ads

ad

3rd sem, C-7, लघुसिद्धामुतकौमुदी, कृदन्तप्रकरणम्—सूत्रव्याख्याः-1


3rd sem, C-7, unit 2, लघुसिद्धामुतकौमुदी, कृदन्तप्रकरणम्—सूत्रव्याख्याः-1

१.  कृत्यल्युटो बहुलम्—३।३।११३
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् कृत्य-ल्युट्-प्रत्यय-विधायकम्। सूत्रस्य पदच्छेदः—कृत्यलुटः बहुलम्। सूत्रे ʻकृत्यलुटःʼ इति प्रथमा-बहुवचनम्। ʻबहुलम्ʼ इत् प्रथमैकवचनम्।
सूत्रार्थः—कृत्यसंज्ञकाः प्रत्ययाः ल्युट् च बहुलमर्थेषु भवन्ति, यत्र विहितास्ततः अन्यत्रापि भवन्ति।
ल्युटः अन्त्यः टकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, आदिः लकारः ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः भवति, तस्मात् ʻयुʼ इत्यवशिष्यते। ततः ʻयुवोरनाकौʼ इत्यनेन सूत्रेण यु-स्थाने ʻअनʼ इत्यादेशः भवति।
ʻबहुलम्ʼ इति चतुर्विधे अर्थे प्रयुज्यते। यथा—
क्वचित्प्रवृत्तिः क्वचिन्निवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं भवेत्।।
अर्थात् सूत्रस्य विधानं क्वचित् प्रवर्तते, क्वचित् न प्रवर्तते, क्वचिद् विकल्पेन भवति, क्वचित् अन्यप्रकारं भवति। एवं चतुर्विधं बाहुलकं भवति।
ʻतयोरेव कृत्य-क्त-खलर्थाःʼ इत्यनेन सूत्रेण कृत्यसंज्ञकाः प्रत्ययाः भावे कर्मणि च प्रयुज्यन्ते। परन्तु प्रस्तुतेन सूत्रेण कृत्यप्रत्ययानां ल्युट्प्रत्ययस्य च बहुलम् अर्थेषु प्रयुज्यत्वात् करण-सम्प्रदानादि-कारकाणाम् अर्थेषु अपि प्रयोगः सिद्धः। अर्थात् कृत्यप्रत्ययाः ल्युट्प्रत्ययश्च यथा भावकर्मणोः भवन्ति, तथा अन्येषु कारकेषु अपि भवन्ति।
उदाहरणम्—स्नाति अनेन इति—स्नानीयम् चूर्णम्।  ʻस्नाति अनेनʼ इति करणे।
स्ना + अनीयर्—स्नानीयम्।
स्ना  अनीयर्  (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻस्नाʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻतव्यत्तव्यानीयरःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः स्ना-धातोरुत्तरम् अनीयर्-प्रत्ययः),
>  स्ना अनीय (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अनीयरः अन्त्यः रकारः इत्, ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
>  स्नानीय (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण पूर्वपरयोः सवर्णदीर्घः आकारः एकादेशः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> स्नानीय सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> स्नानीय अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् ʻस्नानीयʼ इत्यस्मात् सु-स्थाने अमादेशः),
>  स्नानीयम् (ʻस्नानीयʼ इत्यस्य यकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻस्नानीयम्ʼ इति रूपं सिद्धम्)।

