ads

ad

3rd sem, C-7, Unit-II, कृदन्त-पदसाधनम्-3


3rd sem, C-7, Unit-II, कृदन्त-पदसाधनम्-3

२५. द्रष्टुम्
दृश् + तुमुन् –द्रष्टुम्।
दृश् तुमुन् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻदृश्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻतुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्ʼ इत्येतैः सूत्रैः दृश्-धातोरुत्तरं ʻतुमुन्ʼ-प्रत्ययः),
> दृश् तुम् (तुमुन्-प्रत्ययस्य मकाराद् अकारः उच्चारणार्थः, अन्त्यः नकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> दृ अम् श् तुम् (ʻसृजिदृशोर्झल्यमकितिʼ इत्यनेन सूत्रेण झलादि-कित्-भिन्ने तुमुन्-प्रत्यये परे दृश्-धातोः अम्-आगमः, अमः म् इत्, अतः मित्, तस्मात् ʻमिदचोऽन्त्यात्परःʼ इत्यनया परिभाषया अन्त्यात् अचः ऋकारात् परम् अस्य अवस्थानम्),
> दृ अश् तुमुन् (अमः अन्त्यः मकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> द् र् अश् तुम् (ʻइको यणचिʼ इत्यनेन सूत्रेण इकः ऋकारस्य स्थाने रकारः यणादेशः),
> द् र अष् तुम् (ʻव्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजश्छशां षःʼ इत्यनेन सूत्रेण झलि तकारे परे श्-स्थाने ष् इत्यादेशः),
> द् र् अष् टुम् (ʻष्टुना ष्टुःʼ इत्यनेन सूत्रेण तकार-स्थाने टकारादेशः),
> द्रष्टुम् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
>  द्रष्टुम् सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद्             
ʻद्रष्टुम्ʼ  इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> द्रष्टुम् (ʻकृन्मेजन्तःʼ इत्यनेन सूत्रेण मकारान्तस्य तुमुन्नन्तस्य ʻद्रष्टुम्ʼ इत्यस्य अव्ययसंज्ञा, तथा ʻअव्ययादाप्सुपःʼ इत्यनेन सूत्रेण सु-लोपे ʻद्रष्टुम्ʼ इति पदं सिद्धम्)।

२६. दर्शकः
दृश् + ण्वुल् –दर्शकः।
दृश् ण्वुल् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻदृश्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻतुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्ʼ इत्येतैः सूत्रैः दृश्-धातोरुत्तरं ʻण्वुल्ʼ-प्रत्ययः),
> दृश् वु (ण्वुलः अन्त्यः लकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʼआदिः णकारः ʻचुटूʼ इत्यनेन इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> दृश् अक (ʻयुवोरनाकौʼ इत्यनेन सूत्रेण यु-स्थाने ʻअकʼ इत्यादेशः),
> द् अर् श् अक (आर्धधातुके म्वुल्-क्रत्यये परे ʻपुगन्तलघूपधस्य चʼ इत्यनेन सूत्रेण दृश्-धातोः ऋकारस्य गुणः, ʻउरण् रपरःʼ इत्यनेन रपरः ʻअर्ʼ),
> दर्शक (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> दर्शक सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻदर्शकʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> दर्शकस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                            > दर्शकरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                             > दर्शकर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                              > दर्शकः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻदर्शकर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻदर्शकःʼ इति रूपं सिद्धम्)।

२७. पाकः
पच् + घञ् –पाकः।
पच् घञ् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻपच्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻभावेʼ इत्येतैः सूत्रैः पच्-धातोरुत्तरं ʻघञ्ʼ-प्रत्ययः),
>  पच् अ (ʻघञ्ʼ इत्यस्य अन्त्यः ञकारः (ञ्) ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, आदिः घकारः (घ्) ʻलशक्वतद्धितेʼ इत्यनेन इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> पाच् अ (ञिति घञ्-प्रत्यये परे ʻअत उपधायाःʼ इत्यनेन सूत्रेण ʻपच्ʼ इत्यस्य उपधाभूतस्य अकारस्य दीर्घादेशः),
> पाक् अ (घिति घञि (घञ्-प्रत्यये) परे ʻचजोः कु घिण्ण्यतोःʼ इत्यनेन सूत्रेण ʻपाच्ʼ इत्यस्य चकार-स्थाने ककारादेशः),
> पाक (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> पाक सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻपाʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> पाकस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                           > पाकरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                             > पाकर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                             > पाकः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻपाकर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻपाकःʼ इति रूपं सिद्धम्)।

२८. यज्ञः
यज् + नङ् –यज्ञः।
यज् नङ् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻयज्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻयज-याच-यत-विच्छ-प्रच्छ-रक्षो नङ्ʼ इत्येतैः सूत्रैः यज्-धातोरुत्तरं ʻनङ्ʼ-प्रत्ययः),
>  यज् न (ʻनङ्ʼ इत्यस्य अन्त्यः ङकारः (ङ्) ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> यज् ञ (ʻस्तोः श्चुना श्चुःʼ इत्यनेन सूत्रेण नकारेण सह जकारस्य योगे नकार-स्थाने ञकारादेशः),
> यज्ञ (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> यज्ञ सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻयज्ञʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> यज्ञस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                            > यज्ञरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                             > यज्ञर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),       
> यज्ञः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻ यज्ञर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻयज्ञःʼ इति रूपं सिद्धम्)।

