ads

ad

1st Sem, कादम्बरी (शुकनासोपदेशः) संक्षिप्तमुत्तरम्—


1st Sem, कादम्बरी (शुकनासोपदेशः)
संक्षिप्तमुत्तरम्—

१.  किं नाम काव्यम्? कतिविधं च तत्?
उत्तरम्— ʻकवेः कर्मʼ इति काव्यम्। काव्यं प्रथमतः द्विविधम्—दृश्यं श्रव्यं चेति। दृश्यम् अभिनेयम्।
श्रव्यकाव्यं त्रिविधम्—गद्यं, पद्यं, चम्पूश्चेति।

२. किं नाम गद्यम्? गद्यकाव्यस्य प्रशंसासूचकं वाक्यमेकं लिख्यताम्।
उत्तरम्— ʻअपाद-पदसन्तानो गद्यम्।ʼ अपवा, ʻवृत्तगन्धोज्झितं काव्यं गद्यम्।ʼ
गद्यकाव्यस्य प्रशंसासूचकं वाक्यमेकम्-- ʻगद्यं कवीनां निकषं वदन्ति।ʼ

३. संस्कृत-गद्यकाव्यस्य कति भेदाः?
उत्तरम्— संस्कृत-गद्यकाव्यस्य द्वौ मुख्यौ भेदौ—कथा आख्यायिका चेति।
एतद्व्यतिरिक्ताः खण्डकथा, परिकथा, कथानिका चेति त्रयः भेदा अपि सन्ति।

४. संस्कृत-गद्यकाव्यस्य प्राचीनतमं निदर्शनं कुत्र उपलभ्यते?
उत्तरम्-- संस्कृत-गद्यकाव्यस्य प्राचीनतमं निदर्शनं कृष्णयजुर्वेदस्य तैत्तिरीयसंहिताम् उपलभ्यते।

५. संस्कृतसाहित्यस्य कतिपय-प्राचीनगद्यस्य नाम लिखत।

उत्तरम्—पतञ्जलेः महाभाष्ये वासवदत्ता, सुमनोत्तरा, भैमरथी च इत्येतेषां गद्यकाव्यानां नामानि उलभ्यन्ते। उत्तरकाले वररुचेः चारुमती, रामिल-सोमिलयोः शूद्रककथा, रुद्र-रचिता त्रैलोक्यसुन्दरी,  अज्ञातनाम-कवीनां शातकर्णीहरणम्, मनोवती, तरङ्गवती इत्यादीनां गद्यकाव्यानां नामानि अपि लभ्यन्ते। बाणभट्टेन आढ्यराजस्य भट्टार-हरिचन्द्रस्य गद्यकाव्यस्य प्रशंसा कृता।

६. संस्कृतगद्यसाहित्यस्य के तावत् ʻत्रयीʼ इत्युच्यते? 
उत्तरम्— संस्कृतगद्यसाहित्यस्य सुबन्धुः, बाणभट्टः, दण्डी चेति प्रख्याताः त्रयः कवयः ʻत्रयीʼ इत्युच्यते।

७.  क आसीद् बाणभट्टः? तस्य काव्याणां नामानि लिखत।
उत्तरम्—संस्कृत-गद्यसाहित्यस्य सर्वश्रेष्ठः कविः बाणभट्टः। बाणभट्ट-रचितं गद्यकाव्यद्वयं यथा—कादम्बरी, हर्षचरितम् चेति।

८. बाणभट्टस्य आविर्भावकालः कः?
उत्तरम्—  पण्डितानां मतानुसारेण बाणभट्टस्य आविर्भावकालः षष्ठ-ख्रीष्टाब्दस्य शेषार्धः।

९. बाणभट्टस्य आदिनिवासः कुत्रासीत्?
उत्तरम्— कान्यकुब्ज-देशस्य शोण-नद्याः पश्चिमे तटे प्रीतिकूट इति ग्रामे बाणभट्टस्य आदिनिवासः आसीत्।

