ads

ad

3rd sem, C-7, लघुसिद्धामुतकौमुदी, कृदन्तप्रकरणम्—सूत्रव्याख्याः-3


3rd sem, C-7, unit 2, लघुसिद्धामुतकौमुदी, कृदन्तप्रकरणम्—सूत्रव्याख्याः-3

११. कर्मण्यण्—३।२।१
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् अण्-प्रत्यय-विषयकं विधिसूत्रम्। सूत्रस्य पदच्छेदः—कर्मणि अण्। सूत्रे ʻकर्मणिʼ इति सप्तम्येकवचनम्। ʻअण्ʼ इति प्रथमैकवचनम्। सूत्रस्य अर्थवोधार्थमत्र ʻधातोःʼ इति अधिकारसूत्रम् अनुवर्तते। तेन पूर्णाङ्गं सूत्रं जायते-- ʻधातोः कर्मण्यण्।ʼ
ʻतत्रोपपदं सप्तमीस्थम्ʼ इति धात्वधिकारे तृतीयाध्याये यत् सप्तमीनिर्दिष्टं पदं तद् उपपदं स्यात्। तेन ʻकर्मणिʼ इति पदम् उपपदसंज्ञकम्।
सूत्रार्थः—कर्मण्युपपदे धातोरण् प्रत्ययः स्यात्।
अण्-प्रत्ययस्य अन्त्यः णकारः इत्संज्ञकः, तस्मात् ह्रस्वः अकारः अवशिष्यते।
उदाहरणम्—कुम्भकारः।
कुम्भम्-कृ अण् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻकृʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻकर्मण्यण्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः कुम्भे उपपदे  कृ-धातोरुत्तरं अण्-प्रत्ययः),
>  कुम्भ अम् कृ अ (अण्-प्रत्ययस्य अन्त्यः णकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
>  कुम्भ कृ अ (ʻउपपदमतिङ्ʼ इत्यनेन सूत्रेण ʻकुम्भ अम् कृ अʼ इत्यस्य समाससंज्ञा, तथा प्रातिपदिकत्वात् ʻसुपो धातुप्रातिपदिकयोःʼ इत्यनेन सूत्रेण सुप् अम्-लोपः),
>  कुम्भ कार् अ (अण्-प्रत्ययस्य णकारः इत्, अतः णित्, तस्मिन् परतः ʻअचो ञ्णितिʼ इत्यनेन सूत्रेण कृ-धातोः ऋकारस्य वृद्धिः, ʻउरण् रपरःʼ इत्यनेन रपरः ʻआर्ʼ),
>  कुम्भकार (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
>  कुम्भकार सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  कुम्भकारस् (ʻसुʼ इत्यस्य उकारः अनुबन्धलोपः),
>  कुम्भकाररु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                          >  कुम्भकारर् (ʻरुʼ इत्यस्य उकारः अनुबन्धलोपः),
>  कुम्भकारः  (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻ कुम्भकारर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻकुम्भकारःʼ इति रूपं सिद्धम्)।

१२. प्रियवशे वदः खच्—३।२।३८
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् खच्-प्रत्यय-विषयकं विधिसूत्रम्। सूत्रे ʻप्रियवशेʼ इति सप्तम्येकवचनम्। ʻवदःʼ इति पञ्चम्येकवचनम्। ʻखच्ʼ इति प्रथमैकवचनम्। सूत्रस्य अर्थवोधार्थमत्र ʻधातोःʼ इति अधिकारसूत्रम्, तथा ʻकर्मण्यण्ʼ इत्यस्मात् सूत्रात् सप्तम्यन्तं ʻकर्मणिʼ इति पदम् अनुवर्तेते। तेन पूर्णाङ्गं सूत्रं जायते-- ʻप्रियवशे कर्मणि वदः धातोः खच्।ʼ
सूत्रार्थः—प्रियवशे कर्मणि उपपदे वदः धातोः उत्तरं खच्-प्रत्ययः स्यात्।
खच्-प्रत्ययस्य अन्त्यः चकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻआदिः खकारः(ख्) ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः भवति। तस्मात् अकारः अवशिष्यते।
उदाहरणम्—प्रियंवदः। वशंवदः।
प्रियंवदः-- ʻप्रियं वदतिʼ इति विग्रहे,
प्रियम्-वद् खच् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻवद्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रियवशे वदः खच्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रिये उपपदे  वद्-धातोरुत्तरं खच्-प्रत्ययः),
>  प्रिय अम् वद् अ (खच्-प्रत्ययस्य अन्त्यः चकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻआदिः खकारः(ख्) ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> प्रिय वद् अ (ʻउपपदमतिङ्ʼ इत्यनेन सूत्रेण ʻप्रिय अम् वद् अʼ इत्यस्य समाससंज्ञा, तथा प्रातिपदिकत्वात् ʻसुपो धातुप्रातिपदिकयोःʼ इत्यनेन सूत्रेण सुप् अम्-लोपः),
> प्रिय मुम् वद् अ (ʻअरुर्द्विषदजन्तस्य मुम्ʼ इत्यनेन सूत्रेण अजन्तस्य ʻप्रियʼस्य मुमागमः, मुमः अन्त्यः मकारः इत्, अतः मित्, तस्मात् ʻमिदचोऽन्त्यात्परःʼ इत्यनया परिभाषया  प्रियस्य यकाराद् अकारस्य अवयवः),
> प्रियम् वद् अ (ʻमुम्ʼ इत्यस्य उकारः उच्चारणार्थः, अन्त्यः मकारः इत्संज्ञकः),
>  प्रियं वद् अ (ʻमोऽनुस्वारःʼ इत्यनेन सूत्रेण मकार-स्थाने अनुस्वारादेशः),
> प्रियंवद (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
>  प्रियंवद सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  प्रियंवदस् (ʻसुʼ इत्यस्य उकारः अनुबन्धलोपः),
>  प्रियंवदरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                            >  प्रियंवदर् (ʻरुʼ इत्यस्य उकारः अनुबन्धलोपः),
>  प्रियंवदः  (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻप्रियंवदर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻप्रियंवदःʼ इति रूपं सिद्धम्)।
एवम्—वशंवदः।

