ads

ad

महाभारते प्रतिफलितं समाजचित्रम्


महाभारते प्रतिफलितं समाजचित्रम्

उपक्रमः—भारतवर्षस्य शिक्षा-संस्कृति-सभ्यताध्यात्मचेतनायाः मूर्तं रूपं हि महाभारतम्। कस्यचिन्मतानुसारेण अयं ग्रन्थः पुराणम्, कश्चिद् वदति पुराणेतिहासः, व्यासदेवेन उक्तम्—काव्यं परमपूजितम् इति। भिण्टारनित्श्-महोदयेनोक्तम्-- ‘a whole literature’. अयं ग्रन्थः धर्मशास्त्र-कामशास्त्र-मोक्षशास्त्ररूपेनापि अभिहितः। ‘जयः’, ‘संहिता’, ‘आख्यानम्’, ‘उपाख्यानम्’,‘ इतिहासः’, ‘काव्यम्’ इत्यादिना अपि अयं ग्रन्थः आख्यायितः।
महाभारते प्रतिफलितं समाजचित्रम्—
वर्णाश्रमव्यवस्था महाभारतस्य काले वर्णाश्रमधर्मः प्रचलित आसीत्। यद्यपि गीतायां श्रीकृष्णेनोक्तम्--‘चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः’, परन्तु जन्मना एव कर्म नियन्त्रितं जातम्--‘स्वयोनितः कर्म सदा चरन्ति।’ जन्मानुसारेण एव ब्राह्मणादिवर्णानां कर्तव्यकर्म निर्दिष्टमासीत्। ब्राह्मणस्य अद्ययनम्, अध्यापनम्, यजनं, याजनं, दानं प्रतिग्रहशचेति, क्षत्रियस्य देशरक्षणम्, शस्त्राजीवः च, वैश्यस्य कृषिकर्म, पशुपालनं, वाणिज्यं च, शूद्रस्य द्विजातिशिश्रूषा इति कर्तव्यमासीत्। वर्णगतं कर्तव्यम् अपरित्याज्यमासीत्। श्रीकृष्णोक्तम्--‘सहजं कर्म कौन्तेय सदोषमपि न त्येजेत्।’ शमदमादिगुणहीनः ब्राह्मणः असाधुरिति परिगणितः आसीत्। भीरुः क्षत्रियः, दक्षताहीनः वैश्यः, प्रतिकूलाचरणकारी शूद्रः निन्दनीय आसीत्।
ब्रह्मचर्य-गार्हस्थ-बाणप्रस्थ-सन्न्यासाः इत्येतेषु चतुर्षु आश्रमेषु द्विजातीनां जीवनं विभक्तमासीत्। गुरुगृहे विद्याशिक्षा-समापणान्तरं यथाकालं पत्नीग्रहणम्, पञ्चमहायज्ञानुष्ठानम्, सदाचारपालनादि गृहस्थस्य परमं कर्तव्यमासीत्। सर्वेषु आश्रमेषु गार्हस्थ्याश्रमः श्रेष्ठ आसीत्-- ‘ एवं गार्हस्थ्यमाश्रित्य वर्तन्त इतरे जनाः।’ आपत्काले किञ्चिद् वृत्तिपरिवर्तनं न निन्दनीयमासीत्।
दासप्रथा—महाभारते उक्तम्—विजिताः विजेतॄणां दासाः भवेयुः—इति युद्धस्य नियमः। भूयोऽपि उक्तम्—देवतायाः पाददेशात् शूद्रस्योत्पत्तिः, अतः दासत्वकरणाय एव तस्य जन्म। अन्यत्र दासविषयकं भिन्नं वक्तव्यमपि दृश्यते। तत्र उक्तम्—दासानां जीवनेऽपि अध्ययनस्य अवसरः आसीत्। धर्मीयाचारानुष्ठानपालनाय दासोऽपि पुरस्क्रियते स्म। क्वचित् ते नीतिशिक्षामपि ददति स्म। हप्किन्स-महोदयः मन्यते यत्—अनेन आदर्श-चित्रेण सह वास्तवताः सामञ्जस्यं नासीत्। यतः तदानीं दासानां स्थानं पशोः परमेव आसीत्। युधिष्ठिरः द्यूतक्रीडायां हृतसर्वस्वः द्रौपदी-पाण्डवैः सह दुर्योधनस्य दासत्वं स्वीकृतवान्। दासानां सम्पत्तेः अधिकारः नासीत्।