१०. बाणभट्टस्य मातापित्रोः नामनी लिखत।

उत्तरम्—बाणभट्टस्य पिता चित्रभानुः, माता च राजदेवी इति।

११. बाणभट्टस्य प्रशंसासूचकं वाक्यमेकं लिख्यताम्।
उत्तरम्-- बाणभट्टस्य प्रशंसासूचकं वाक्यं यथा-- ʻबाणी बाणो बभूवʼ इति। ʻबाणस्तु पञ्चाननःʼ।

१२. बाणभट्टस्य पुत्रस्य नाम किम्?
उत्तरम्-- बाणभट्टस्य पुत्रस्य नाम भूषणभट्टः। भूषणबाणः, पुलिन्दः, पुलिनः इति तस्य नामान्तराणि।

१३. कादम्बरी-काव्यस्य प्रशंसासूचकं वाक्यमेकं लिख्यताम्।
उत्तरम्-- ʻकादम्बरीरसज्ञानामाहारोऽपि न रोचते।ʼ

१४.  कादम्बरी-काव्यस्य नायक-नायिकयोः नामनी लिखत।
उत्तरम्-- कादम्बरीकाव्यस्य नायकः चन्द्रापीडः, नायिका च कादम्बरी।

१५. का उच्यते अतिद्वयीकथा?
उत्तरम्—पण्डितानां मतानुसारेण बाणभट्टस्य कादम्बरी काव्यगुणोत्कर्षेण गुणाढ्य-रचितां बृहत्कथाम्, तथा सुबन्धु-रचितां वासवदत्ताम् अतिक्रामति। अस्मात् कारणात् कादम्बरी ʻअतिद्वयीकथाʼ इत्युच्यते।

१६. क आसीत् तारापीडः? का आसीत् तस्य महिषी?
उत्तरम्— तारापीडः उज्जयिन्याः नगर्याः राजा आसीत्।  तस्य महिषी आसीत् विलासवती।

१७. क आसीत् चन्द्रापीडः?
उत्तरम्-- उज्जयिन्याः नगर्याः राज्ञः तारापीडस्य पुत्रः आसीत् चन्द्रापीडः। स कादम्बरी-काव्यस्य नायकः।

१८. क आसीत् शुकनासः? का आसीत् तस्य महिषी?
उत्तरम्— उज्जयिन्याः नगर्याः राज्ञः तारापीडस्य मन्त्री आसीत् शुकनासः। तस्य महिषी आसीत् मनोरमा।

१९. क आसीत् वैशम्पायनः?
उत्तरम्—वैशम्पायनः उज्जयिन्याः नगर्याः राज्ञः तारापीडस्य मन्त्रिणः शुकनासस्य पुत्रः आसीत्।
स चन्द्रापीडस्य प्रियसखा।

२०. ʻशुकनासोपदेशःʻ इति पाठ्यांशे कः कम् उपदिष्टवान्?
उत्तरम्--  ʻशुकनासोपदेशःʻ इति पाठ्यांशे शुकनासः चन्द्रापीडम्म् उपदिष्टवान्।

२१. कदा बुद्धिः कालुष्यमुपयाति?
उत्तरम्—यौवनारम्भे बुद्धिः प्रायः कालुष्यमुपयाति।

२२. ʻभवादृशा एव भवन्ति भाजनान्युपदेशानाम्।ʼ
--केन कं प्रति इदमुक्तम्?
उत्तरम्-- ʻशुकनासोपदेशःʻ इति पाठ्यांशे शुकनासेन चन्द्रापीडं प्रति इदमुक्तम्।

२३. केषाम् उपदेष्टारः विरलाः?
उत्तरम्—राज्ञाम् उपदेष्टारः विरलाः।

२४. गुरूपदेशस्य गुणद्वयं लिख्यताम्।
उत्तरम्—गुरूपदेशं नाम पुरुषाणाम् अखिल-मल-प्रक्षालनम् अजलं स्नानम् च।

२५. राजलक्ष्म्याः दोषद्वयम् उल्लिख्यताम्।
उत्तरम्—राजलक्ष्मीः  न परिचयं रक्षति, न शीलं पश्यति।