१३. सप्तम्यां जनेर्डः—३।२।९७
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् ड-प्रत्यय-विषयकं विधिसूत्रम्। सूत्रस्य पदच्छेदः—सप्तम्याम्  जनेः डः। सूत्रे ʻसप्तम्याम्ʼ इति सप्तम्येकवचनम्। ʻजनेःʼ इति पञ्चम्येकवचनम्। ʻडःʼ इति प्रथमैकवचनम्। सूत्रस्य अर्थवोधार्थमत्र ʻधातोःʼ इति अधिकारसूत्रम् अनुवर्तते। तेन पूर्णाङ्गं सूत्रं जायते—         ʻसप्तम्यां जनेः धातोः डः।ʼ
सूत्रार्थः—सप्तम्यन्ते उपपदे जनेः धातोः डः प्रत्ययः भवति।
ड-प्रत्ययस्य आदिः डकारः (ड्) ʻचुटूʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः भवति, तस्मात् ह्रस्वः अकारः अवशिष्यते।
उदाहरणम्—सरसिजम्।
ʻसरसि जायते यत् तत्ʼ विग्रहे—
सरस् ङि  जन् ड (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻजन्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻसप्तम्यां जनेर्डःʼ ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः ʻसरस् ङिʼ इति सप्तम्यन्ते उपपदे  जन्-धातोरुत्तरं ड-प्रत्ययः),
>  सरस् ङि  जन् अ (ड-प्रत्ययस्य आदिः डकारः (ड्) ʻचुटूʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> सरस् ङि  ज् अ (ʻभस्य टेर्लोपःʼ इत्यनेन सूत्रेण जन्-धातोः ʻअन्ʼ इति टि-भागस्य लोपः),
> सरस् इ ज् अ (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻङिʼ इत्यस्य ङकारः इत्, ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> सरसिज (ʻतत्पुरुषे कृति बहुलम्ʼ इत्यनेन सूत्रेण सप्तम्यन्तस्य विकल्पेन लोप-निषेधः, ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> सरसिज सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  सरसिज अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् सु-स्थाने अमादेशः),
>  सरसिजम्  (ʻसरसिजʼ इत्यस्य जकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻ सरसिजम्ʼ इति रूपं सिद्धम्)।

