ads

ad

भारतीयानां जीवने, संस्कृतौ, साहित्ये च रामायणस्य प्रभावः (For 3rd Semester, C-5)


भारतीयानां जीवने, संस्कृतौ, साहित्ये च रामायणस्य प्रभावः (For 3rd Semester, C-5)

उपक्रमः—रामचरितम्, सीताचरितम्, रघुवीरचरितम्, रघुवंशचरितम्, पौलस्त्यवधम्, भार्गवगीतम् इत्यादिभिः नामभिः आख्यायितं यत् भारतीयसंस्कृतेः अन्यतमं मूलस्तम्भस्वरूपं तदेव आदिकवेः वाल्मीकेः अपुर्वं महाकाव्यं रामायणम् इति। देवर्षेः नारदस्य मुखात् रामोपाख्यानं श्रुत्वा ब्रह्मणः निर्देशेन वाल्मीकिना तद् विरचितम्। अत्र सप्त काण्डानि सन्ति। यथा—बालकाण्डम्, अयोध्याकाण्डम्, अरण्यकाण्डम्, किष्किन्ध्याकाण्डम्, सुन्दरकाण्डम्, युद्धकाण्डम् लङ्काकाण्डम् वा, उत्तरकाण्डम् च।

भारतीयानां जीवने, संस्कृतौ च रामायणस्य प्रभावः
भारतवर्षस्य जीवने, संस्कृतौ च रामायणस्य प्रभावः बहु व्यापकम्। स्वधर्म-कर्तव्यनिष्ठयोः मूर्तं प्रतीकम् रामचन्द्रः। स तस्य सत्यनिष्ठया, संयमेन, धैर्येण, पौरुषतेजसा, प्रजापालनमाहात्म्येन च देवतारूपेण पूजितः। भारतीयाः हिन्दुजनाः प्रायशः  कुशल-विनिमयकाले, विपत्काले, क्वचित् अशरीरीभ्यः भीताः सन्तः रामस्य नामोच्चारणं कुर्बन्ति। सीता सतीनारीरूपेण पतिव्रतानारीरूपेण च प्रातःस्मरणीया। रामायणं सर्वत्र श्रद्धया पूजितं भवति। नानाविधेषु धर्मीयानुष्ठानेषु रामायणस्य श्लाकावृत्तिः क्रियते। रामायणस्य उच्चादर्शः अस्माकं प्रथप्रदर्शकः। अयमादर्श एव समाजकल्याणे अस्माकं गृहधर्मम् अखण्डसौन्दर्येण मण्डितं कृतवान्।
सुगभीर-प्रभुभक्तिहेतोः  हनुमानपि मन्दिरे मन्दिरे पूजितः भवति। भारतवर्षस्य जनाः रामराज्यमेव शासनव्यवस्थायाः आदर्शगतम् रूपं मन्यन्ते। रामराज्यम् इत्यनेन सुखसमृद्धम्, स्वच्छन्द-सुन्दरम् समाजजीवनमेव वोध्यते। सूतचारणैः कथाच्छलेन गानमाध्मेन च यद् रामायणोपाख्यानं प्रचारितम्, तस्मादेव लोकायत-रामायण-गानस्य उद्भवः जातः। 
प्रात्यहिके जीवनेऽपि रामायणस्य प्रभावः अपरिसीमः। भारतवर्षे शुभशक्तेः प्रतीकरूपेण रामचन्द्रम्, तथा अशुभशक्तेः प्रतीकरूपेण रावणं मन्यन्ते जनाः। विश्वासधातकः कोऽपि स्वजनः ʻगृहशत्रुः विभीषणःʼ इत्युच्यते। अत्यधिक-दर्पिणः विनाशज्ञापनार्थम् ʻअतिदर्पे हता लङ्काʼ इत्युच्यते। कुमन्त्रणा-दानकारिणं मन्थरया सह उपमीयते। एवं दृश्यते यत्, रामायणेन अस्माकं जीवनम् सुगभीरं वद्धम्। रवीन्द्रनाथेन यथार्थमेव उक्तम्-- ʻअस्याः रामायणकथायाः भारतवर्षस्य आबालवृद्धवनिता आपामरसाधारणजनाः न केवलं शिक्षां प्राप्ताः, आनन्दमपि प्राप्ताः; न केवलम् इदं शिरोधार्यं कृतवन्तः, हृदयमध्ये एव रक्षितवन्तः; नेदं केवलं तेषां धर्मशास्त्रम्, इदं तु तेषां काव्यम्ʼ इति। (भावानुवादः)।

