ads

ad

3rd sem, C-6, Manusamhita, Broad Questions-2


                         
३. कः खलु संस्कारः? मनुसंहितायाः द्वितीयाध्याये द्विजातीनां संस्कारविषये मनुना यदुपदिष्टं तत्सर्वं सविमर्शमालोच्यताम्।
उत्तरम्--  साधारणभावेन पुरुषपराम्पराक्रमेण अनुसृतं सामाजिक-पारिवारिक-रीतिनीतिजातं, धर्मगतम् आचारानुष्ठानादिकं संस्कारः उच्यते। गर्भाधानम्, जातकर्म, नामकरणम्, निष्क्रमणम्, उपनयनम्, केशान्तः इत्यादयः संस्काराः मनुना विहितः।

मनुकथितसंस्काराणां विवरणम्—
गर्भाधानम्—प्रधानतः शारीरविज्ञानसम्मत-प्रजननतत्त्वस्य उपदेशमूलकं व्यापारजातमेव गर्भाधानम् इत्युच्यते।

जातकर्म—नवजातकस्य वालकस्य नाभिच्छेदनात् प्राक् जातकर्म विधीयते। अस्मिन् अनुष्ठाने वालकस्य स्वगृह्योक्त-मन्त्रैः स्वर्ण-मधु-घृतानां प्राशनं क्रियते।

नामकरणम्—मनुना उक्तम्—
ʻनामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत्।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते।।ʼ
नवजातकस्य जन्मनः प्रभृति दशमदिवसे द्वादशदिवसे वा नामकरणं क्रियते। तद् यदि न सम्भवेत् तर्हि प्रशस्ते तिथौ, प्रशस्ते एव मुहूर्ते, शुभे नक्षत्रयुक्ते अहनि वा नामकरणं कारयेत्।
ब्राह्मणस्य मङ्गल्यं, क्षत्रियस्य बलान्वितं, वैश्वस्य धनसंयुक्तम्, शूद्रस्य च निन्दावाचकं हीनतावाचकं वा नाम कारयेत्।
उपपद-विषये मनुना उक्तम्—
ʻशर्मवद् ब्राह्मणस्य स्याद् राज्ञो रक्षासमन्वितम्।
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य तु प्रैष्यसंयुक्तम्।।ʼ
ब्राह्मणस्य शर्मवत्, क्षत्रियस्य रक्षासमन्वितं, वैश्यस्य पुष्टिसंयुक्तं, शूद्रस्य च प्रैष्यसंयुक्तम् उपपदं कार्यम्।

स्त्रीणां नामकरण-विषये मनुना उक्तम्—
ʻ स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं, मनोहरम्।
 मङ्गल्यं दीर्घर्मान्तमाशीर्वादाभिधानवत्।।ʼ
स्त्रीणां सुखोच्चार्यम्,  अक्रूरार्थवाचकं, विस्पष्टार्थं, मनोहरं, मङ्गलवाचकं, दीर्घस्वरान्तम् आशीर्वादवाचकं च भवेत्।

निष्क्रमण्म्—मनुना उक्तम्-- ʻचतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात्ʼ इति।
जन्मनः परं नवजातकं मासत्रयं जन्मगृहे रक्ष्यते। चतुर्थे मासि तस्माद् वहिरानीय पौर्णमास्यां चन्द्रदर्शनं, तथा शुभे अहनि सूर्यदर्शनं कारयेत्।

अन्नप्राशनम्—मनुना उक्तम्-- ʻषष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले।ʼ
शिशोः जन्मनः षष्ठे मासि अन्नप्राशनं कारयेत्। अथवा कुलधर्मानुसारेण यन्मङ्गलम् इष्टं तत् कर्तव्यम्।

चूडाकरणम्—प्रथमे तृतीये वा वर्षे सर्वेषामेव द्विजातीनां श्रुते  विधानानुसारेण चूडाकर्म कर्तव्यम्।

उपनयनम्—अस्य कालविषये मनुना उक्तम्—
ʻगर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्।
गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः।।ʼ
गरभकालाद् अष्टमे वर्षे ब्राह्मणस्य, एकादशे क्षत्रियस्य, वैश्यस्य च द्वादसे वर्षे उपनयन् कर्तव्यम्। परन्तु ब्रह्मवर्चसकामस्य विप्रस्य पञ्चमे वर्षे, बलार्थिनः क्षत्रियस्य षष्ठे वर्षे, तथा कृषिकर्मादौ उन्नतिकामिनः वैश्यस्य अष्टमे वर्षे उपनयनं कर्तव्यम्।

