ads

ad

3rd sem, C-5, संक्षिप्तम् प्रश्नोत्तरम्—लौकिकसंस्कृतसाहित्येतिहासः-1


3rd sem, C-5, संक्षिप्तम् प्रश्नोत्तरम्—लौकिकसंस्कृतसाहित्येतिहासः-1

रमायणम्
१. आदिकविः क उच्यते ? आदिकाव्यं च किम् ?
उत्तरम्—संस्कृतसाहित्ये महर्षिः वाल्मीकिः आदिकविः इत्युच्यते। वाल्मीकि-रचितम् रामायणम् आदिकाव्यम् इत्युच्यते।

२. रामायणस्य रचयिता कः ? रामायणे कति काण्डानि सन्ति ?
उत्तरम्—रामायणस्य रचयिता आदिकविः वाल्मीकिः। रामायणे सप्त काण्डानि सन्ति।
यथा—बालकाण्डम्, अयोध्याकाण्डम्, अरण्यकाण्डम्, किष्किन्ध्याकाण्डम्, सुन्दरकाण्डम्, युद्धकाण्डम्, उत्तरकाण्डम् चेति।

३. ʻचतुर्विंशतिसाहस्री संहिताʼ इति कस्याभिधानम् ? अस्य रचयिता कः ?
उत्तरम्— रामायणे चतुर्विंशतिसहस्रम् (२४०००) श्लोकाः सन्ति। अतः इदं काव्यं ʻचतुर्विंशतिसाहस्री संहिताʼ इत्युच्यते। अस्य रचयिता आदिकविः वाल्मीकिः।

४. वाल्मीकेः रामायणस्य अन्यानि कानि नामान्तराणि सन्ति ?
उत्तरम्— वाल्मीकेः रामायणस्य ʻरामचरितम्ʼ, ʻसीताचरितम्ʼ, ʻरघुवीरचरितम्ʼ, ʻरघुवंशचरितम्ʼ, ʻपौलस्त्यवधम्ʼ, ʻभार्गवगीतम्ʼ इत्यादीनि  नामान्तराणि सन्ति।

५. रामायणस्य कति पाठाः प्रटलिताः ?
उत्तरम्—रामायणस्य त्रयः पाठाः प्रटलिताः। यथा—गौडीयपाठः, दक्षिणीपाठः (दक्षिणभारतीयपाठः),  पश्चिमोत्तरीयपाठश्चेति।

६. वाल्मीकिना कस्य मुखाद् रामायणतस्य उपाख्यानं श्रुतम् ?
उत्तरम्-- वाल्मीकिना देवर्षेः नारदस्य मुखाद् रामायणस्य उपाख्यानं श्रुतम्। ततः ब्रह्मणः निर्देशेन रामायणं विरचितम्।

७. क्रौञ्चमिथुनात् एकस्य वधजनित-शोकात् वाल्मीकि-मुखात् निर्गतः प्रथमः श्लोकः देवनागरीलिप्यां लिख्यताम् ।
उत्तरम्-- क्रौञ्चमिथुनात् एकस्य वधजनित-शोकात् वाल्मीकि-मुखात् निर्गतः प्रथमः श्लोकस्तु—
ʻमा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्।।ʼ

८. रामायणम् केन छन्दसा विरचितम् ?
उत्तरम्-- रामायणम् अनुष्टुप्-छन्दसा विरचितम्।

९. अनुष्टुप्-छन्दसः लक्षणं लिखत।
उत्तरम्-- अनुष्टुप्-छन्दसः लक्षणम्—
ʻश्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम्।
द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः।।
१०. रामायणं कया भाषया रचितम् ?
उत्तरम्-- रामायणं शिष्टजानपदसंस्कृत-भाषया रचितम्, न लोकिकसंस्कृतेन। पाणिनि-कात्यायन-पतञ्जलिभिः उपदिष्टा संस्कृतभाषा तदा सर्वजनग्राह्या नासीत्। तस्मात् कारणात् रामायणे बहवः अपाणिनीयाः प्रयोगाः दृश्यन्ते।

११. रामायणस्य जनप्रियता-सूचकः ब्रह्मणः आशीर्वादात्मकः श्लोकः देवनागरीलिप्यां लिख्यताम्।
उत्तरम्—ʻयावत् स्थास्यन्ति गिरयः सरितश्च महीतले।
             तावद् रामायणीकथा लोकेषु प्रचरिष्यति ।।ʼ

१२. ʻसीताʼ-शब्दस्य कोऽर्थः ?
उत्तरम्-- ʻसीताʼ-शब्दस्य अर्थः—हलपद्धतिः (field-furrow).

