3rd Sem, C-7, Unit-I, लघुसिद्धान्तकौमुदी (पदसाधनम्—राम--प्रथमा---तृतीया)
3rd Sem, C-7, Unit-I,
लघुसिद्धान्तकौमुदी
(पदसाधनम्—राम--प्रथमा---तृतीया)
१. रामः-- ʻरामʼ इति
प्रातिपदिकस्य प्रथमैकवचनस्य रूपम्।
राम सु (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> रामस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), > रामरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः), > रामर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> रामः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻरामर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻरामःʼ इति रूपं सिद्धम्)।

२. रामौ-- ʻरामʼ इति प्रातिपदिकस्य प्रथमाद्विचनस्य रूपम्। राम औ (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमाद्विवचने औ-विभक्तिः), > रामौ (प्रथमाविभक्तेः अचि औकारे परे ʻप्रथमयोः पूर्वसवर्णःʼ इत्यनेन सूत्रेण पूर्वसवर्णदीर्घे एकादेशे प्राप्ते, ʻनादिचिʼ इत्यनेन तस्य निषेधः, ततः ʻवृद्धिरेचिʼ इत्यनेन सूत्रेण पूर्वपरयोः अकार-औकारयोः औकार-वृद्धिरेकादेशे ʻरामौʼ इति रूपं सिद्धम्)।
३. रामाः-- ʻरामʼ इति
प्रातिपदिकस्य प्रथमा-बहुवचनस्य रूपम्।
राम जस् (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमाबहुवचने जस्-विभक्तिः), > राम अस् (ʻचुटूʼ इत्यनेन सूत्रेण ʻजस्ʼ इत्यस्य आदिः जकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः, ʻहलन्त्यम्ʼ इत्यनेन ʻजस्ʼ इत्यस्य सकारस्य इत्संज्ञायां ʻन विभक्तौ तुस्माःʼ इत्यनेन तस्य निषेधः), > रामास् (ʻप्रथमयोः पूर्वसवर्णःʼ इत्यनेन पूर्वपरयोः सवर्णदीर्घः आकारः एकादेशः), > रामारु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकार-स्थाने इत्यादेशः),

> रामार् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
>
रामाः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻरामार्ʼ इत्यस्य रकारस्य
अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ
इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻरामाःʼ इति रूपं सिद्धम्)।
४. रामम्-- ʻरामʼ इति प्रातिपदिकस्य द्वितीयैकवचनस्य रूपम्। राम अम् (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ
इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे द्वितीयैकवचने अम्-विभक्तिः),
> रामम् (ʻरामʼ इत्यस्य मकारोत्तरवर्तिनः अकः अकारात्
अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻरामम्ʼ इति
रूपं सिद्धम्)।
५. रामौ-- ʻरामʼ इति
प्रातिपदिकस्य द्वितीया-द्विचनस्य रूपम्। राम औट् (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ
इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे द्वितीयोद्विवचने औट्-विभक्तिः), > राम औ (ʻहलन्त्यम्ʼ
इत्यनेन सूत्रेण औट् इत्यस्य टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), > रामौ (ʻप्रथमयोः
पूर्वसवर्णःʼ इत्यनेन सूत्रेण पूर्वसवर्णदीर्घे एकादेशे प्राप्ते, ʻनादिचिʼ इत्यनेन तस्य विषेधः, ततः ʻवृद्धिरेचिʼ इत्यनेन
सूत्रेण पूर्वपरयोः अकार-औकारयोः औकार-वृद्धिरेकादेशे ʻरामौʼ इति रूपं सिद्धम्)।
६. रामान्-- ʻरामʼ इति प्रातिपदिकस्य द्वितीया-बहुवचनस्य रूपम्।
राम शस् (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण पुंलिङ्गे द्वितीया-बहुवचने शस्-विभक्तिः), > राम अस् (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻशस्ʼ इत्यस्य आदिः शकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः, ʻहलन्त्यम्ʼ इत्यनेन ʻशस्ʼ इत्यस्य सकारस्य इत्संज्ञायां ʻन विभक्तौ तुस्माःʼ इत्यनेन तस्य निषेधः),