परिवारकेन्द्रिकता—महाभारतस्य युगे समाजः परिवारकेन्द्रिकः आसीत्। परिवारः एकान्नवर्ती आसीत्। पिता आसीत् सर्वमयः कर्ता। मातापितरौ महागुरू, प्रत्यक्षदेवतास्थानीयौ च आस्ताम्। सन्तानहीना विधवा कन्या भगिनी वा भरणीया आसीत्। केषुचित् क्षेत्रेषु विधवाविवाहः प्रचलितः आसीत्, परन्तु कालक्रमेण विलुप्तोऽभवत्। जातिधर्मस्य कुलधर्मस्य च मर्यादारक्षार्थं सर्वतोभावेन प्रचेष्टा कृता।
आचरणविधिः—दानं, तपः, सत्यम्, शौचम्, यागः, अहिंसा, क्षमा, अतिथिसत्कारः इत्यादयः सर्वेषाम् आचरणीया आसन्।
आहार्यद्रव्याणि-- महाभारतस्य काले मुख्यं खाद्य-द्रव्यमासीत् ब्रीहियवम् इति। एतद्व्यतिरिक्तं दुग्धं, दधि, गुडम्, मत्स्यः, शाकादीनि, फलमूलानि अपि खाद्यरूपेण प्रचलितानि आसन्। युधिष्ठिरः राजसूययज्ञे ब्राह्मणान् वराह-हरिणयोः मांसैः आप्यायितवान्--’मांसैर्वाराहहरिणैः।’ राजा मान्धाता ब्राह्मणेभ्यः रोहितमत्स्यान् दत्तवान्--‘अददत् रोहितान् मत्स्यान् ब्राह्मणेभ्यो विशाम्पते।’ आपत्काले भक्ष्याभक्ष्यम् न विचार्यमासीत्।
आमोद-प्रमोदः—समाजे अभिजातानां मध्ये द्यूतक्रीडा-मद्यपानयोः प्रचलनमासीत्। अभिमन्योः विवाहवासरे मद्यपानस्य व्यवस्था प्रभूतमासीत्। बलरामस्य सुरापानस्य उल्लेखः बहुषु स्थलेषु दृश्यते।
परिधेय-प्रसाधनादीनि—साधारणजनानां कार्पासं वस्त्रम्, अभिजातानां च क्षौमवस्त्रं परिधेयमासीत्। ब्राह्मणानां शुभ्रवसनम् मृगचर्म च परिधेयमासीत्। कर्मभेदेन देशभेदेन च परिधेयभेदः आसीत्। स्त्रीपुरुष-निर्विशेषेण सर्वे अलंकारं व्यवहरन्ति स्म। छत्र-पादुका-माला-गन्धद्रव्यानुलेपन-केशप्रसाधनी-कज्जलादीनां व्यवहारः प्रचलित आसीत्।
व्यवहार्य-द्रव्यादि-- महाभारतस्य काले रौप्य-कांसनिर्मितं तैजसपत्रम्, ताम्रपात्रम्, लौहनिर्मितं यन्त्रादि, अस्त्रशस्त्रम्, गजदन्तनिर्मितं द्रव्यादि व्वह्रियन्ते स्म। अस्थिनिर्मित-चर्मनिर्मित-द्रव्यादीनामपि व्यवहारः प्रचलितः आसीत्।