१३. रामायणस्य उल्लेखयोग्य-टीकाग्रन्थानां नामानि लिखत।
उत्तरम्—रामायणस्य त्रिंशदधिकाः टीकाग्रन्थाः विरचिताः। तेषु उल्लेखयोग्याः—
रामानुजस्य रामानुजनीयटीका, विद्यनाथ-दीक्षितस्य रामायणदीपिका, योगीमहेश्वरतीर्थस्य रामायण-तत्त्वदीपिका, गोविन्दराजस्य रामायणभूषणम् इति।

१४. रामायणस्य तत्त्वमवलम्ब्य रचितानाम् रामायणकाव्यानां नामानि लिखत।
उत्तरम्-- रामायणस्य तत्त्वमवलम्ब्य रचितानि रामायणकाव्यानि यथा—
अद्भुतरामायणम्, योगवाशिष्ठरामायणम्, अध्यात्मरामायणम्, आनन्दरामायणम्, तत्त्वसंग्रहरामायणम्, भूशुण्डिरामायणम्, मन्त्ररामायणम् इति।

१५. रामायणं कदा रचितम् ?
उत्तरम्—पण्डिताः मन्यन्ते यत्—ख्रीष्टपूर्व-चतुर्थशतकात् प्रागेव वाल्मीकिना मूलरामायणम् रचितम्। प्रक्षिप्तांश-सम्बलितम् अधुना लब्धम् रामायणम् द्वितीयख्रीष्टाब्दमध्ये पूर्णतां प्राप्तम्।

१६. के तावद् रामायणस्य प्रक्षिप्तांशाः ?
उत्तरम्—पण्डिताः मन्यन्ते यत्—रामायणस्य द्वितीयकाण्डादारभ्य षष्ठकाण्डपर्यन्तं वाल्मीकेः मूलरचना। वालकाण्डस्य उत्तरकाण्डस्य च केचिद् अंशाः प्रक्षिप्ताः। एतद्व्यतिरिक्तम् ऋषिणा जावालिना रामाय उपदेशदानम्, रामेण शूद्रतपस्विनः शम्बुकस्य वधः इत्यादयः विषया अपि प्रक्षिप्ताः इति केचित् मन्यन्ते।

१७. रामायणम् अवलम्ब्य रचितानाम् उल्लेखयोग्यानां वौद्धग्रन्थानां नामानि लिखत।
उत्तरम्-- रामायणम् अवलम्ब्य रचिताः उल्लेखयोग्याः बौद्धग्रन्थाः यथा—पालिजातकस्य ʻजातकत्थवण्णनाʼ, सुत्तपिटकस्य ʻखुद्दकणिकायʼ चेति।

१८. रामायणम् अवलम्ब्य रचितानाम् उल्लेखयोग्यानां जैनग्रन्थानां नामानि लिखत।
उत्तरम्-- रामायणम् अवलम्ब्य रचिताः उल्लेखयोग्याः जैनग्रन्थाः यथा—
विमलसूरि-महोदयस्य ʻपउमचरिअʼ, गुणभद्रस्य ʻउत्तरपुराणम्ʼ, रविसेनस्य ʻपद्मचरितम्ʼ, जिनदासस्य ʻरामदेवपुराणम्ʼ, भीमसेनस्य ʻरामचरितम्ʼ इत्यादयः।

१९. रामायणम् अवलम्ब्य प्राकृतभाषया रचितस्य कस्यचित् महाकाव्यस्य नाम लिखत। अस्य रचयिता कः?
उत्तरम्-- रामायणम् अवलम्ब्य प्राकृतभाषया रचितं महाकाव्यं यथा—सेतुबन्धम्। अस्य रचयिता कविः प्रवरसेनः।