२६. राजलक्ष्मीः कस्य प्रतीकम्?
उत्तरम्-- राजलक्ष्मीः धनसम्पदः प्रतीकम्।

२७. कादम्बरी कीदृशं काव्यम्?
उत्तरम्—कादम्बरी कथाजातीयं गद्यकाव्यम्।

२८. कादम्बर्याः वृत्तान्तं कस्माद् गृहीतम्?
उत्तरम्-- कादम्बर्याः वृत्तान्तं गुणाढ्यस्य बृहत्कथायाः गृहीतम्। कथासरित्सागरस्य उनषष्टितमे तरङ्गे वर्णितम् राज्ञः सुमनसेनस्य वृत्तान्तम् अवलम्ब्य कादम्बर्याः आख्यानभागः विन्यस्तः।

२९. कादम्बर्याः कति भागाः?
उत्तरम्—कादम्बर्याः भागद्वयमस्ति—पूर्वार्धः उत्तरार्धश्चेति। पूर्वार्धस्य रचयिता बाणभट्टः, उत्तरार्धस्य च रचयिता तस्य पुत्रः भूषणभट्टः।

३०. ʻप्रीतिहृदयो मुहूर्तं स्थित्वा स्वभवनमाजगाम।ʼ
-- कः स्वभवनमाजगाम?
उत्तरम्—चन्द्रापीडः स्वभवनमाजगाम।

३१. जनः राजवचनं कथम् अनुगच्छति?
उत्तरम्—जनः भयात् राजवचनम् अनुगच्छति।

३२. राजप्रकृतिः कीदृशी?
उत्तरम्—अहङ्कार-दाहज्वर-मूर्छान्धकारिता विह्वला हि राजप्रकृतिः।

३३. सन्धिविच्छेदः क्रियताम्—
एवाभानुभेद्यमरत्नालोकच्छेद्यमप्रदीपप्रभापनेयमतिगहनम्।
—एव + अभानुभेद्यम् + अरत्नालोक + छेद्यम् 
+ अप्रदीपप्रभापनेयम् + अतिगहनम्।

कष्टमनञ्जवर्तिसाध्यमपरमैश्वर्यतिमिरान्धत्वम्।
उत्तरम्—कष्टम् + अनञ्जनवर्तिसाध्यम् + अपरम् 
+ ऐश्वर्यतिमिरान्धत्वम्।


विस्तराणाभिधीयसे। -- विस्तरेण + अभिधीयसे।

गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिरूपत्वममानुषशक्तित्वं चेति।
-- गर्भेश्वरत्वम् + अभिनवयौवनत्वम् + अप्रतिरूपत्वम्
 + अमानुषशक्तित्वम् + च ऋ इति।

सततमतिदूरन्तेयमुपभोगमृगतृष्णिका।
-- सततम् अतिदूरन्ता + इयम् + उपभोगमृगतृष्णिका।

सलिलानीव। --सलिलानि + इव।

तान्येव।– तानि + एव।

विषस्वरूपाण्यास्वाद्यमानानि। 
--विषस्वरूपाणि + आस्वाद्यमानानि।

मधुरतराण्यापतन्ति।–मधुरतराणि + आपतन्ति।

पुरुषमत्यासङ्गो विषयेषु।
– पुरुषम् + अत्यासङ्गः + विषयेषु।

भाजनान्युपदेशानाम्।– भाजनानि + उपदेशानाम्।

सकलमतिमलिनमप्यन्धकारमिव।
– सकलम् + अतिमलिनम् + अपि + अन्धकारम् + इव।

चामरपवनैरिवापह्रियते।– चामरपवनैः + इव + अपह्रियते।

नाभिजनमीक्षते।– न + अभिजनम् + ईक्षते।

रूपमालोकयते। -- रूपम् + आलोकयते।

कुलक्रममनुवर्तते।–कुलक्रमम् + अनुवर्तते।

गन्धर्वनगरलेखेव।–गन्धर्वनगरलेखा + इव।

वसुजनन्यपि।– वसुजननी + अपि।

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1