ads

ad

3rd sem, C-7, तद्धित-पदसाधनम्-2



3rd sem,  C-7, तद्धित-पदसाधनम्-2

१०. सभ्यः
ʻसभायां साधुःʼ  इत्यर्थे
सभा ङि य (ʻसभाया यःʼ इत्यनेन सूत्रेण सप्तम्यन्तात् प्रातिपदिकात् ʻसभाʼ इत्यस्मात् उत्तरं य-प्रत्ययः),
>  सभा य (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻसभा ङि यʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ  इत्यनेन सूत्रेण सुप्-ङि-लोपः),
> सभ् य (ʻयचि भम्ʼ इत्यनेन सूत्रेण यकारादौ य-प्रत्यये परे ʻसभाʼ इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ इत्यनेन सूत्रेण तस्य अन्त्य आकार-लोपः),
>  सभ्य  (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> सभ्य सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्                      ʻसभ्यʼ  इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> सभ्यस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),    
> सभ्यरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                             > सभ्यर्  (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),   
> सभ्यः  (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻसभ्यर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻसभ्यःʼ इति रूपं सिद्धम्)।

१२. वैनतेयः
ʻविनताया अपत्यं पुमान्ʼ इति विग्रहे—
विनता ङस् ढक् (ʻस्त्रीभ्यो ढक्ʼ इत्यनेन सूत्रेण षष्ठ्यन्तात् प्रातिपदिकात् ʻविनताʼ इत्यस्मात् उत्तरम् ढक्-प्रत्ययः),
>  विनता ढक् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻविनता ङस् ढक्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ  इत्यनेन सूत्रेण सुप्-ङस्-लोपः),
> विनता ढ (ʻहलन्त्यम्ʼ इत्यनेन ढक्-प्रत्ययस्य अन्त्यः ककारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> विनता एय् अ (ʻआयनेयीनीयियः फ ढ ख छ घां प्रत्ययादीनाम्ʼ  इत्यनेन सूत्रेण ढ्-स्थाने ʻएय्ʼ इत्यादेशः),
>  वैनता एय् अ (ʻकिति चʼ इत्यनेन सूत्रेण ʻविनताʼ इत्यस्य आदिभूतस्य इकारस्य वृद्धिः, ʻवृद्धिरादैच्ʼ इत्यनेन आ, ऐ, औ इत्येतेषां वृद्धिसंज्ञा, ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया तालुस्थानसाम्यात् ऐकारः),
>  वैनत् एय् अ (ʻयस्येति चʼ इत्यनेन सूत्रेण भसंज्ञकस्य ʻवैनताʼ इत्यस्य अन्त्य आकार-लोपः),
>  वैनतेय  (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> वैनतेय सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्                  ʻवैनतेयʼ  इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> वैनतेयस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
> वैनतेयरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                              > वैनतेयर्  (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
> वैनतेयः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻवैनतेयर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻवैनतेयःʼ इति रूपं सिद्धम्)।

१३. लघिष्ठः
ʻअयमेषाम् अतिषयेन लघुःʼ इत्यर्थे
लघु सु इष्ठन् (ʻअतिशायने तमबिष्ठनौʼ इत्यनेन सूत्रेण प्रथमान्तात् ʻलघुʼ इत्यस्मात् उत्तरम् इष्ठन्-प्रत्ययः),
> लघु इष्ठन् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻलघु सु इष्ठन्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ  इत्यनेन सूत्रेण सुप्-सु-लोपः),
> लघु इष्ठ (ʻहलन्त्यम्ʼ इत्यनेन इष्ठन्-प्रत्ययस्य अन्त्यः नकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> लघ् इष्ठ (ʻटेःʼ इत्यनेन सूत्रेण इष्ठन्-प्रत्यये परे भसंज्ञकस्य ʻलघुʼ इत्यस्य टेः उकारस्य लोपः),
> लघिष्ठ (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> लघिष्ठ सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्                  ʻलघिष्ठʼ  इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> लघिष्ठस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),    
> लघिष्ठरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                             > लघिष्ठर्  (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),   
> लघिष्ठः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻलघिष्ठर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻलघिष्ठःʼ इति रूपं सिद्धम्)।