केशान्तसंस्कारः—द्विजातीनां मध्ये प्रचलितः केशश्मश्रु-कर्तनस्य अनुष्ठानविशेषः। अयं गोदानोऽपि उच्यते। अस्य काल-विषये मनुना उक्तम्—
ʻकेशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते।
राजन्यबन्धोर्द्वावंशे वैश्यस्य द्व्यधिके ततः।।ʼ

स्त्रीणां कृते विहितः संस्कारः—मनुना उक्तम्—
ʻअमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम्।।ʼ
स्त्रीणां जातकर्मादिसंस्कारः यथाकालमेव कर्तव्यः, परन्तु तत्र वैदिको मन्त्रः न उच्चार्यते।

उपसंहारः—समाजे यदा वर्णाश्रमधर्मः बलवान् आसीत् तदा मनुविहिताः संस्काराः यथायथं पालनीयाः आसन्। कानिचिद् विधानानि न विज्ञानसम्मतानि, तथापि जनाः तान् अनुसरन्ति। परन्तु विज्ञानसनस्काः जनाः पारिवारिकम् ऐतिह्यमनुसृत्यापि स्वास्थ्यसम्मतभावेन तथा विज्ञानसम्मतभावेन तान् नियमान् पालयन्ति। मनुसंहितायाः बहूनां विषयाणां युक्तिद्वारा विचार्य गृहीते सति तस्मात् सुफलं लभ्येत इति शम्।

-------


४. मनुसंहितायाः द्वितीयाध्यायमनुसृत्य आर्याणाम् आवासभूमेः भौगोलिकं विवरणं, तथा तेषां संस्कृतेः विवरण् दीयताम्।

उत्तरम्— प्राचीनभारतस्य सामाजिक-राजनैतिक-सांस्कृतिक-विषयाणाम् अमूल्यः ग्रन्थः मनुसंहिता। अयं धर्मशास्त्रोऽपि कथ्यते। अस्य ग्रन्थस्य द्वितीयाध्याये आर्याणाम् आवासभूमेः भौगोलिकं विवरणं तथा केषाञ्चित् सांस्कृतिक-विषयाणामपि उल्लेखः कृतः। आर्याधिष्ठिताः देशास्तु—ब्रह्मावर्तः, ब्रह्मर्षिदेशः, मध्यदेशः, आर्यावर्तः, यज्ञियदेशश्चेति। एभ्यः देशेभ्यः वहिरवस्थितः देशः म्लेच्छदेशरूपेण परिगण्यते।

आर्याणाम् आवासभूमेः भौगोलिकं विवरणम्—
ब्रह्मावर्तः—अस्य देशस्य भौगोलिकावस्थानविषये मनुना उक्तम्—
ʻसरस्वतीदृषद्वत्योर्देवनद्योर्यदनन्तरम्।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते।।ʼ
सरस्वतीदृषद्वत्योः नद्योः मध्यवर्ती भूभागः ब्रह्मावर्तः इत्युच्यते। तस्मिन् देशे ब्राह्मणादिवर्णानां सङ्कीर्णजातिपर्यन्तानां मध्ये पराम्पराक्रमेण य आचारः अनुसृतः स सदाचारः इत्युच्यते।

ब्रह्मर्षिदेशः--अस्य देशस्य भौगोलिकमवस्थानम्—
ʻकुरुक्षेत्रञ्च मत्स्याश्च पाञ्चालाः शूरसेनकः।
एष ब्रह्मर्षिदेशः वै ब्रह्मावर्तादनन्तरम्।।ʼ
कुरुक्षेत्रं, मत्स्याः, पञ्चालाः, कान्यकुब्जदेशाः वा, शूरसेनकाः इति देशाः ब्रह्मर्शिदेशः इत्यभिधीयते। ब्रह्मावर्तात् किञ्चिदूनः अयं देशः।

