ads

ad

3rd sem, C-7, लघुसिद्धामुतकौमुदी, कृदन्तप्रकरणम्—सूत्रव्याख्याः-2



3rd sem, C-7, unit 2, लघुसिद्धामुतकौमुदी, कृदन्तप्रकरणम्—सूत्रव्याख्याः-2

६. ह्रस्वस्य पिति कृति तुक्—६।१।७१
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् तुक्-आगम-विषयकं विधिसूत्रम्। सूत्रे ʻह्रस्वस्यʼ इति षष्ठ्येकवचनम्। ʻपितिʼ, ʻकृतिʼ चेति सप्तम्येकवचनम्। सुत्रे ʻपिति कृतिʼ इत्यनयोः अर्थः—पकार इत् इति कृत्-प्रत्यये परतः। ʻतुक्ʼ इति प्रथमैकवचनम्। अस्यार्थः—तुक् आगमः भवति। ʻकृदतिङ्ʼ इत्यस्मिन् सूत्रे कृत्-प्रत्ययानाम् उल्लेखः कृतः।
सूत्रार्थः—पिति कृति परतः ह्रस्वस्य तुगागमः भवति।
ʻतुक्ʼ इत्यस्य उकारः ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण इत्, अन्त्यः ककारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन तयोः लोपः, तस्मात् तकारः (त्) अवशिष्यते। तुकः ककारः इत्, अतः कित्, तेन ʻआद्यन्तौ टकितौʼ इत्यनया परिभाषया तुक् ह्रस्वस्य अन्तावयवः भवति।
उदाहरणम्—इ + क्यप् –इत्यः।
इ क्यप् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻइʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻएति-स्तु-शास्-वृ-दृ-जुषः क्यप्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः इ-धातोरुत्तरं क्यप्-प्रत्ययः),
>  इ य (क्यप्-प्रत्ययस्य अन्त्यः पकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण आदिः ककारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तयोः लोपः),
> इ तुक् य (ʻह्रस्वस्य पिति कृति तुक्ʼ इत्यनेन सूत्रेण तुक्-आगमः, ʻआद्यन्तौ टकितौʼ इत्यनया परिभाषया तुक् ह्रस्वस्य इ-धातोः अन्तावयवः),
> इत् य (ʻतुक्ʼ इत्यस्य उकारः ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण इत्, अन्त्यः ककारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन तयोः लोपः),
> इत्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> इत्य सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> इत्यस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                            > इत्यरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                                        
> इत्यर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                                                                                               
> इत्यः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻ इत्यर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻइत्यःʼ इति रूपं सिद्धम्)।
एवम्—वृ + क्यप् >  वृत्यः। स्तु क्यप् > स्तुत्यः। आ-दृ +क्यप् > आदृत्यः।

७. शास इदङ्हलोः—६।४।३४
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् शास्-धातोः उपधा-स्थाने इकारादेश-विषयकं विधिसूत्रम्। सूत्रस्य पदच्छेदः—शासः इत् अङ्हलोः। अदादिगणीय-शास्-धातोः अर्थः—उपदेशदानम्-- ʻशासु अनुशिष्टोʼ। सूत्रे ʻशासःʼ इति षष्ठ्येकवचनम्। अस्यार्थः—शास्-धातोः स्थाने। ʻइत्ʼ इति प्रथमैकवचनम्। अस्यार्थः—ह्रस्वः इकारः भवति। ʻअङ्हलोः इति सप्तमी-द्विवचनम्। अस्यार्थः—अङि हलि च परे सति। अर्थवोधार्थमत्र ʻअनिदितां हल उपधाया क्ङितिʼ इत्यस्मात् सूत्रात् ʻउपधायाःʼ, ʻक्ङितिʼ चेति पदद्वयम् अनुवर्तते। एवं पूर्णाङ्गं सूत्रं भवति-- ʻशास इदङ्हलोः उपधाया क्ङिति।ʼ
सूत्रार्थः—शास उपधाया इत् स्याद् अङि हलादौ क्ङिति।
शास्-धातोः उपधा सकार-पूर्ववर्ती आकारः। अस्य आकारस्य स्थाने एव इकारादेशः भवति। तेन ʻशिस्ʼ भवति।
उदाहरणम्—शास् + क्यप् –शिष्यः।
शास् क्यप् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻशास्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻएति-स्तु-शास्-वृ-दृ-जुषः क्यप्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः शास्-धातोरुत्तरं यत्-प्रत्ययः),
>  शास् य (क्यप्-प्रत्ययस्य अन्त्यः पकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण आदिः ककारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तयोः लोपः),
> शिस् य (ʻशास इदङ्हलोःʼ इत्यनेन सूत्रेण शास्-धातोः आकार-स्थाने इकारादेशः),
> शिष् य (ʻशासि-वसि-घसीनाञ्चʼ इत्यनेन सूत्रेण ʻशिस्ʼ इत्यत्र इण्-प्रत्याहारस्य इकारात् सकार-स्थाने षकारादेशः),
> शिष्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> शिष्य सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> शिष्यस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                                                                          
> शिष्यरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकार-स्थाने ʻरुʼ इत्यादेशः),                                                        
> शिष्यर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                            > शिष्यः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻशिष्यर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻशिष्यःʼ इति रूपं सिद्धम्)।