१४. लघीयान्
ʻअयम् अनयोः अतिशयेन लघुःʼ इत्यर्थे
लघु ईयसुन् (ʻद्विवचनविभज्योपपदे तरबीयसुनौʼ इत्यनेन सूत्रेण प्रथमान्तात् ʻलघुʼ इत्यस्मात् उत्तरम् ईयसुन्-प्रत्ययः),
> लघु ईयसुन् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻलघु सु ईयसुन्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ  इत्यनेन सूत्रेण सुप्-सु-लोपः),
> लघु ईयस् (ईयसुन्-प्रत्ययस्य उकारः उच्चारणार्थः, अन्त्यः नकारः (न्) ʻहलन्त्यम्ʼ इत्यनेन इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> लघ् ईयस् (ʻटेःʼ इत्यनेन सूत्रेण ईयसुन्-प्रत्यये परे भसंज्ञकस्य ʻलघुʼ इत्यस्य टेः उकारस्य लोपः),
> लघीयस् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> लघीयस् सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्                   ʻलघीयस्ʼ  इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> लघीयस् स् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),    
> लघीय नुम् स् स् (ʻउगिदचां सर्वनामस्थानेऽधातोःʼ इत्यनेन सूत्रेण सर्वनामस्थाने सौ परे ʻलघीयस्ʼ इत्यस्य नुम्-आगमः, नुमः मकारः इत्, अतः मित्, तस्मात् ʻमिदचोऽन्त्यात्परःʼ इत्यनया परिभाषया अन्त्यस्य अचः अन्तावयवः),
> लघीयन्स् स् (नुमः उकारः उच्चारणार्थः, अन्त्यः मकारः ʻहलन्त्यम्ʼ इत्यनेन इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> लघीयान्स् स् (ʻसान्तमहतः संयोगस्यʼ इत्यनेन सूत्रेण सम्बुद्धिभिन्ने सर्वनामस्थाने सौ परे सकारान्त-संयोगस्य ʻलघीयान्स्ʼ इत्यस्य नकारस्य उपधाभूतस्य अकारस्य दीर्घादेशः),
> लघीयान्स् (ʻहल्ङ्याब्भो दीर्घात् सुतिस्यपृक्तं हल्ʼ इत्यनेन सूत्रेण अपृक्तसंज्ञकस्य हलः सकारस्य लोपः),
> लघीयान् (ʻसंयोगान्तस्य लोपःʼ इत्यनेन सूत्रेण संयोगान्यस्य सकारस्य लोपे ʻलघीयान्ʼ इति पदं सिद्धम्)।

१५. श्रेष्ठः
ʻअयम् एषाम् अतिशयेन प्रशस्यःʼ इत्यर्थे
प्रशस्य सु इष्ठन् (ʻअतिशायने तमबिष्ठनौʼ इत्यनेन सूत्रेण प्रथमान्तात् ʻप्रशस्यʼ इत्यस्मात् उत्तरम् इष्ठन्-प्रत्ययः),
> प्रशस्य इष्ठन् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻप्रशस्य सु इष्ठन्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ  इत्यनेन सूत्रेण सुप्-सु-लोपः),
> प्रशस्य इष्ठ (ʻहलन्त्यम्ʼ इत्यनेन इष्ठन्-प्रत्ययस्य अन्त्यः नकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> श्र इष्ठ (ʻप्रशस्य श्रःʼ इत्यनेन सूत्रेण ʻप्रशस्य-स्थाने ʻश्रʼ इत्यादेशः),
> श्रेष्ठ (ʻआद्गुणःʼ इत्यनेन सूत्रेण पूर्वपरयोः एकार-गुणादेशः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> श्रेष्ठ सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻश्रेष्ठʼ  इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> श्रेष्ठस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),    
> श्रेष्ठरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                            > श्रेष्ठर्  (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),    
> श्रेष्ठः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻश्रेष्ठर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻश्रेष्ठःʼ इति रूपं सिद्धम्)।