२. अचो यत्—३।१।९७
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् यत्-प्रत्यय-विधायकम्। सूत्रस्य पदच्छेदः—अचः यत्। सूत्रे ʻअचःʼ इति पञ्चम्येकवचनम्। अस्यार्थः—अचः परम्। ʻयत्ʼ इति प्रथमैकवचनम्। अस्यार्थः—यत्-प्रत्ययः भवति। सूत्रस्य अर्थवोधार्थमत्र ʻधातोःʼ इति अधिकारसूत्रम् अनुवर्तते। सूत्रस्थम् ʻअचःʼ इति पदं ʻधातोःʼ इत्यस्य विशेषणम्, तस्मात् ʻयेन विधिस्तदन्तस्यʼ इत्यनया परिभाषया तत्र तदन्तविधिः। एवं पूर्णाङ्गं सूत्रं भवति-- ʻअजन्ताद् धातोः यत्ʼ।
सूत्रार्थः— अजन्ताद् धातोः यत्-प्रत्ययः स्यात्।
यत्-प्रत्ययस्य अन्त्यः तकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः भवति, अतः यकारः अवशिष्यते।
उदाहरणम्—चि + यत् –चेयम्।
चि यत् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻचिʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻअचो यत्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः चि-धातोरुत्तरम् यत्-प्रत्ययः),
>  चि य (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण ʻयत्ʼ इत्यस्य अन्त्यः तकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
>  चेय (आर्धधातुके यत्-प्रत्यये परे ʻसार्वधातुकार्धधातुकयोःʼ इत्यनेन सूत्रेण चि-धातोः इकार-स्थाने एकार-गुणादेशः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> चेय सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> चेय अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् सु-स्थाने अमादेशः),
>  चेयम्  (ʻचेयʼ इत्यस्य यकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻचेयम्ʼ इति रूपं सिद्धम्)।

३. ईद्यति—६।४।६५
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् आकारान्त-धातोः आकार-स्थाने ईकारादेश-विषयकं विधिसूत्रम। सूत्रस्य पदच्छेदः—ईत् यति। सूत्रे ʻईत्ʼ इति प्रथमैकवचनम्। अस्यार्थः—दीर्घः ईकारः भवति। ʻयतिʼ इति सप्तम्येकवचनम्। अस्यार्थः—यत्-प्रत्यये परे सति। सूत्रस्य अर्थवोधार्थमत्र ʻधातोःʼ इति अधिकारसूत्रम्, तथा ʻआतो लोप इटि चʼ इत्यस्मात् सूत्रात् ʻआतःʼ इति पदम् अनुवर्तेते। एवं पूर्णाङ्गं सूत्रं भवति-- ʻधातोः आतः ईत् यति।ʼ
सूत्रार्थः— यत्-प्रत्यये परे धातोः आत ईत् स्यात्।
उदाहरणम्—दा + यत् –देयम्।
दा यत् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻदाʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻअचो यत्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः दा-धातोरुत्तरम् यत्-प्रत्ययः),
>  दा य (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण ʻयत्ʼ इत्यस्य अन्त्यः तकारः इत्, ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
>  दी य (यत्-प्रत्यये परे ʻईद्यतिʼ इत्यनेन सूत्रेण दा-धातोः आकार-स्थाने ईकारादेशः),
>  देय (आर्धधातुके यत्-प्रत्यये परे ʻसार्वधातुकार्धधातुकयोःʼ इत्यनेन सूत्रेण ʻदीʼ इत्यस्य  ईकार-स्थाने एकार-गुणादेशः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
>  देय सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  देय अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् सु-स्थाने अमादेशः),
>  देयम्  (ʻदेयʼ इत्यस्य यकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻदेयम्ʼ इति रूपं सिद्धम्)।

