ads

ad

3rd sem, C-6, Unit-I, Manusamhita, Broad Questions


3rd sem, C-6, Manusamhita, Broad Questions-1

१.  कस्तावद् धर्मः? धर्मविषये मनोरुदेशाः सम्यग् आलोच्यतोम्।

उपक्रमः--  ʻधर्मःʼइति शब्दः भारतीयचिन्ताचेतनायां व्यापकार्थे गृहीतः। आङ्गलभाषायाः ʻreligionʼ इति शब्दः  धर्म-शब्दस्य न समार्थकः। उक्तं च जैमिनिना पूर्वमीमांसासूत्रे-- ʻचोदनालक्षणोऽर्थो धर्मःʼ इति। अर्थात् वेदे उपदिष्टं विधिविधानं यद् अस्मान् कार्ये प्रेरयति, तथा अभीष्टफललाभे साहाय्यं करोति तदेव धर्मः। संक्षेपेण वक्तुं शक्यते—सुष्ठुभावेन  स्व-स्व-कर्तव्यपालनमेव धर्मः। वैशेषिकसूत्रे उक्तम्-- ʻयतोऽभ्युदयनिःश्रेयस्सिद्धिः स धर्मःʼ इति। यस्मात् आत्मिकी उन्नतिः तथा परमपुरुषार्थलाभः जायते स एव धर्मः। उक्तं च मनुमा—
ʻविद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः।
हृदयेनाभ्यनुज्ञातः यो धर्मस्तं निवोधत।।ʼ
मनुना धर्मस्य साक्षात् चतुर्विधं लक्षणमुक्तम्—
ʻवेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम्।।ʼ
वेदः, स्मृतिः, सदाचारः, आत्मतुष्टिश्चेति धर्मस्य साक्षात् लक्षणम्।

ब्राह्मणादिर्णानाम् अनुष्ठेयः धर्मः—मनोः मतानुसारेण ब्राह्मणादिवर्णानां संस्कारः, आचरणविधिः, कर्तव्यकर्म, नारीणां करतव्यम् इत्यादय एव धर्मः।

ब्राह्मणादिवर्णानां वर्णानां पालनीयः संस्कारसमूहः—
गर्भाधानम्—प्रधानतः शारीरविज्ञानसम्मत-प्रजननतत्त्वस्य उपदेशमूलकं व्यापारजातमेव गर्भाधानम् इत्युच्यते।

जातकर्म—नवजातकस्य वालकस्य नाभिच्छेदनात् प्राक् जातकर्म विधीयते। अस्मिन् अनुष्ठाने वालकस्य स्वगृह्योक्त-मन्त्रैः स्वर्ण-मधु-घृतानां प्राशनं क्रियते।

नामकरणम्—मनुना उक्तम्—
ʻनामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत्।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते।।ʼ
नवजातकस्य जन्मनः प्रभृति दशमदिवसे द्वादशदिवसे वा नामकरणं क्रियते। तद् यदि न सम्भवेत् तर्हि प्रशस्ते तिथौ, प्रशस्ते एव मुहूर्ते, शुभे नक्षत्रयुक्ते अहनि वा नामकरणं कारयेत्।
ब्राह्मणस्य मङ्गल्यं, क्षत्रियस्य बलान्वितं, वैश्वस्य धनसंयुक्तम्, शूद्रस्य च निन्दावाचकं हीनतावाचकं वा नाम कारयेत्। ब्राह्मणस्य शर्मवत्, क्षत्रियस्य रक्षासमन्वितं, वैश्यस्य पुष्टिसंयुक्तं, शूद्रस्य च प्रैष्यसंयुक्तम् उपपदं कार्यम्।
स्त्रीणां सुखोच्चार्यम्,  अक्रूरार्थवाचकं, विस्पष्टार्थं, मनोहरं, मङ्गलवाचकं, दीर्घस्वरान्तम् आशीर्वादवाचकं च भवेत्।

निष्क्रमण्म्—मनुना उक्तम्-- ʻचतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात्ʼ इति।
जन्मनः परं नवजातकं मासत्रयं जन्मगृहे रक्ष्यते। चतुर्थे मासि तस्माद् वहिरानीय पौर्णमास्यां चन्द्रदर्शनं, तथा शुभे अहनि सूर्यदर्शनं कारयेत्।

अन्नप्राशनम्—मनुना उक्तम्-- ʻषष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले।ʼ
शिशोः जन्मनः षष्ठे मासि अन्नप्राशनं कारयेत्। अथवा कुलधर्मानुसारेण यन्मङ्गलम् इष्टं तत् कर्तव्यम्।

चूडाकरणम्—प्रथमे तृतीये वा वर्षे सर्वेषामेव द्विजातीनां श्रुते  विधानानुसारेण चूडाकर्म कर्तव्यम्।

