ads

ad

3rd sem, C-7, Unit-II, कृदन्त-पदसाधनम्-2



3rd sem, C-7, Unit-II, कृदन्त-पदसाधनम्-2

१३. कर्ता-- कृ + तृच् ---कर्ता।
कृ तृच् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻकृʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻण्वुल्तृचौʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः कृ-धातोरुत्तरं तृच्-प्रत्ययः),
> कृ तृ (तृचः अन्त्यः चकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> कर् तृ (आर्धधातुके तृचि परे ʻसार्वधातुकार्धधातुकयोःʼ इत्यनेन सूत्रेण गुणादेशः, ʻउरण् रपरःʼ इति रपरः अर्),
> कर्तृ (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> कर्तृ सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻकर्तृʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> कर्तृ स् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                            > कर्त् अनङ् स् (ʻऋदुशनस्पुरुदंसोऽनेहसां चʼ  इत्यनेन सूत्रेण असम्बुद्धौ सौ परे ʻकर्तृʼ इत्यस्य ऋकार-स्थाने ʻअनङ्ʼ इत्यादेशः),
> कर्त् अन् स् (अनङः नकारोत्तरवर्तिनः अकारः उच्चारणार्थः, अन्त्यः ङकारः इत्संज्ञकः),
> कर्तन् स् (अज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्परसंयोगः),
> कर्तान् स् (ʻअप्-तृन्-तृच्---ʼ इत्यनेन सूत्रेण असम्बुद्धौ सर्वनामस्थाने सौ परे तृच्-प्रत्ययान्तस्य ʻकर्तन्ʼ इत्यस्य उपधाभूतस्य अकारस्य दीर्घादेशः),
> कर्तान् (ʻहल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्ʼ इत्यनेन सूत्रेण अपृक्तस्य हलः सकारस्य लोपः),
> कर्ता (ʻनलोपः प्रातिपदिकान्तस्यʼ इत्यनेन सूत्रेण अन्त्य-नकारलोपे ʻकर्ताʼ इति पदं सिद्धम्)।

१४.  कारकः-- कृ + ण्वुल् –कारकः।
कृ ण्वुल् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻकृʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻण्वुल्तृचौʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः कृ-धातोरुत्तरं ण्वुल्-प्रत्ययः),
>  कृ वु (ʻण्वुल्ʼ इत्यस्य अन्त्यः लकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻआदिः णकारः ʻचुटूʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
>  कृ अक (ʻयुवोरनाकौʼ इत्यनेन सूत्रेण वु-स्थाने ʻअकʼ इत्यादेशः),
> क् आर् अक (ʻण्वुल्ʼ-प्रत्ययस्य णकारः इत्, अतः णित्, तस्मिन् परतः ʻअचो ञ्णितिʼ इत्यनेन सूत्रेण कृ-धातोः ऋकारस्य वृद्धिः, ʻउरण् रपरःʼ इत्यनेन रपरः ʻआर्ʼ),
> कारक (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> कारक सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻकारकʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> कारकस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                                                                                     
> कारकरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                           > कारकर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                             > कारकः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻकारकर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻकारकःʼ इति रूपं सिद्धम्)।

१५. कुम्भकारः।
ʻकुम्भं करोतिʼ इति विग्रहे--
कुम्भम्-कृ अण् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻकृʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻकर्मण्यण्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः द्वितीयान्तम् ʻकुम्भम्ʼ इति उपपदे  कृ-धातोरुत्तरं अण्-प्रत्ययः),
>  कुम्भ अम् कृ अ (अण्-प्रत्ययस्य अन्त्यः णकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
>  कुम्भ कृ अ (ʻउपपदमतिङ्ʼ इत्यनेन सूत्रेण ʻकुम्भ अम् कृ अʼ इत्यस्य समाससंज्ञा, तथा प्रातिपदिकत्वात् ʻसुपो धातुप्रातिपदिकयोःʼ इत्यनेन सूत्रेण सुप् अम्-लोपः),
>  कुम्भ कार् अ (अण्-प्रत्ययस्य णकारः इत्, अतः णित्, तस्मिन् परतः ʻअचो ञ्णितिʼ इत्यनेन सूत्रेण कृ-धातोः ऋकारस्य वृद्धिः, ʻउरण् रपरःʼ इत्यनेन रपरः ʻआर्ʼ),
>  कुम्भकार (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
>  कुम्भकार सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्        ʻकुम्भकारʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> कुम्भकारस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
>  कुम्भकाररु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                              >  कुम्भकारर् (ʻरुʼ इत्यस्य उकारः ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
>  कुम्भकारः  (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻ कुम्भकारर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻकुम्भकारःʼ इति रूपं सिद्धम्)।