१४. तत्पुरुषे कृति बहुलम्—६।३।१४
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् तत्पुरुषसमासे सप्तमीविभक्तेः विकल्पेन अलुक्-विषयकं विधिसूत्रम्। सूत्रे ʻतत्पुरुषेʼ, ʻकृतिʼ चेति पदद्वये सप्तम्येकवचनम्। ʻबहुलम्ʼ इति प्रथमैकवचनम्। सूत्रस्य अर्थवोधार्थमत्र ʻधातोःʼ, ʻअलुगुत्तरपदेʼ चेति अधिकारसूत्रद्वयम्, तथा ʻहलदन्तात् सप्तम्याः संज्ञायाम्ʼ इत्यस्मात् सूत्रात् ʻसप्तम्याःʼ इति पदम् अनुवर्तन्ते। तेन पूर्णाङ्गं सूत्रं जायते—               
 ʻतत्पुरुषे कृति उत्तरपदे बहुलम् सप्तम्याः अलुक्।ʼ
सूत्रार्थः—तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुक् भवति।
सूत्रस्थं ʻकृतिʼ इति पदम् ʻउत्तरपदेʼ इत्यस्य विशेषणम्, तस्मात् तत्र तदन्तविधिः। ʻअलुक्ʼ इत्यस्य अर्थः—न लुक्, अर्थात् लोपः न भवति। ʻबहुलम्ʼ इत्यस्य अर्थः—क्वचित् सप्तम्याः लुक् भवति, क्वचित् न भवति, क्वचित् विकल्पेन भवति, क्वचित् अन्यत् वा भवति। अतः लोपपक्षे लोपोभावपक्षे च रूपद्वयं भवति।
उदाहरणम्—लोपोभावपक्षे—सरजसजम्। लोपपक्षे—सरोजम्।
सरसिजम्-- ʻसरसि जायते यत् तत्ʼ विग्रहे—
सरस् ङि  जन् ड (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻजन्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻसप्तम्यां जनेर्डःʼ ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः ʻसरस् ङिʼ इति सप्तम्यन्ते उपपदे  जन्-धातोरुत्तरं ड-प्रत्ययः),
>  सरस् ङि  जन् अ (ड-प्रत्ययस्य आदिः डकारः अनुबन्धलोपः),
> सरस् ङि  ज् अ (ʻभस्य टेर्लोपःʼ इत्यनेन सूत्रेण जन्-धातोः ʻअन्ʼ इति टि-भागस्य लोपः),
> सरस् इ ज् अ (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻङिʼ इत्यस्य ङकारः इत्, ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> सरसिज (ʻतत्पुरुषे कृति बहुलम्ʼ इत्यनेन सूत्रेण सप्तम्यन्तस्य विकल्पेन लोप-निषेधः, ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> सरसिज सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  सरसिज अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण सु-स्थाने अमादेशः),
>  सरसिजम्  (ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻसरसिजम्ʼ इति रूपं सिद्धम्)।
लोपपक्षे—सरोजम्।
सरस् ङि  जन् ड (ʻसप्तम्यां जनेर्डःʼ),
>  सरस् ङि  जन् अ (आदिः डकारः अनुबन्धलोपः),
> सरस् ङि  ज् अ (ʻभस्य टेर्लोपःʼ),
> सरस् ज् अ (ʻतत्पुरुषे कृति बहुलम्ʼ इति सप्तम्याः विकल्पेन लोपः),
> सररु ज् अ (ससजुषो रुः),
> सरर् ज् अ (अनुबन्धलोप),
> सर उ ज् अ (ʻहशि चʼ इत्यनेन रकार-स्थाने उकारादेशः),
> सरोज् अ (आद्गुणःʼ इत्यनेन गुणादेशः),
> सरोज (ʻअज्झीनं परेण संयोज्यम्ʼ, ʻएकदेशविकृतमनन्यवत्ʼ इति प्रातिपदिकसंज्ञा),
> सरोज सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ),
>  सरसिज अम् (ʻअतोऽम्ʼ),
>  सरसिजम्  (ʻअमि पूर्वःʼ )।

१५. पचो वः—८।२।५२
पाणिनीयं सूत्रमिदं लघुसिद्धान्तकौमुद्याः कृदन्तप्रकरणान्तर्गतम् निष्ठासंज्ञक-प्रत्ययस्य तकार-स्थाने वकारादेश-विषयकं विधिसूत्रम्। सूत्रस्य पदच्छेदः—पचः वः। सूत्रे ʻपचःʼ इति पञ्चम्येकवचनम्। ʻवःʼ इति प्रथमैकवचनम्। सूत्रस्य अर्थवोधार्थमत्र ʻधातोःʼ, इति अधिकारसूत्रम्, तथा ʻरदाभ्यां निष्ठातो नः पूर्वस्य च दःʼ इत्यस्मात् सूत्रात् ʻनिष्ठातःʼ इति पदम् अनुवर्तेते। तस्मात् पूर्णाङ्गं सूत्रं भवति--                            ʻपचः धातोः निष्ठातः वः।ʼ
सूत्रार्थः—पच्-धातोः उत्तरस्य निष्ठा-तकारस्य वकारादेशः भवति।
उदाहरणम्—पक्वः।
पच् क्त (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻपच्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻनिष्ठाʼ च इत्येतैः सूत्रैः पच्-धातोरुत्तरं क्त-प्रत्ययः),
>  पच् त (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻक्तʼ इत्यस्य ककारः इत्, ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> पच् व (ʻपचो वःʼ इत्यनेन सूत्रेण क्तस्य तकार-स्थाने वकारादेशः),
> पक् व (ʻचो कुःʼ इत्यनेन सूत्रेण झलि वकारे परे चकार-स्थाने ककारादेशः),
> पक्व (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> पक्व सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ इत्यादिभिः सूत्रैः  पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  पक्व स् (ʻसुʼ इत्यस्य उकारः अनुबन्धलोपः),
>  पक्वरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                            >  पक्वर् (ʻरुʼ इत्यस्य उकारः अनुबन्धलोपः),
>  पक्वः  (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻपक्वर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻपक्वःʼ इति रूपं सिद्धम्)।


Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1