१६. ज्येष्ठः
ʻअयम् एषाम् अतिशयेन प्रशस्यःʼ  इत्यर्थे
प्रशस्य सु इष्ठन् (ʻअतिशायने तमबिष्ठनौʼ इत्यनेन सूत्रेण प्रथमान्तात् ʻप्रशस्यʼ इत्यस्मात् उत्तरम् इष्ठन्-प्रत्ययः),
> प्रशस्य इष्ठन् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻप्रशस्य सु इष्ठन्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ  इत्यनेन सूत्रेण सुप्-सु-लोपः),
> प्रशस्य इष्ठ (ʻहलन्त्यम्ʼ इत्यनेन इष्ठन्-प्रत्ययस्य अन्त्यः नकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> ज्य इष्ठ (ʻज्य चʼ इत्यनेन सूत्रेण ʻप्रशस्य-स्थाने ʻज्यʼ इत्यादेशः),
> ज्येष्ठ (ʻआद्गुणःʼ इत्यनेन सूत्रेण पूर्वपरयोः एकार-गुणादेशः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> ज्येष्ठ सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्                    ʻज्येष्ठʼ  इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> ज्येष्ठस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),    
> ज्येष्ठरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                            > ज्येष्ठर्  (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),    
> ज्येष्ठः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻज्येष्ठर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻज्येष्ठःʼ इति रूपं सिद्धम्)।

१७. ज्यायान्
ʻअयम् अनयोः अतिशयेन प्रशस्यःʼ इत्यर्थे
प्रशस्य सु ईयसुन् (ʻद्विवचनविभज्योपपदे तरबीयसुनौʼ इत्यनेन सूत्रेण प्रथमान्तात् ʻप्रशस्यʼ इत्यस्मात् उत्तरम् ईयसुन्-प्रत्ययः),
> प्रशस्य ईयसुन् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻप्रशस्य सु ईयसुन्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ  इत्यनेन सूत्रेण सुप्-सु-लोपः),
> प्रशस्य ईयस् (ईयसुन्-प्रत्ययस्य उकारः उच्चारणार्थः, अन्त्यः नकारः (न्) ʻहलन्त्यम्ʼ इत्यनेन इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> ज्य ईयस् (ʻज्य चʼ इत्यनेन सूत्रेण ʻप्रशस्य-स्थाने ʻज्यʼ इत्यादेशः),
> ज्य आयस् (ʻज्यादादीयसःʼ इत्यनेन सूत्रेण, तथा ʻआदेः परस्यʼ इत्यनया परिभाषया ईयसः ईकार-स्थाने आकारादेशः),
> ज्यायस् (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः, ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> ज्यायस् सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्                  ʻज्यायस्ʼ  इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> ज्यायस् स् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),    
> ज्याय नुम् स् स् (ʻउगिदचां सर्वनामस्थानेऽधातोःʼ इत्यनेन सूत्रेण सर्वनामस्थाने सौ परे ʻज्यायस्ʼ इत्यस्य नुम्-आगमः, नुमः मकारः इत्, इतः मित्, तस्मात् ʻमिदचोऽन्त्यात्परःʼ इत्यनया परिभाषया अन्त्यस्य अचः अन्तावयवः),
> ज्यायन्स् स् (नुमः उकारः उच्चारणार्थः, अन्त्यः मकारः ʻहलन्त्यम्ʼ इत्यनेन इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> ज्यायान्स् स् (ʻसान्तमहतः संयोगस्यʼ इत्यनेन सूत्रेण सम्बुद्धिभिन्ने सर्वनामस्थाने सौ परे सकारान्त-संयोगस्य ʻज्यायान्स्ʼ इत्यस्य नकारस्य उपधाभूतस्य अकारस्य दीर्घादेशः),
> ज्यायान्स् (ʻहल्ङ्याब्भो दीर्घात् सुतिस्यपृक्तं हल्ʼ इत्यनेन सूत्रेण अपृक्तसंज्ञकस्य हलः सकारस्य लोपः),
> ज्यायान् (ʻसंयोगान्तस्य लोपःʼ इत्यनेन सूत्रेण संयोगान्यस्य सकारस्य लोपे ʻज्यायान्ʼ इति पदं सिद्धम्)।

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—