कृषिकर्म शिल्पं च—तत्काले समाजस्य अर्थनैतिक-समृद्धेः मूलमासीत् कृषि-शिल्प-वाणिज्यम्। अतः उक्तम्—
‘कर्मभूमिरियं राजस्निह वार्ता प्रशस्यते।
कृषिवाणिज्यगोरक्षं शिल्पानि विविधानि च।।’
तदा स्थापत्यविद्याया अपि प्रभूता उन्नतिः अभवत्।
शिक्षाव्यवस्था-- महाभारतस्य काले आश्रमकेन्द्रिक-शिक्षाव्यवस्था किञ्चित् शिथिलीभूता। गुरुगृहे शिक्षाग्रहणं यथा प्रचलितमासीत्, तथा अभिजात-सम्प्रदायानां मध्ये स्वगृहे गुरुमानीय शिक्षादानपद्धतिरपि प्रचलिता आसीत्। वेद-दर्शनशास्त्र-वार्ता-दण्डनीति-तर्कविद्या-शब्दशास्त्र-गान्धर्वविद्या-युद्धविद्या-कलाशास्त्रादिविषये शिक्षादानं क्रियते स्म। समाजे नारीशिक्षा अपि प्रचलिता आसीत्। अरुन्धती, सत्यवती, गान्धारी, कुन्ती, द्रौपदी, उत्तरा प्रमुखाः सर्वा एव विदुष्यः नार्यः आसन्।
नियोगप्रथा-- महाभारतस्य काले नियोगप्रथा प्रचलिता आसीत्। विचित्रवीर्यस्य मरणात् परं सत्यवत्या आदेशेन व्यासः राजमहिष्याम् अम्बिकायाम् धृतराष्ट्रस्य, अम्बालिकायाम् पाण्डोः, तथा दास्याम् अम्बायां विदुरस्य उत्पादकः अभवत्। युधिष्ठिरादि-पञ्चपाण्डावानां जन्म अपि नियोगप्रथानुसारेण एव अभवत्।
सहमरणप्रथा—तदानीम् स्वल्पा अपि सहमरणप्रथा प्रचलिता आसीत्। माद्री पाण्डुणा सह सहमृता अभवत्।
कुमारीपुत्रस्य स्वीकृतिः—कृष्णद्वैपायनः वेदव्यासः सत्यवत्याः, तथा कर्णः कुन्त्याः  कुमार्यवस्थायाः सन्तानः।
विवाहः—पुरुषाणां बहुविवाहः समाजे स्वीकृतः आसीत्। विचित्रवीर्यस्य द्वौ पत्न्यौ, धृतराष्ट्रस्य बह्वः पत्न्यः, पाण्डोः द्वौ पत्न्यौ, युधिष्ठिरादीनां द्रौपदी-भिन्नाः अन्याः स्त्रियः अपि आसन्। कृष्णस्य बह्वः पत्न्यः आसन्। क्षेत्रविशेषे नार्याः अपि बहुपतिग्रहणं स्वीकृतमासीत्। क्षेत्रविशेषे नारीणामपि बहुविवाहः स्वीकृतः आसीत्। यथा—जटिला, वार्क्षी च।
नारीणां स्थानम्-- महाभारतस्य काले बहुविषये नार्यः पुरुषाणां परिपूरकाः सहकर्मिणः आसन्। केषुचित् क्षेत्रेषु नारी स्वाधीना आसीत्। तस्याः सोमरसपाने, प्रकाश्यं गमनागमने च कोऽपि निषेधः नासीत्। नारीधर्षणे पुरुषस्य एव दोषः अभवत् न नार्याः। महाभारतस्य मूलभागे नार्याः मर्यादापूर्णं स्थानमासीत्, उत्तरकाले ब्राह्मण्यसंयोजने तस्याः प्रभूतमवनमनं संधटितम्।
--------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1