उत्तरम्— भर्तृहरि-रचितं नीतिशतकम् मुक्तक-जातीयं खण्डकाव्यम्।
३. किमुच्यते मुक्तक-काव्यम्?
उत्तरम्—यस्य काव्यस्य प्रत्येकः श्लोकः रसनिष्पत्तौ स्वयंसम्पूर्णः तत् मुक्तक-काव्यमुच्यते।
अग्निपुराणे उक्तम्-- ʻमुक्तकः श्लोक एवैकस्चमत्कारक्षमःʼ इति।
४. नीतिशतके कति पद्धतयः सन्ति? तासु द्वयोः नामनी लिखत।
उत्तरम्— नीतिशतके दश पद्धतयः सन्ति।
तासु द्वौ पद्धती यथा—मूर्खपद्धतिः, विद्वत्पद्धतिः चेति।
५. कस्य चित्तविनोदनम् कथमपि न सम्भवति?
उत्तरम्— मूर्खस्य चित्तविनोदनम् कथमपि न सम्भवति।
६. कः किं न गणयति?
उत्तरम्—क्षुद्रः जन्तुः परिग्रह-फल्गुतां न गणयति।
७. केषां शतमुखः विनिपातः भवति?
उत्तरम्— विवेकभ्रष्टानां शतमुखः विनिपातः भवति।
८. कस्य औषधं नास्ति?
उत्तरम्— मूर्खस्य मूर्खता-निवारणाय औषधं नास्ति।
९. क उच्यते पुच्छविषाणहीनः पशुः?
उत्तरम्— साहित्य-कलाविहीनः जनः पुच्छ-विषाणहीनः पशुः उच्यते।
१०. के तावत् मनुष्यवत् मृगाश्चचरन्ति?
उत्तरम्— येषां विद्या, तपः, दानम्, ज्ञानम्, शीलम्, गुणः, धर्मभावश्च नास्ति, ते पृथिव्याः भारभूताः मनुष्याः मर्त्यलोके मृगवत् विचरन्ति।
११. केन जनेन सह सम्पर्कः न प्रार्थनीयः?
उत्तरम्— मूर्खजनेन सह सम्पर्कः न प्रार्थनीयः।
१२.  किं तावद् धनं तस्करः न हर्तुमर्हति?
उत्तरम्— विद्यारूपं धनं तस्करः न हर्तुमर्हति।
१३. किं तावद् धनं दानेन वृद्धिं प्राप्नोति?
उत्तरम्— विद्यारूपं धनं दानेन वृद्धिं प्राप्नोति ।
१४. के न अवमाननीयाः?
उत्तरम्— अधिगत-परमार्थाः पण्डिताः न अवमाननीयाः।
१५. किं तावत् मनुष्यस्य अथिकम् रूपम्?
उत्तरम्— विद्या नाम मनुष्यस्य अधिकम् रूपम्।
१६. विदेशभ्रमणे कस्तावद् वन्धुजनः?
उत्तरम्— विदेशभ्रमणे विद्या एव वन्धुजनः
१७. विद्याविहीनः जनः केन तुल्यः? (कः पशुना तुल्यः?)
उत्तरम्— विद्याविहीनः जनः पशुना तुल्यः।
१८. दुर्जनः केन तुल्यः?
उत्तरम्— दुर्जनः भयङ्करेण सर्पेण तुल्यः।
१९. स्वजनं प्रति कथम् आचरणीयम्?
उत्तरम्— स्वजनं प्रति दाक्षिण्यं प्रदर्शनीयम्।
२०. दुर्जनं प्रति कथम् आचरणीयम्?
उत्तरम्— दुर्जनं प्रति शाठ्यम् आचरणीयम्।
२१.  साधुजनं प्रति कथम् आचरणीयम्?
उत्तरम्-- साधुजनं प्रति प्रीतिः प्रदर्शनीया।
२२. गुरुजनं प्रति व्यवहारः कीदृशः भवेत् ?
उत्तरम्—गुरुजनं प्रति सहनशीलता प्रदर्शनीया।
२३. वुद्धेः जाड्यं कथं दूरीभूयते?
उत्तरम्—सत्सङ्गेन वुद्धेः जाड्यं दूरीभूयते।
२४. केषां जरा-मरणजं भयं नास्ति?
उत्तरम्—कवीश्वराणां जरा-मरणजं भयं नास्ति।
२५. केन कथं कर्म न प्रारभ्यते?
उत्तरम्—नीचैः विघ्नभयेन कर्म न प्रारभ्यते।
२६. के कर्म न परित्यजन्ति?
उत्तरम्—उत्तमजनाः विघ्नैः पुनः पुनः प्रतिहन्यमाना अपि कर्म न परित्यजन्ति।
२७. मध्यमजनाः कादृशाः?
उत्तरम्—मध्यमजनाः कर्म प्रारभ्य विघ्नविहताः विरमन्ति।
२८. श्रेयसां कस्तावत् पन्थाः?
उत्तरम्—प्राणाघातात् निवृत्तिः, परधन-हरणे संयमः, सत्यवाक्यम्, यथाशक्ति समयोचितं दानम्, परेषां युवतिस्त्री-विषये मौनभावः, कामनाप्रवाहस्य गतिरोधः, गुरुषु विनयः, सर्वभूतानुकम्पा चेति श्रेयसां साधारणः पन्थाः।
२९.  के तावत् मनुष्याणाम् अभीष्टाः विषयाः?
उत्तरम्—सदाचारी पुत्रः, साध्वी प्रियतमा पत्नी, प्रसादोन्मुखः प्रभुः, स्नेहशीलं मित्रम्, अवञ्चकः परिजनः, अक्लिष्टं मनः, रुचिरः आकारः, स्थिरः विभवः, विद्यावदातं मुखम् इत्यते मनुष्याणाम् अभीष्टाः विषयाः।
३०. कः वाचि सत्यं सिञ्चति?
उत्तरम्—सत्सङ्गतिः वाचि सत्यं सिञ्चति।
३१. कः पापं अपाकरोति?
उत्तरम्—सत्सङ्गतिः पापम् अपाकरोति।
३२. कः मानोन्नतिं विदधाति?
उत्तरम्—सत्सङ्गतिः मानोन्नतिं विदधाति।
३३. कः चेतः प्रसादयति?
उत्तरम्—सत्सङ्गतिः चेतः प्रसादयति।
३४. कः कीर्तिं तनोति?
उत्तरम्—सत्सङ्गतिः दिक्षु कीर्तिं तनोति।
३५.  देवनागरीलिप्यां पादपूरणं करणीयम्—
(क) अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः।
---------------------------------------------------।।
(ख) स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः।
-------------------------------------------------------।।
(ग) अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवा
------------------------------------------------।।
(घ) व्याधिः भेषजसंग्रहैश्च विविधैर्मन्त्रप्रयोगर्विषं
-------------------------------------------------।।
(ङ) ---------------------------------------------।
तृणं न  खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम्।।
(च) वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह।
----------------------------------------।।
(च) चेतः प्रसादयति दिक्षु तनोति कीर्तिं
-----------------------------------------।।
(छ) -------------------------------------।
नास्ति तेषां सुकृतिनो रससिद्धाः कवीश्वराः।।
(ज) प्रारभ्यते न खलु विघ्नभयेन नीचैः
---------------------------------------।
(झ) विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
---------------------------------------।।
(ञ) विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
---------------------------------------------------।
(ट) विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं
-------------------------------------------------।।

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1