२०. महाभारतस्य कस्मिन् अंशे रामायणस्य उल्लेखः दृश्यते? तत्र रामायणम् केन नाम्ना उल्लिखितम्?
उत्तरम्-- महाभारतस्य शान्तिपर्वणि रामायणस्य उल्लेखः दृश्यते? तत्र रामायणम् ʻभार्गवगीतम्ʼ इति नाम्ना उल्लिखितम्।

२१. महर्षेः वाल्मीकेः आश्रमः कुत्रासीत् ?
उत्तरम्—अयोध्योसमीपे तमसानदीतीरे महर्षेः वाल्मीकेः आश्रमः आसीत्।

२२. राज्ञः दशरथस्य द्वयोः मन्त्रिणोः नोम लिखत।
उत्तरम्-- राज्ञः दशरथस्य द्वौ मन्त्रिणौ यथा—सुमन्त्रः सिद्धार्थः चेति।

२३. राम-लक्षणयोः अस्त्रविद्यायाः शिक्षागुरुः क आसीत्?
उत्तरम्-- राम-लक्षणयोः अस्त्रविद्यायाः शिक्षागुरुः आसीत् महर्षिः विश्वामित्रः।

२४. का आसीत् राज्ञः दशरथस्य कन्या ?
उत्तरम्-- राज्ञः दशरथस्य एका कन्या आसीत्। तस्याः नाम शान्ता। ऋषिणा ऋष्यशृङ्गेण सह तस्याः विवाहः अभवत्।

२५. क आसीत् रावणस्य सेनापतिः?
उत्तरम्—रावणस्य सेनापतिः आसीत् प्रहस्तः।

२६. क आसीत् इन्द्रजित् ? स केन अस्त्रेण रामलक्षणौ वद्धौ?
उत्तरम्—इन्द्रजित् रावणस्य पुत्रः आसीत्। स ʻनागपाशʼ इत्यनेन अस्त्रेण रामलक्षणौ वद्धौ।

२७. रामायणे वर्णितस्य प्रख्यातस्य चिकित्सकस्य नाम लिखत।
उत्तरम्-- रामायणे वर्णितः प्रख्यातसः चिकित्सकः आसीत् सुषेणः इति।

२८. सीतायाः पूर्वजन्मनि नाम किमासीत्?
उत्तरम्—रामायणस्य उत्तरकाण्डानुसारेण सीतायाः पूर्वजन्मनि नाम आसीत् वेदवती इति। सा कस्यचित् महर्षेः कन्या आसीत्।

२९. क आसीत् कुवेरः? स कुत्र अवसत्? किमासीत् तस्य रथस्य नाम?
उत्तरम्—कुवेरः रावणस्य वैमात्रेयः भ्राता आसीत्। स कैलासे वसति स्म। तस्य रथस्य नाम आसीत् पुष्पकः इति।

३०. रामायणम् अवलम्ब्य रचितानाम् उल्लेखयोग्यानां संस्कृतनाटकानां नामानि लिखत।
उत्तरम्-- रामायणम् अवलम्ब्य रचितानि उल्लेखयोग्यानि संस्कृतनाटकानि यथा—
भास-रचितम् प्रतिमानाटकम्, अभिषेकनाटकम् च।
भवभूति-रचितम् महावीरचरितम्, उत्तररामचरितम् च।
अनङ्गहर्ष-रचितम् उदात्तराघवम्।
शक्तिभद्र-रचितम् आश्चर्यचूडामणि।
मुरारि-रचितम् अनर्घराघवम्।
दिङ्नाग-रचिता कुन्दमाला।
राजशेखर-रचितम् वालरामायणम्।
जयदेव-रचितम् प्रसन्नराघवम्।
दामोदरमिश्रेण मधुसूदनमिश्रेण वा सङ्कलितम् हनुमन्नाटकम् महानाटकम् वा।