मध्यदेशः-- अस्य देशस्य भौगोलिकमवस्थानम्—
ʻहिमवद्विन्ध्योर्मध्यं यत् प्राग् विनशनादपि।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः।।ʼ
हिमालय-विन्ध्ययोः पर्वतयोः मध्यं, विनशनात् पूर्वं, प्रयागाच्च पश्चिमम्,  यो भूभागः स मध्यदेशनामा कथितः।

आर्यावर्तः--   अस्य देशस्य भौगोलिकमवस्थानम्—
ʻआसमुद्रात्तु पूर्वादासमुद्रात्तु पश्चिमात्।
तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्वुधाः।।ʼ
आपूर्वसमुद्रात् आपश्चिमसमुद्रात् हिमालय-विन्ध्ययोः पर्वतयोः यः देशः तं देशं पण्डिताः आर्यावर्तरूपेण जानन्ति। आर्याः अत्र आवर्तन्ते पुनः पुनः उद्भवन्ति, अतः अयम् आर्यावर्तः इत्यभिधीयते।

यज्ञियो देशः—भगवता मनुना अस्य देशस्य विवरणं प्रदत्तम्—
ʻकृष्णसारस्तु चरति मृगः यत्र स्वभावतः।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततःपरम्।।ʼ
यस्मिन् देशे कृष्णसारः मृगः स्वच्छन्दं निर्भयं च विचरति, स यज्ञियो देशः इत्युच्यते।

म्लेच्छदेशः—आर्यसंस्कृतेः वहिरवस्थितः अनार्याध्युषिताः देशाः म्लेच्छदेशाः इत्युच्यन्ते। म्लेच्छदेशस्य भौगोलिकं विवरणं न दत्तं मनुना। किरात-शवर-पुलिन्द-निषादादयः जातयः म्सेच्छरूपेण परिगणिताः आसन्।
आर्यसंस्कृतेः विवरणम्—
कस्याश्चिद् जातिसत्त्वायाः नित्यप्रयोजन-भिन्नाः बौद्धिक-मानसिक-सामाजिक-विकाशार्थम् अनुशीलिताः विषयाः, अनुसृताः रीतीनीतयः, शिष्टाचारादयः पालनीयाः विषयाः एव संस्कृतेः मूलम्। मनुसंहितायाः द्वितीयाध्याये आर्याणां जन्मनः प्रभृति मृत्युपर्यन्तं पालनीयाः गर्भाधानादिसंस्काराः, ब्रह्मचारिणां जीवनयात्रा, तेषां कर्तव्यजातं, गुरुशिष्ययोः प्रीतिपूर्णम् आचरणम्, कर्तव्यम्, वेदाध्ययनविधिः, वाङ्मनसोः संयमः, इन्द्रियजयः, स्त्रीलोकान् प्रति सम्मानज्ञापनम्, मातुः श्रेष्ठत्वप्रतिपादनम्, शिष्टाचारपालनम्, मान्यताविचारः इत्यादिविषये आलोचनं कृतम्। स्वस्थ-सामाजिक-परिवेश-रक्षार्थं ब्राह्मदैवाद्यष्टप्रकारः विवाहविधिः उपदिष्टः मनुना। लोकव्यवहार-शिष्टाचारयोः उपरि तेन गुरुत्वं प्रदत्तम्। मनुना कपटाचरणस्य निन्दा, तथा आचारवतः प्रशंसा कृता। सर्वेषे शौचेषु अर्थशौचं प्रधानम् इति उक्तं मनुना। अहिंसानिवारणार्थं तेन पशुपक्षिणां हत्या निषिद्धा कृता। मद्यपानम्, द्यूतक्रीडा, व्यभिचारः,  चौर्यम् इत्यादेः अपराधस्य कठोरं दण्डविधानं कृतम्।
उपसंहारः—मनुसंहितायां प्रदत्तम् आर्यामाम् आवासभूमेः भौगोलिक-विवरणात् आर्यसंस्कृतेः विस्तार-विषये पूर्णाङ्गं चित्रं प्राप्यते। अस्य ऐतिहासिकं तथा सामाजिकं मूल्यमपि प्रभूतम्। मनुसंहितायां प्राप्तात् तथ्यात् ज्ञायते यत्, आर्यसंस्कृतेः बन्धनं सुदृढमासीत्। तत्काले प्रचलितानां शिष्टाचार-मान्यतादि-सामाजिक-विषयाणाम् अद्यापि अनुसरणं क्रियते।

-------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—