१६. प्रियंवदः-- ʻप्रियं वदतिʼ इति विग्रहे,
प्रियम्-वद् खच् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻवद्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रियवशे वदः खच्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः ʻप्रियम्ʼ इति कर्मणि उपपदे  वद्-धातोरुत्तरं खच्-प्रत्ययः),
>  प्रिय अम् वद् अ (खच्-प्रत्ययस्य अन्त्यः चकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻआदिः खकारः(ख्) ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> प्रिय वद् अ (ʻउपपदमतिङ्ʼ इत्यनेन सूत्रेण ʻप्रिय अम् वद् अʼ इत्यस्य समाससंज्ञा, तथा प्रातिपदिकत्वात् ʻसुपो धातुप्रातिपदिकयोःʼ इत्यनेन सूत्रेण सुप् अम्-लोपः),
> प्रिय मुम् वद् अ (ʻअरुर्द्विषदजन्तस्य मुम्ʼ इत्यनेन सूत्रेण अजन्तस्य ʻप्रियʼस्य मुमागमः, मुमः अन्त्यः मकारः इत्, अतः मित्, तस्मात् ʻमिदचोऽन्त्यात्परःʼ इत्यनया परिभाषया  प्रियस्य यकाराद् अकारस्य अवयवः),
> प्रियम् वद् अ (ʻमुम्ʼ इत्यस्य उकारः उच्चारणार्थः, अन्त्यः मकारः इत्संज्ञकः),
>  प्रियं वद् अ (ʻमोऽनुस्वारःʼ इत्यनेन सूत्रेण मकार-स्थाने अनुस्वारादेशः),
> प्रियंवद (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
>  प्रियंवद सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻप्रियंवदʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  प्रियंवदस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
>  प्रियंवदरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                             >  प्रियंवदर् (ʻरुʼ इत्यस्य उकारः ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
>  प्रियंवदः  (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻप्रियंवदर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻप्रियंवदःʼ इति रूपं सिद्धम्)।

१७. सरसिजम्।
ʻसरसि जायते यत् तत्ʼ इति विग्रहे—
सरस् ङि  जन् ड (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻजन्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻसप्तम्यां जनेर्डःʼ ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः ʻसरस् ङिʼ इति सप्तम्यन्ते उपपदे  जन्-धातोरुत्तरं ड-प्रत्ययः),
>  सरस् ङि  जन् अ (ड-प्रत्ययस्य आदिः डकारः (ड्) ʻचुटूʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> सरस् ङि  ज् अ (ʻभस्य टेर्लोपःʼ इत्यनेन सूत्रेण जन्-धातोः ʻअन्ʼ इति टि-भागस्य लोपः),
> सरस् इ ज् अ (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻङिʼ इत्यस्य ङकारः इत्, ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> सरसिज (ʻतत्पुरुषे कृति बहुलम्ʼ इत्यनेन सूत्रेण सप्तम्यन्तस्य विकल्पेन लोप-निषेधः, ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> सरसिज सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्  ʻसरसिजʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  सरसिज अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् सु-स्थाने अमादेशः),
>  सरसिजम्  (ʻसरसिजʼ इत्यस्य जकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻसरसिजम्ʼ इति रूपं सिद्धम्)।