३२. रामायणम् अवलम्ब्य रचितानाम् उल्लेखयोग्यानां संस्कृतमहाकाव्यानां नामानि लिखत।
उत्तरम्-- रामायणम् अवलम्ब्य रचितानि उल्लेखयोग्यानि संस्कृतमहाकाव्यानि यथा—
कालिदास-रचितम् रघुवंशम्, भर्तृहरि-रचितम् (भट्टि-रचितम्) रावणवधम् (भट्टिकाव्यम्), कुमारदास-रचितम् जानकीहरणम्, अभिनन्द-रचितम् रामचरितम्, क्षेमेन्द्र-रचिता रामायणमञ्जरी इति।

३३. रामायणम् अवलम्ब्य रचितानाम् उल्लेखयोग्यानां संस्कृतचम्पूकाव्यानां नामानि लिखत।
उत्तरम्-- रामायणम् अवलम्ब्य रचितानि उल्लेखयोग्यानि संस्कृतचम्पूकाव्यानि यथा—
भोजस्य रामायणचम्पूः, रामकवेः रामाभ्युदयः, दिवाकरस्य अमोघराघवम्, श्रीनिवासस्य रामकथासुधोदयः, अनन्ताचार्यस्य चम्पूराघवम्, देवराजस्य रामाभिषेकचम्पूः, पतञ्जलेः सीताविजयचम्पूः, रामस्वामिनः सीताचम्पूः इत्यादीनि।

महाभारतम्

१. महाभारतस्य रचयिता कः? महाभारते कति पर्वणः सन्ति?
उत्तरम्—महर्षिः कृष्णद्वैपायनः वेदव्यासः महाभारतस्य रचयिता। महाभारते अष्टादश पर्वणः सन्ति।
यथा—आदिपर्व, सभापर्व, वनपर्व, विराटपर्व, उद्योगपर्व, भीष्मपर्व, द्रोणपर्व, कर्णपर्व, शल्यपर्व, सौप्तिकपर्व, स्त्रीपर्व, शान्तिपर्व, अनुशासनपर्व, अश्वमेधपर्व, आश्रमिकपर्व, मौसलपर्व, महाप्रास्थानिकपर्व, स्वर्गारोहणपर्व च।

२. कः ग्रन्थः ʻशतसाहस्रीसंहिताʼ इत्युच्यते? अस्य लेखकः कः?
उत्तरम्—महाभारते शतसहस्रं (१०००००) श्लोकाः सन्ति। अतः महाभारतम् ʻशतसाहस्रीसंहिताʼ इत्युच्यते। अस्य लेखकः महर्षिः कृष्णद्वैपायनः वेदव्यासः इति।

३. कदा महाभारतम् रचितम्?
उत्तरम्—पण्डितानां मतानुसारेण महाभारत-रचनायाः त्रयः पर्यायाः सन्ति। यथा—
प्रथमपर्यायस्य आनुमानिकः कालः—सप्तशत-ख्रीष्टपूर्वाब्दात् आरभ्य पञ्चशत-ख्रीष्टपूर्वाब्दपर्यन्तम्।
द्वितीयपर्यायस्य आनुमानिकः कालः—पञ्चशत-ख्रीष्टपूर्वाब्दात् आरभ्य द्विशत-ख्रीष्टपूर्वाब्दपर्यन्तम्।
तृतीयपर्यायस्य आनुमानिकः कालः—द्विशत-ख्रीष्टपूर्वाब्दात् आरभ्य सार्धत्रिशत-ख्रीष्टाब्दपर्यन्तम्।

४. महाभारतकथायाः वक्तारः के?
उत्तरम्—महाभारतकथायाः प्रथमपर्यायस्य वक्ता कृष्णद्वैपायनः वेदव्यासः, द्वितीयपर्यायस्य वक्ता तस्य शिष्यः वैशम्पायनः, तृतीयपर्यायस्य वक्ता ऋषेः लोमहर्षणस्य पुत्रः सौतिः इति।