४. पोरदुपधात्—३।१।९८
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् यत्-प्रत्यय-विषयकं विधिसूत्रम। सूत्रस्य पदच्छेदः—पोः अदुपधात्। सूत्रे ʻपोःʼ, ʻअदुपधात्ʼ चेति पदद्वये पञ्चम्येकवचनम्। सूत्रस्य अर्थवोधार्थमत्र ʻधातोःʼ इति अधिकारसूत्रम्, तथा ʻअचो यत्ʼ इत्यस्मात् सूत्रात् ʻयत्ʼ इति पदम् अनुवर्तेते। एवं पूर्णाङ्गं सूत्रं भवति-- ʻपोरदुपधात् धातोः यत्।ʼ
सूत्रस्थं ʻपोःʼ इति पदं ʻधातोःʼ इत्यस्य विशेषणम्। अतः ʻयेन विधिस्तदन्तस्यʼ इत्यनया परिभाषया तत्र तदन्तविधिः। तेन ʻपवर्गान्तात्ʼ इत्यर्थः जायते। यस्य धातोः उपधायां ह्रस्वः अकारः अस्ति सः अदुपधः धातुः। ʻअलोऽन्त्यात् पूर्व उपधाʼ इत्यनेन सूत्रेण शब्दस्य अन्त्यवर्णात् पूर्वः वर्णः उपधा इत्युच्यते।
सूत्रार्थः—पवर्गान्ताद् अदुपधाद् धातोः यत् स्यात्।
पवर्गे प् फ् ब् भ् म् इति वर्णाः सन्ति। इदं सूत्रम् ʻऋहलोर्ण्यत्ʼ इत्यस्य अपवादः।
उदाहरणम्—शप् + यत् --शप्यम्।
शप् यत् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻशप्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻपोरदुपधात् ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः शप्-धातोरुत्तरम् यत्-प्रत्ययः),
>  शप् य (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण ʻयत्ʼ इत्यस्य अन्त्यः तकारः इत्,तथा  ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> शप्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> शप्य सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> शप्य अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् सु-स्थाने अमादेशः),
>  शप्यम्  (ʻशप्यʼ इत्यस्य यकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻशप्यम्ʼ इति रूपं सिद्धम्)।
एवम्—लभ् + यत् > लभ् य > लभ्य > लभ्य सु > लभ्य अम् > लभ्यम्।

५. एति-स्तु-शास्-वृ-दृ-जुषः क्यप्—३।१।१०९
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् क्यप्-प्रत्यय-विषयकं विधिसूत्रम। सूत्रे        
 ʻएति-स्तु-शास्-वृ-दृ-जुषःʼ इति पञ्चम्येकवचनम्। एति, स्तु, शास्, वृ, दृ, जुष् इत्येतेषां समाहारद्वन्द्वात् पञ्चमी। ʻक्यप्ʼ इत् प्रथमैकवचनम्। ʻएतिʼ इत्यनेन गत्यर्थकस्य इण्-धातोरेव ग्रहणं भवति। सूत्रस्य अर्थवोधार्थमत्र ʻधातोःʼ इति अधिकारसूत्रम् अनुवर्तते। एवं पूर्णाङ्गं सूत्रं भवति-- ʻएति-स्तु-शास्-वृ-दृ-जुषः धातोः क्यप्।ʼ
सूत्रार्थः—इण्, स्तु, शास्, वृ, दृ, जुष् च इत्येतेभ्यः धातुभ्यः क्यप्-प्रत्ययः भवति।
अत्र इ, स्तु, वृ, दृ चेति चतुर्भ्यः अजन्तेभ्यः धातुभ्यः उत्तरम् ʻअचो यत्ʼ इत्यनेन सूत्रेण यत्-प्रत्ययस्य प्राप्तिः स्यात्। परन्तु ʻएति-स्तु-शास्-वृ-दृ-जुषः क्यप्ʼ इत्यनेन सूत्रेण तद् वाधित्वा क्यप्-प्रत्ययः विहितः।
क्यप्-प्रत्ययस्य अन्त्यः पकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण आदिः ककारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तयोः लोपः भवति। तस्मात् यकारः अवशिष्यते।
उदाहरणम्—शास् + क्यप् –शिष्यः।
शास् क्यप् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻशास्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻएति-स्तु-शास्-वृ-दृ-जुषः क्यप्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः शास्-धातोरुत्तरं क्यप्-प्रत्ययः),
>  शास् य (क्यप्-प्रत्ययस्य अन्त्यः पकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण आदिः ककारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तयोः लोपः),
> शिस् य (ʻशास इदङ्हलोःʼ इत्यनेन सूत्रेण शास्-धातोः आकार-स्थाने इकारादेशः),
> शिष् य (ʻशासि-वसि-घसीनाञ्चʼ इत्यनेन सूत्रेण ʻशिस्ʼ इत्यत्र इण्-प्रत्याहारस्य इकारात् सकार-स्थाने षकारादेशः),
> शिष्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> शिष्य सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> शिष्यस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                            > शिष्यरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकार-स्थाने ʻरुʼ इत्यादेशः),                                                        
> शिष्यर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                            > शिष्यः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻशिष्यर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻशिष्यःʼ इति रूपं सिद्धम्)।


Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1