१८. सरोजम् -- ʻसरसि जायते यत् तत्ʼ इति विग्रहे—
सरस् ङि  जन् ड (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻजन्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻसप्तम्यां जनेर्डःʼ ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः ʻसरस् ङिʼ इति सप्तम्यन्ते उपपदे  जन्-धातोरुत्तरं ड-प्रत्ययः),
>  सरस् ङि  जन् अ (ड-प्रत्ययस्य आदिः डकारः (ड्) ʻचुटूʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> सरस् ङि  ज् अ (ʻभस्य टेर्लोपःʼ इत्यनेन सूत्रेण जन्-धातोः ʻअन्ʼ इति टि-भागस्य लोपः),
> सरस् ज् अ (ʻतत्पुरुषे कृति बहुलम्ʼ इत्यनेन सूत्रेण सप्तम्यन्तस्य विकल्पेन लोपः),
> सररु ज् अ (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),  
> सरर् ज् अ (ʻरुʼ इत्यस्य उकारः ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
> सर उ ज् अ (ʻहशि चʼ इत्यनेन हशि जकारे परे रकार-स्थाने उकारादेशः),
> सरोज् अ (आद्गुणःʼ इत्यनेन पूर्वपरयोः ओकार-गुणादेशः),
> सरोज (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> सरोज सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻसरोजʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  सरोज अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् सु-स्थाने अमादेशः),
>  सरोजम्  (ʻसरोजʼ इत्यस्य जकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻ सरोजम्ʼ इति रूपं सिद्धम्)।

१९. शुष्कः
शुष् क्त (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻशुष्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻनिष्ठाʼ च इत्येतैः सूत्रैः शुष्-धातोरुत्तरं निष्ठासंज्ञकः क्त-प्रत्ययः),
>  शुष् त (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻक्तʼ इत्यस्य ककारः इत्, ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> शुष् क (ʻशुषः कःʼ इत्यनेन सूत्रेण शुष्-धातोः निष्ठा-तकार-स्थाने ककारादेशः),
> शुष्क (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
>  शुष्क सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻशुष्कʼ  इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  शुष्कस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
>  शुष्करु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                             >  शुष्कर् (ʻरुʼ इत्यस्य उकारः ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
>  शुष्कः  (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻशुष्कर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻशुष्कःʼ इति रूपं सिद्धम्)।

२०. पक्वः
पच् क्त (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻपच्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻनिष्ठाʼ च इत्येतैः सूत्रैः पच्-धातोरुत्तरं क्त-प्रत्ययः),
>  पच् त (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻक्तʼ इत्यस्य ककारः इत्, ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> पच् व (ʻपचो वःʼ इत्यनेन सूत्रेण क्तस्य निष्ठा-तकार-स्थाने वकारादेशः),
> पक् व (ʻचो कुःʼ इत्यनेन सूत्रेण झलि वकारे परे चकार-स्थाने ककारादेशः),
> पक्व (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> पक्व सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्  ʻपक्वʼ  इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  पक्वस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
>  पक्वरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                             >  पक्वर् (ʻरुʼ इत्यस्य उकारः ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
>  पक्वः  (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻपक्वर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻपक्वःʼ इति रूपं सिद्धम्)।

२१. हितम्
धा + क्त (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻधाʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻनिष्ठाʼ च इत्येतैः सूत्रैः धा-धातोरुत्तरं क्त-प्रत्ययः),
>  धा त (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻक्तʼ इत्यस्य ककारः इत्, ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> हि त (ʻदधातेर्हिःʼ इत्यनेन सूत्रेण तकारादौ किति क्त-प्रत्यये परे धा-धातोः स्थाने ʻहिʼ इत्यादेशः),
> हित सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्  ʻहितʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  हित अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् सु-स्थाने अमादेशः),
>  हितम्  (ʻहितʼ इत्यस्य जकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻहितम्ʼ इति रूपं सिद्धम्)।