५. वेदव्यासस्य मातापित्र्योः नाम लिखत।
उत्तरम्— कृष्णद्वैपायन-वेदव्यासस्य पिता ऋषिः पराशरः, माता च सत्यवती। वेदव्यासस्य गात्रवर्णः कृष्णः आसीत्, अतः स कृष्णः इत्युच्यते। यमुनानद्याः कस्मिंश्चिद् द्वीपे तस्य जन्म अभवत्। अतः स द्वैपायनः इत्युच्यते। स वेदमन्त्राणां संकलयिता, वेदविभागकर्ता च। अतः स वेदव्यासः इत्युच्यते। एवम् स कृष्णद्वैपायनः वेदव्यासः इति ख्यातः।

६. महाभारतस्य कानि तावत् नामान्तराणि सन्ति?
उत्तरम्—महाभारतस्य नामान्तराणि यथा—भारतसंहिता, पञ्चमवेदः, शतसाहस्रीसंहिता, जयः, भारतम् इत्यीदीनि।

७. महाभारतकथायाः वक्ता कः?
उत्तरम्-- महाभारतकथायाः वक्ता सञ्जयः। स धृतराष्ट्रस्य अमात्यः, तथा मित्रमासीत्।

८. कौरवाणाम् आदिपुरुषः कः? स कस्य वंशस्य राजा आसीत्?
उत्तरम्-- कौरवाणाम् आदिपुरुषः आसीत् हस्ती। स चन्द्रवंशीयः राजा आसीत्। तेन प्रतिष्ठितायाः राजधान्याः नाम हस्तिनापुरम् आसीत्।

९. कथं चन्द्रवंशीयाः राजानः कौरवाः इत्यभिहिताः?
उत्तरम्—चन्द्रवंशीय-राज्ञः हस्तिनः चतुर्थपुरुषादनन्तरं कुरुः राजा अभवत्। तस्य नामानुसारेण एव चन्द्रवंशीयाः राजानः कौरवाः इत्यनेन परिचिताः।

१०.  महाभारते कः सूतपुत्रः इति ख्यातः?
उत्तरम्-- महाभारते कर्णः सूतपुत्रः इति ख्यातः। सारथिना अधिरथेन स वर्धितः, अतः स सुतपुत्रः इत्यभिहितः।

११. महाभारतस्य पर्वणि कर्णस्य उपाख्यानमस्ति? कर्णस्य जीवनम्वलम्ब्य किं रूपकम् रचितम्?
उत्तरम्-- महाभारतस्य कर्णपर्वणि कर्णस्य उपाख्यानमस्ति। कर्णस्य जीवनमवलम्ब्य भासेन ʻकर्णभारम्ʼ इति रूपकम् रचितम्।

१२. श्रीमद्बागवद्गीता महाभारतस्य कस्मिन् पर्वणि अस्ति? तत्र कति अध्यायाः सन्ति? गीतायाः अपरं नाम किम्?
उतत्रम्-- श्रीमद्बागवद्गीता महाभारतस्य भीष्मपर्वणि अस्ति। गीतायाम् अष्टादश अध्यायाः सन्ति। गीतायाम्  सप्त शतं श्लोकाः सन्ति। अतः सा सप्तशती इत्युच्यते।

१३. हरिवंशः महाभारतस्य कस्मिन् पर्वणि अस्ति?
उत्तरम्-- हरिवंशः महाभारतस्य अष्टादशपर्वणः अतिरिक्ते खिलपर्वणि अस्ति। हरिवंशे अष्टादश सहस्रं श्लोकाः सन्ति। अत्र त्रयः पर्वणः सन्ति। यथा—हरिवंशपर्व, विष्णुपर्व, भविष्यपर्व चेति।

१४. महाभारतम् अवलम्ब्य रचितानाम् उल्लेखयोग्यानां संस्कृतनाटकानां नामानि लिखत।
उत्तरम्-- महाभारतम् अवलम्ब्य रचितानि उल्लेखयोग्यानि संस्कृतनाटकानि यथा—
भासस्य मध्यमव्यायोगः, दूतवाक्यम्, ऊरुभङ्गम्, कर्णभारम्, दूतघटोत्कचम्, पञ्चरात्रम् च।
कालिदासस्य अभिज्ञानशकुन्तलम्, भट्टनारायणस्य वेणीसंहारम्, कुलशेखरस्य तपतीहरणम्, सुभद्राहरणम् च, प्रह्लानदेवस्य पार्थपराक्रमम्, वत्सराजस्य समुद्रमन्थनम्, काञ्चनपण्डितस्य धनञ्जयविजयम्, कुमारपालस्य द्रौपदीस्वयम्बरम्, रामचन्द्रस्य निर्भयभीमम्, मोक्षादित्यस्य भीमविक्रमव्यायोगः इत्यादीनि।