भारतीये साहित्ये रामायणस्य प्रभावः—
भारतवर्षस्य बहवः कवयः रामायणात् तेषाम् रचनानाम् उपादानम् संगृहीतवन्तः। तृतीयख्रीष्टाब्दात् आरभ्य सप्तदश-शताब्द्याः रामभद्र दीक्षितपर्यन्तं बहवः कवयः नाट्यकाराश्च रामायणेन प्रभाविताः।
रामायणमवलम्ब्य रचितानि उल्लेखयोग्यानि  नाटकानि--
भासस्य प्रतिमानाटकम् अभिषेकनाटकं च; भवभूतेः महावीरचरितम्, उत्तररामचरितम् च; अनङ्गहर्षस्य उदात्तराघवम्, शक्तिभद्रस्य आश्चर्यचूडामणि, मुरारेः अनर्घराघवम्, दिङ्नागस्य कुन्दमाला, राजशेखरस्य बालरामायणम्, जयदेवस्य प्रसन्नराघवम्, दामोदरमिश्रेण मधुसूदनसमिश्रेण वा संकलितं हनुमन्नाटकम् महानाटकम् वा इत्यादीनि।
रामायणमवलम्ब्य रचितानि उल्लेखयोग्यानि  
महाकाव्यानि—
कालिदासस्य रघुवंशम्, भर्तृहरि-रचितं रावणवधम् भट्टिकाव्यं वा, कुमारदासस्य जानकीहरणम्, अभिनन्दस्य रामचरितम्, क्षेमेन्द्रस्य रामायणमञ्जरी इत्यादीनि।
रामायणमवलम्ब्य रचितानि उल्लेखयोग्यानि  
चम्पूकाव्यानि—
भोजस्य रामायणचम्पूः, रामकवेः रामाभ्युदयः, दिवाकरस्य अमोघराघवम्, श्रीनिवासस्य रामकथासुधोदयः, अनन्ताचार्यस्य चम्पूराघवम्, देवराजस्य रामाभिषेकचम्पूः, पतञ्जलेः सीताविजयचम्पूः, रामस्वामिनः सीताचम्पूः इत्यादीनि।
एतद्व्यतिरिक्तं अश्वघोषस्य बुद्धचरितकाव्ये, कालिदासस्य अभिज्ञानशकुन्लनाटकस्य अङ्गुरीयकवृत्तान्ते, मेघदूते मेघमुखेन वार्ताप्रेरणे रामायणस्य प्रभावः परिलक्ष्यते।

रामायणस्य धर्मीयतत्त्वमवलम्ब्य रचिता उल्लेखयोग्याः ग्रन्थाः—
रामायणस्य तत्त्वमवलम्ब्य उत्तरकाले केचिद् ग्रन्थाः विरचिताः। ते यथा—अद्भूतरामायणम्, योगवाशिष्ठरामायणम्, अध्यात्मरामायणम्, आनन्दरामायणम्, तत्त्वसंग्रहरामायणम्, भूशुण्डिरामायणम्, मन्त्ररामायणम् इत्यादीनि।

बौद्धसाहित्ये रामायणस्य प्रभावः— रामायणस्य तत्त्वमवलम्ब्य रचितं बौद्धसाहित्ये विविधम् उपाख्यानमुपलभ्यते। यथा—पालिजातकस्य ʻजातकत्थवण्णनाʼ, ʻखुद्दकणिकायʼ चेति।

रामायणमवलम्ब्य रचिता उल्लेखयोग्याः जैनग्रन्थाः यथा— विमलसूरेः ʻपउमचरिअʼ, गुणभद्रस्य ʻउत्तरपुराणम्ʼ, रविसेनस्य ʻपद्मचरितम्ʼ, जिनदासस्य ʻरामदेवपुराणम्ʼ, भीमसेनस्य रामचरितम् इति।

प्रादेशिकसाहित्ये रामायणस्य प्रभावः
भारतीय-प्रादेशिक-भाषया विरचितं साहित्यमपि रामायणेन सुतरां प्रभावितम्। तामिलभाषया रचितम् ʻकम्बरामायणम्ʼ, कानाडाभाषया रचितं ʻतोरवेय-रामायणम्ʼ, हिन्दीभाषायाः ʻरामचरितमानसʼ इत्यादयः ग्रन्थाः अतीव जनप्रियाः। एतद्व्यतिरिक्तम् गुजरातीसाहित्ये, माराठीसाहित्ये, तेलेगुसाहित्ये, मालयालम-साहित्ये, तथा अन्यत्रापि रामायणस्य प्रभावः  सुतरां दृश्यते।
बङ्गदेशस्य माइकेल मधुसूदन-दत्तस्य ʻमेघनादवधकाव्यʼ, गिरीशघोषस्य ʻरावणवधʼ, ʻसीतार वनवासʼ, ʻसीताहरणʼ इत्यादिषु रामायणस्य प्रभावः दृश्यते। रवीन्द्रनाथोऽपि रामायणेन सुतरां प्रभावितः।

उपसंहारः—रामायणम् पुरातनमपि तस्य कथा न पुरातनी सञ्जाता। नवयुगे नवेन मूल्यवोधेन सा नित्यं नवायिता भवति। तस्मात् रामायणीकथाया आकर्षणं सर्वयुगे सर्वकाले। रवीन्द्रनाथेनोक्तम्-- ʻअधुनापि तद्गीतं महासङ्गीतरूपेण मानवानां कर्णे गुञ्जितं भवति।ʼ (भावानुवादः)।  अस्माकम् आशा--  युगे युगे इदं महासङ्गीतं मानवानां कर्णे कर्णे गुञ्जितं भवेत्, ब्रह्मणः या बाणी चिरन्तनी सा मूर्तिमती भवेत्--        
 ʻयावत् स्थास्यन्ति गिरयः सरितश्च महीतले।
 तावद् रामायणीकथा लोकेषु प्रचरिष्यति।।ʼ इति शम्।
---------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1