८. ऋहलोर्ण्यत्—३।१।१२४
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् ण्यत्-प्रत्यय-विषयकं विधिसूत्रम्। सूत्रस्य पदच्छेदः—ऋहलोः ण्यत्। सूत्रे ʻऋहलोःʼ इति पञ्चम्यर्थे षष्ठी। अस्यार्थः—ऋकारात् हलश्च परम्। ʻण्यत्ʼ इति प्रथमैकवचनम्। अस्यार्थः—ण्यत्-प्रत्ययः भवति। सूत्रस्य अर्थवोधार्थमत्र ʻधातोःʼ इति अधिकारसूत्रम् अनुवर्तते। सूत्रस्थः ऋकारः हल् चेति ʻधातोःʼ इत्यस्य विशेषणम्। तस्मात् ʻयेन विधिस्तदन्तस्यʼ इत्यनया परिभाषया तत्र तदन्तविधिः। तेन ऋवर्णान्तात् हलन्तात् च इत्यर्थः लभ्यते।
सूत्रार्थः--  ऋवर्णान्तात् हलन्तात् च धातोः ण्यत् स्यात्।         
ʻण्यत्ʼ इत्यस्य अन्त्यः तकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻआदिः णकारः ʻचुटूʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः भवति। तेन यकारः अवशिष्यते।
उदाहरणम्—कृ + ण्यत् –कार्यम्।
ऋ ण्यत् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻकृʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻऋहलोर्ण्यत्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः कृ-धातोरुत्तरं ण्यत्-प्रत्ययः),
>  कृ य (ʻण्यत्ʼ इत्यस्य अन्त्यः तकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻआदिः णकारः ʻचुटूʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> क् आर् य (ʻण्यत्ʼ-प्रत्ययस्य णकारः इत्, अतः णित्, तस्मिन् परतः ʻअचो ञ्णितिʼ इत्यनेन सूत्रेण कृ-धातोः ऋकारस्य वृद्धिः, ʻउरण् रपरःʼ इत्यनेन रपरः ʻआर्ʼ),
> कार्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> कार्य सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> कार्य अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् सु-स्थाने अमादेशः),
>  कार्यम्  (ʻकार्यʼ इत्यस्य यकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻ कार्यम्ʼ इति रूपं सिद्धम्)।