१५. महाभारतम् अवलम्ब्य रचितानाम् उल्लेखयोग्यानां संस्कृतमहाकाव्यानां नामानि लिखत।
उत्तरम्-- महाभारतम् अवलम्ब्य रचितानानि उल्लेखयोग्याननि संस्कृतमहाकाव्याननि यथा—
भारवि-रचितं किरातार्जुनीयम्, माघ-रचितं शिशुपालवधम्, क्षेमेन्द्र-रचिता महाभारतमञ्जरी, श्रीहर्ष-रचितं नैषधचरितम्, नीतिवर्मणः कीचकवधम्, वासुदेवस्य युधिष्ठिरविजयम् इत्यादीनि।

१६. महाभारतम् अवलम्ब्य रचितानाम् उल्लेखयोग्यानां संस्कृतचम्पूकाव्यानां नामानि लिखत।
उत्तरम्-- महाभारतम् अवलम्ब्य रचितानि उल्लेखयोग्यानि संस्कृतचम्पूकाव्यानि यथा—
त्रिविक्रमभट्टस्य नलचम्पूः, अनन्तभट्टस्य भारतचम्पूः, चक्रकवेः द्रौपदीपरिणयः, अम्मलकवेः रुक्मिणीपरिणयः, सुभद्राहरणम् इत्यादीनि।

पुराणम्

१. किं तावत् पुराणम्?
उत्तरम्—पुराण-शब्दस्य अर्थः—प्राचीनकथा इति। निरुक्तमते—पुराणस्य अर्थः-- ʻपुराणं कस्मात्? पुरा नवं भवति।ʼ प्राचीनपुराणानुसारेण  पुराणं खलु पुराकालस्य विवरणम् इति। यतः पुरा एवं सङ्घटितम्, अतः अस्य नाम पुराणम्-- ʻपुरातनस्य कल्पस्य पुराणानि विदुर्वुधाःʼ (मत्स्यपुराणम्)। उत्तरकाले पुराणम् धर्मीयसाहित्यरूपेण परिगणितम्।

२. पुराणस्य मुख्यानि लक्षणानि लिखत।
उत्तरम्—साधारणभावेन पुराणम् पञ्चलक्षणम्। वायुपुराणे विष्णुपुराणे च उक्तम्—
ʻसर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंसानुचरितञ्चैव पुराणं पञ्चलक्षणम्।।ʼ
सर्गः, प्रतिसर्गः, वंशः, मन्वन्तरम्, वंशानुचरितं चेति पुराणस्य पञ्चलक्षणम्।
सर्गः सृष्टिः इति। प्रतिसर्गः—प्रलयात् परं पुनः सृष्टिः। वंशः—द्वतानाम् ऋषीणां च वंशावली। मन्वन्तरम्—एकैकस्य मनोः शासनकालः। वंशानुचरितम्—राजवंशानाम् इतिहासः इति।

३. महापुराणानि कति?
उत्तरम्—अष्टादश महापुराणानि। यथा—ब्रह्मपुराणम्, पद्मपुराणम्, विष्णुपुराणम्, शिवपुराणम् वायुपुराणम् वा, भागवतपुराणम्, नारदीयपुराणम्, मार्कण्डेयपुराणम्, आग्नेयपुराणम्, भविष्यपुराणम्, ब्रह्मवैवर्तपुराणम्, लिङ्गपुराणम्, वराहपुराणम्, स्कन्दपुराणम्, वामनपुराणम्, कूर्मपुराणम्, मत्स्यपुराणम्, गरुडपुराणम्, ब्रह्माण्डपुराणम् चेति।