२९. प्रश्नः
प्रच्छ् + नङ् –प्रश्नः।
प्रच्छ् न (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻप्रच्छ्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻयज-याच-यत-विच्छ-प्रच्छ-रक्षो नङ्ʼ इत्येतैः सूत्रैः प्रच्छ्-धातोरुत्तरं ʻनङ्ʼ-प्रत्ययः),
>  प्रच्छ् न (ʻनङ्ʼ इत्यस्य अन्त्यः ङकारः (ङ्) ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> प्रश् न (ʻच्छ्वोः शुडनुनासिके चʼ इत्यनेन सूत्रेण अनुनासिके नकारे परे च्छ्-स्थाने शकारादेशः),
> प्रश्न (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> प्रश्न सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻप्रश्नʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> प्रश्नस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                            > प्रश्नरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                             > प्रश्नर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),     
 > प्रश्नः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻप्रश्नर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻप्रश्नःʼ इति रूपं सिद्धम्)।

३०. स्वप्नः
स्वप् + नन् –स्वप्नः।
स्वप् नन् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻस्वप्ʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻस्वपो नन्ʼ इत्येतैः सूत्रैः स्वप्-धातोरुत्तरं ʻनन्ʼ-प्रत्ययः),
>  स्वप् न (ʻनन्ʼ इत्यस्य अन्त्यः नकारः (न्) ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> स्वप्न (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> स्वप्न सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻस्वप्नʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> स्वप्नस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                            > स्वप्नरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                            > स्वप्नर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                              > स्वप्नः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻस्वप्नर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻस्वप्नःʼ इति रूपं सिद्धम्)।

३१. कृतिः
कृ + क्तिन् –कृतिः।
कृ क्तिन् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻकृʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻस्त्रियां क्तिन्ʼ इत्येतैः सूत्रैः स्त्रीलिङ्गे भाववाच्ये कृ-धातोरुत्तरं ʻक्तिन्ʼ-प्रत्ययः),
>  कृति (ʻक्तिन्ʼ इत्यस्य अन्त्यः नकारः (न्) ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, आदिः ककारः (क्) ʻलशक्वतद्धितेʼ इत्यनेन इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः, ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> कृति सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻकृतिʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> कृतिस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                            > कृतिरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),                                            > कृतिर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),                                                                             > कृतिः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻकृतिर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ  इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻकृतिःʼ इति रूपं सिद्धम्)।

३२. पीत्वा
पा + क्त्वा –पीत्वा।
पा क्त्वा (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻपाʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻसमानकर्तृकयोः पूर्वकालेʼ इत्येतैः सूत्रैः पा-धातोरुत्तरं ʻक्त्वाʼ-प्रत्ययः),
>  पा त्वा (ʻक्त्वाʼ इत्यस्य आदिः ककारः (क्) ʻलशक्वतद्धितेʼ इत्यनेन इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> पीत्वा (ʻघु-मा-स्था-गा-पा-जहाति-सां हलिʼ इत्यनेन सूत्रेण हलादौ किति आर्धधातुके क्त्वा-प्रत्यये परे पा-धातोः आकार-स्थाने ईकारादेशः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> पीत्वा सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻपीत्वाʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> पीत्वा (ʻक्त्वा-तोसुन्कसुनःʼ इत्यनेन सूत्रेण क्त्वा-प्रत्ययान्तस्य ʻपीत्वाʼ इत्यस्य अव्ययत्वम्, ततः ʻअव्ययादाप्सुपःʼ इत्यनेन सूत्रेण सु-लोपे ʻपीत्वाʼ इति रूपं सिद्धम्)।

३३. शयित्वा
शी + क्त्वा (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻशीʼ इत्यस्य धातुसंज्ञा, ʻधातोःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ, ʻसमानकर्तृकयोः पूर्वकालेʼ इत्येतैः सूत्रैः शी-धातोरुत्तरं ʻक्त्वाʼ-प्रत्ययः),
>  शी त्वा (ʻक्त्वाʼ इत्यस्य आदिः ककारः (क्) ʻलशक्वतद्धितेʼ इत्यनेन इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> शी इट् त्वा (ʻआर्धधातुकस्येड्वलादेःʼ इत्यनेन सूत्रेण वलादेः आर्धधातुकस्य ʻक्त्वाʼ इत्यस्य इट्-आगमः, इटः ट् इत्, अतः टित्, तस्मात् ʻआद्यन्तौ टकितौʼ इत्यनया परिभाषया आद्यवयवः),
> शी इ त्वा (ʻइट्ʼ इत्यस्य अन्त्यः टकारः (ट्) ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> शे इ त्वा (ʻन क्त्वा सेट्ʼ इत्यनेन सूत्रेण इट्-युक्त-क्त्वा-प्रत्ययस्य कित्-निषेधात् ʻसार्वधातुकार्धधातुकयोःʼ इत्यनेन सूत्रेण इगन्ताङ्गस्य शी-धातोः ईकारस्य स्थाने एकार-गुणादेशः),
> शय् इ त्वा (ʻएचोऽयवायावःʼ इत्यनेन सूत्रेण ʻशेʼ इत्स्य एकार-स्थाने अयादेशः),
> शयित्वा (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> शयित्वा सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूतात्               ʻशयित्वाʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ  इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> शयित्वा (ʻक्त्वा-तोसुन्कसुनःʼ इत्यनेन सूत्रेण क्त्वा-प्रत्ययान्तस्य ʻशयित्वाʼ इत्यस्य अव्ययत्वम्, ततः ʻअव्ययादाप्सुपःʼ इत्यनेन सूत्रेण सु-लोपे ʻशयित्वाʼ इति रूपं सिद्धम्)।

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1