२२. दत्तः
दा + क्त (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻदाʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻनिष्ठाʼ च इत्येतैः सूत्रैः दा-धातोरुत्तरं क्त-प्रत्ययः),
>  दा त (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻक्तʼ इत्यस्य ककारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> दद् त (ʻदो दद् घोःʼ इत्यनेन सूत्रेण तकारादौ किति क्त-प्रत्यये परे घु-संज्ञकस्य दा-धातोः स्थाने ʻदद्ʼ इत्यादेशः),
> दत् त (ʻखरि चʼ इत्यनेन सूत्रेण खरि तकारे परे झल्-दकारस्थाने चर्-तकारादेशः),
> दत्त (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> दत्त सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्  ʻदत्तʼ  इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  दत्तस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
>  दत्तरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                                       
>  दत्तर् (ʻरुʼ इत्यस्य उकारः ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
>  दत्तः  (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻदत्तर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻदत्तःʼ इति रूपं सिद्धम्)।

२३. विद्वान्
विद् लट् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻविद्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ इत्यस्मिन् अधिकारे सत्त्वात् ʻवर्तमाने लट्ʼ इत्यनेन सूत्रेण विद्-धातोरुत्तरं लट्-लकारः),
> विद् शतृ (ʻलटः शतृशानचावप्रथमासमानाधिकरणेʼ इत्यनेन सूत्रेण लट्-स्थाने ʻशतृʼ इत्यादेशः),
> विद् वसु (ʻविदेः शतुर्वसुःʼ इत्यनेन सूत्रेण शतृ-स्थाने ʻवसुʼ इत्यादेशः),
> विद् वस् (ʻवसुʼ इत्यस्य उकारः इत्संज्ञकः, अतः तस्य लोपः),
> विद्वस् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
>  विद्वस् सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्                   ʻविद्वस्ʼ  इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  विद्वस् स् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), 
> विद्व नुम् स् स् (ʻउगिदचां सर्वनामस्थाने चाधातोःʼ इत्यनेन सूत्रेण नुम्-आगमः, नुमः मकारः इत्, अतः मित्, तस्मात् ʻमिदचोऽन्त्यात्परःʼ इत्यनेन सूत्रेण ʻविद्वस्ʼ इत्यस्य अन्त्यस्य अचः अवयवः),
> विद्वन्स् स् (ʻनुमः उकारः उच्चारणार्थः, अन्त्यः मकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> विद्वान्स् स् (ʻसान्तमहतः संयोगस्यʼ इत्यनेन सूत्रेण सम्बुद्धिभिन्ने सर्वनामस्थाने सौ परे सकारान्त-संयोगस्य नकारस्य उपधायाः दीर्घादेशः),
> विद्वान्स् (ʻहल्ङ्याब्भो दीर्घात् सुतिस्यपृक्तं हल्ʼ इत्यनेन सूत्रेण अपृक्तसंज्ञकस्य हलः सकारस्य लोपः),
> विद्वान् (ʻसंयोगान्तस्य लोपःʼ इत्यनेन सूत्रेण संयोगान्यस्य सकारस्य लोपे ʻविद्वान्ʼ इति पदं सिद्धम्)।

२४. पवित्रम्
ʻपूयते अनेनʼ इति विग्रहे—
पू इत्रम् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʼपू इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻपुवः संज्ञायाम्ʼ इत्येतैः सूत्रैः संज्ञार्थे करणकारके पू-धातोरुत्तरं ʻइत्रʼ-प्रत्ययः),
>  पो इत्र (ʻइत्रʼ इति आर्धधातुक-प्रत्यये परे ʻसार्वधातुकार्धधातुकयोःʼ इत्यनेन सूत्रेण पू-धातोः ऊकार-स्थाने ओकार-गुणादेशः),
> पव् इत्र (ʻएचोऽयवायावःʼ इत्यनेन सूत्रेण ओकार-स्थाने ʻअव्ʼ इत्यादेशः),
> पवित्र (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्  ʻपवित्रʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
>  पवित्र अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् सु-स्थाने अमादेशः),
>  पवित्रम्  (ʻपवित्रʼ इत्यस्य जकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻपवित्रम्ʼ इति रूपं सिद्धम्)।

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1