४. पुराणे वर्णितानां केषाञ्चित् राजवंशानां नाम लिखत।
उत्तरम्—पुराणे वर्णिताः प्रख्याताः राजवंशाः यथा—वृहद्रथवंशः, प्रद्योतवंशः, शिशुनागवंशः, नन्दवंशः, मौर्यवंशः, शुङ्गवंशः, कण्ववंशः, आन्ध्रवंशः, गुप्तवंशः इत्यादयः।

५. किं तावद् आदिपुराणम्?
उत्तरम्—अष्टादशसु महापुराणेषु ब्रह्मपुराणम् सर्वादौ विद्यते। अतः इदम् आदिपुराणम् इत्युच्यते। एतद्व्यतिरिक्तम् आदिपुराणरूपेण पृथक् उपपुराणद्वयम् अस्ति।

६. वैष्णवपुराणानां नामानि सिखत।
उत्तरम्-- ब्रह्मपुराणम्, पद्मपुराणम्, विष्णुपुराणम्, भागवतपुराणम्, वामनपुराणम्, कूर्मपुराणम् चेति वैष्णवपुराणानि।

७. शैवपुराणान् लामानि तिखत।
उत्तरम्—शिवपुराणम्, लिङ्गपुराणम्, स्कन्दपुराणम् चेति शैवपुराणानि।

८. किमुच्यते उपपुराणम्?
उत्तरम्—पुराणस्य उपभेदः खिलः अंश एव उपपुराणम्। यथार्थविचारेण एतानि मुख्यानां पुराणानाम् अर्वाचीनानि परिवर्धितानि च संस्करणानि।

९. उपपुराणानां नामानि लिखत।
उत्तरम्—उपपुराणविषये मतभेदः अस्ति। बृहद्धर्मपुराणानुसारेण उपपुराणानि तावत्—
आदिपुराणम्, आदित्यपुराणम्, बृहन्नारदीयपुराणम्, नारदीयपुराणम्, नन्दीश्वरपुराणम्, बृहन्नन्दीश्वर पुराणम्, शाम्बपुराणम्, क्रियायोगपुराणम्, कालिकापुराणम्, धर्मपुराणम्, विष्णुधर्मोत्तरपुराणम्, शिवधर्म पुराणम्, विष्णुधर्मपुराणम्, वामनपुराणम्, वारुणपुराणम्, नारसिंहपुराणम्, भार्गवपुराणम्, बृहद्धर्म पुराणम् चेति।

१०. पुराणे वर्णिताः सप्त द्वीपाः के?
उत्तरम्-- पुराणे वर्णिताः सप्त द्वीपाः यथा—जम्बुद्वीपः, प्लक्षद्वीपः, शाल्मलीद्वीपः, कुशद्वीपः, क्रौञ्चद्वीपः, शाकद्वीपः, पुष्करद्वीपः चेति।

११. पुराणे वर्णितानां सप्तानां सागराणां नामानि लिखत।
उत्तरम्— पुराणे वर्णिताः सप्त सागराः यथा—क्षीरसागरः, इक्षुसागरः, सुरासागरः, घृतसागरः, दधिसागरः, दुग्धसागरः, स्वादुसागरः चेति।

१२. पुराणे वर्णितानां सप्तानां कुलपर्वतानां नामानि लिखत।
उत्तरम्-- पुराणे वर्णिताः सप्त कुललपर्वताः यथा—
महेन्द्रपर्वतः (अधुना पूर्वघाटपर्वतस्य एकः शृङ्गः), मलयपर्वतः (पश्चिमघाटपर्वतत्य एकांशः), सह्यपर्वतः (सह्याद्रिः), शक्तिमान् (हिमालयस्य एकांशः), ऋक्षपर्वतः (विन्ध्यपर्वतमालायाः एकांशः), विन्ध्यपर्वतः, पारियात्रपर्वतः चेति।

१३.  पुराणमवलम्ब्य रचितस्य कस्यचित् चम्पूकाव्यस्य, तथा लेखकस्य नामनी लिखत।
उत्तरम्-- पुराणमवलम्ब्य रचितम् एकं चम्पूकाव्यं यथा—पारिजातहरणचम्पूः। अस्य लेखकः शेषकृष्णः इति।

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1