> रामास् (ʻप्रथमयोः
पूर्वसवर्णःʼ इत्यनेन पूर्वपरयोः अकार-द्वयोः सवर्णदीर्घः आकारः एकादेशः),
>
रामान् (ʻतस्माच्छसो नः पुंसिʼ इत्यनेन सूत्रेण पूर्वसवर्णदीर्घात् शसः
सकार-स्थाने नकारादेशः, ʻअट्कुप्वाङ्नुम्व्यवायेऽपिʼ इत्यनेन सूत्रेण नकार-स्थाने णकारादेशे प्राप्ते,
ʻपदान्तस्यʼ इत्यनेन तस्य निषेधे ʻरामान्ʼ इति रूपं सिद्धम्)।
७. रामेण-- ʻरामʼ इति प्रातिपदिकस्य तृतीयैकवचनस्य रूपम्।
राम टा (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ
इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे तृतीयैकवचने टा-विभक्तिः),
>
राम इन (ʻटा-ङसि-ङसामिनात्स्याःʼ
इत्यनेन सूत्रेण अकारान्तात् ʻरामʼ इत्यस्मात् टा-स्थाने ʻइनʼ इत्यादेशः), > रामेन (ʻआद्गुणःʼ इत्यनेन सूत्रेण पूर्वपरयोः अकार-इकारयोः
एकार-गुणादेशः), > रामेण (रकारात्
अट्-प्रत्याहारस्य आकार-मकार-एकार-व्यवधाने
ʻअट्कुप्वाङ्नुम्व्यवायेऽपिʼ इत्यनेन सूत्रेण नकार-स्थाने णकारादेशे ʻरामेणʼ
इति रूपं सिद्धम्।
८. रामाभ्याम्-- ʻरामʼ इति प्रातिपदिकस्य तृतीया-द्विवचनस्य /
चतुर्थी-द्विवचनस्य / पञ्चमी-द्विवचनस्य रूपम्।
राम
भ्याम् (ʻअर्थवदधातुरप्रत्ययः
प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद्
उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे तृतीया-द्विवचने / चतुर्थी-द्विवचने / पञ्चमी-द्विवचने भ्याम्-विभक्तिः), > रामाभ्याम् (ʻयञादौ सुपि ʻभ्याम्ʼ इति परतः ʻसुपि चʼ इत्यनेन
सूत्रेण रामस्य मकारोत्तरवर्तिनः अकारस्य स्थाने आकार-दीर्घादेशे ʻरामाभ्याम्ʼ इति
रूपं सिद्धम्)।
९. रामैः-- ʻरामʼ इति प्रातिपदिकस्य तृतीया-बहुवचनस्य रूपम्।
राम
भिस् (ʻअर्थवदधातुरप्रत्ययः
प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद्
उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण पुंलिङ्गे
तृतीया-बहुवचने भिस्-विभक्तिः),
> राम ऐस् (ʻअतो भिस ऐस्ʼ इत्यनेन सूत्रेण ʻरामʼ इति अकारान्तात्
शब्दात् परम् तृतीयाबहुवचने भिसः स्थाने ऐस् इत्यादेशः), > रामैस् (ʻऐस्ʼ इत्यस्य अन्त्यस्य हलः सकारस्य
इत्संज्ञाप्राप्तौ ʻन विभक्तौ तुस्माःʼ इत्यनेन तस्य निषेधे ʻवृद्धिरेचिʼ इत्यनेन
सूत्रेण पूर्वपरयोः ऐकारः वृद्धिरेकादेशः), > रामैरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः), > रामैर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
>
रामैः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻरामैर्ʼ इत्यस्य रकारस्य
अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ
इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻरामैःʼ इति रूपं सिद्धम्)।
Comments