९. ण्वुल्तृचौ—३।१।१३३
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् ण्वुल् तृच् चेति प्रत्यय-विषयकं विधिसूत्रम्। सूत्रे ʻण्वुल्तृचोʼ इति प्रथमा-द्विवचनम्। सूत्रस्य अर्थवोधार्थमत्र ʻधातोःʼ इति अधिकारसूत्रम् अनुवर्तते। तेन पूर्णाङ्गं सूत्रं जायते-- ʻधातोः ण्वुल्तृचौʼ।
सूत्रार्थः--  धातोरुत्तरं ण्वुल् तृच् चेति प्रत्ययद्वयं भवति।                                                                                  ʻकर्तरि कृत्ʼ इत्यनेन सूत्रेण कत्रर्थे ण्वुल्तृचौ भवतः।
ण्वुल्-प्रत्ययस्य अन्त्यः लकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻआदिः णकारः ʻचुटूʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः भवति। तेन ʻयुʼ इत्यवशिष्यते। तृचः अन्त्यः चकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः भवति। तेन ʻतृʼ इत्यवशिष्यते।
उदाहरणम्—कृ + तृच् ---कर्ता।
कृ तृच् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻकृʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻण्वुल्तृचौʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः कृ-धातोरुत्तरं तृच्-प्रत्ययः),
> कृ तृ (तृचः अन्त्यः चकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> कर् तृ (आर्धधातुके तृचि परे ʻसार्वधातुकार्धधातुकयोःʼ इत्यनेन सूत्रेण गुणादेशः, ʻउरण् रपरःʼ इति रपरः अर्),
> कर्तृ (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> कर्तृ सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> कर्तृ स् (ʻसुʼ इत्यस्य उकारः अनुबन्धतोपः),
> कर्त् अनङ् स् (ʻऋदुशनस्पुरुदंसोऽनेहसां चʼ  इत्यनेन सूत्रेण असम्बुद्धौ सौ परे ʻकर्तृʼ इत्यस्य ऋकार-स्थाने ʻअनङ्ʼ इत्यादेशः),
> कर्त् अन् स् (अनङः नकारोत्तरवर्तिनः अकारः उच्चारणार्थः, अन्त्यः ङकारः इत्संज्ञकः),
> कर्तन् स् (अज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्परसंयोगः),
> कर्तान् स् (ʻअप्-तृन्-तृच्---ʼ इत्यनेन सूत्रेण असम्बुद्धौ सर्वनामस्थाने सौ परे तृच्-प्रत्ययान्तस्य ʻकर्तन्ʼ इत्यस्य उपधाभूतस्य अकारस्य दीर्घादेशः),
> कर्तान् (ʻहल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्ʼ इत्यनेन सूत्रेण अपृक्तस्य हलः सकारस्य लोपः),
> कर्ता (ʻनलोपः प्रातिपदिकान्तस्यʼ इत्यनेन सूत्रेण नकारलोपे ʻकर्ताʼ इति पदं सिद्धम्)।
एवम्—कृ + ण्वुल् > कारकः।

१०. युवोरनाकौ—७।१।१
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् ʻअनʼ, ʻअकʼ चेति आदेश-विषयकं विधिसूत्रम्। सूत्रस्य पदच्छेदः—युवोः अनाकौ। सूत्रे ʻयुवोःʼ इति षष्ठी-द्विवचनम्। ʻअनाकौʼ इति प्रथमा-द्विवचनम्।
सूत्रार्थः—ʻयुवुʼ एतयोः ʻअनाकौʼ इत्यादेशौ स्तः।
ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया आदेशद्वयं क्रमानुसारेण भवति। अर्थात् यु-स्थाने ʻअनʼ इत्यादेशः,  ʻवुʼ-स्थाने च ʻअकʼ इत्यादेशः भवतः।
ʻअनʼ, ʻअकʼ चेति आदेशद्वयम् अनेकवर्णविशिष्टम्, अतः ʻअनेकाल्शित्सर्वस्यʼ इत्यनया परिभाषया सम्पूर्ण-स्थाने एव भवति।
उदाहरणम्—कृ + ण्वुल् –कारकः।
कृ ण्वुल् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻकृʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻण्वुल्तृचौʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः कृ-धातोरुत्तरं ण्वुल्-प्रत्ययः),
>  कृ वु (ʻण्वुल्ʼ इत्यस्य अन्त्यः लकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻआदिः णकारः ʻचुटूʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
>  कृ अक (ʻयुवोरनाकौʼ इत्यनेन सूत्रेण वु-स्थाने ʻअकʼ इत्यादेशः),
> क् आर् अक (ʻण्वुल्ʼ-प्रत्ययस्य णकारः इत्, अतः णित्, तस्मिन् परतः ʻअचो ञ्णितिʼ इत्यनेन सूत्रेण कृ-धातोः ऋकारस्य वृद्धिः, ʻउरण् रपरःʼ इत्यनेन रपरः ʻआर्ʼ),
> कारक (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> कारक सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> कारकस् (ʻसुʼ इत्यस्य उकारः अनुबन्धलोपः),
> कारकरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                                       
> कारकर् (ʻरुʼ इत्यस्य उकारः अनुबन्धलोपः),
> कारकः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻकारकर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻकारकःʼ इति रूपं सिद्धम्)।

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1