उपनयनम्—अस्य कालविषये मनुना उक्तम्—
ʻगर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्।
गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः।।ʼ
गरभकालाद् अष्टमे वर्षे ब्राह्मणस्य, एकादशे क्षत्रियस्य, वैश्यस्य च द्वादसे वर्षे उपनयन् कर्तव्यम्।

केशान्तसंस्कारः—द्विजातीनां मध्ये प्रचलितः केशश्मश्रु-कर्तनस्य अनुष्ठानविशेषः। अयं गोदानोऽपि उच्यते।
स्त्रीणां कृते विहितः संस्कारः—मनुना उक्तम्—
ʻअमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम्।।ʼ
स्त्रीणां जातकर्मादिसंस्कारः यथाकालमेव कर्तव्यः, परन्तु तत्र वैदिको मन्त्रः न उच्चार्यते।

गुरुशिष्ययोः आचरणम्—गुरुः सर्वदा मधुरेण कोमलेन च वाक्येन पाठदानं कुर्यात्। कदापि कठोरं वाक्यं न प्रयोज्यम्। शिष्याः अपि कदापि गुरोः विरुद्धाचरणं न कुर्युः।

अभिवादनं प्रत्यभिवादनं च—विद्याद्यधिकेन गुरुणा शय्यासने अध्याचरिते तत्र न समाविशेत्। स्वयं च शय्यासनस्थः प्रत्युत्थाय अभिवादयेत्। प्रत्यभिवादने विप्रः ʻआयुष्मान् भव सौम्यʼ इति वाच्यः। यज्ञादौ दीक्षितः जनः नाम्ना न वाच्यः।

मान्यता—मनुना उक्तम्—
ʻवित्तं बन्धुर्वयं कर्म विद्या भवति पञ्चमी।
एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम्।।ʼ
वित्तं, बन्धुः, वयः, कर्म, विद्या चेति मान्यस्थानानि। एषु उत्तरोत्तरं गरीयः।

सर्वेषाम् पालनीयः आचरणविधिः—नमुना उक्तम्—
ʻनारन्तुदः स्यादार्तोऽपि न परद्रोहकर्मधीः
ययास्योद्विजते वाचा नालोक्यां तामुदीरयेत्।।ʼ
परुषं वाक्यं, मिथ्याकथनं च वर्जयेत्, कस्यचित् अनिष्टमूलकं कार्यं न कुर्यात्, स्वयं च पीडितोऽपि कस्यचित् मर्मपीडाकरं वाक्यं न कथयेत्।

शूद्राणां धर्मः—ब्राह्मणादिवर्णानां शुश्रूषाकरणमेव शूद्राणां धर्मः-- ʻएतेषामेव वर्णानां शुश्रूषामनसूयया।ʼ

उपसंहारः—वर्णधर्मविषये तथा स्त्रीधर्मविषये मनुना यदुक्तं तत्र शूद्रान्, स्त्रीलाकान् च प्रति अवज्ञाप्रदर्शनं कृतम्। साम्प्रतिककाले मनोः कानिचिद् विधिविधानानि न समर्थनयोग्यानि। तथापि छात्राध्यापकयोः कर्तव्यविषये, आचरणविधिविषये, स्वजनं प्रति, वृद्धान् प्रति व्यवहारविषये, मान्यतादिविषये मनोरुपदेशः सुष्ठुसमाजभावनायाम् अद्यापि प्रासङ्गिकः इति शम्।

-------

२. कानि तावद् एकादश इन्द्रियाणि? भोगत्यागयोः कः प्रभेदः? इन्द्रियसंयमविषये आलोच्यताम्।
उत्तरम्—मनोर्मतानुसारेण एकादश इन्द्रियाणि-- ʻएकेदशेन्द्रियाण्याहुर्याणि पूर्वे मनीषिणः।ʼ एषु दश इन्द्रियाणि तावत्—
ʻश्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी।
पीयूपस्थं हस्कपादं वाक् चैव दशमी स्थिताः।।ʼ
कर्णः, त्वक्, चक्षुर्द्वयं जिह्वा, नासिका चेति पञ्च इन्द्रियाणि। पायूपस्थं हस्तपादं वाक् चैव पञ्च इन्द्रियाणि—इत्येवं दश इन्द्रियाणि। एभिः दशभिः इन्द्रियैः सह मनः एकादश इन्द्रियमित्युच्यते-- ʻएकादशं मनो ज्ञेयम्।ʼ
उल्लिखितेषु एकादशसु इन्द्रियेषु श्रोत्रादीनि प्रथमं पञ्च ज्ञानेन्द्रियाणि, ततः पाय्वादीनि पञ्च कर्मेन्द्रियाणि उच्यन्ते-- ʻबुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यानुपूर्वशः।
  कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते।।ʼ
कर्मेन्द्रिय-ज्ञानेन्द्रिययोः उभयप्रकारक-वैशिष्ट्यसत्त्वात् मनस्तु उभयात्मकम् इन्द्रियम् इत्युच्यते। अस्मिन् जिते सति अन्यानि इन्द्रियाणि अपि जेतुं शक्यन्ते—
ʻएकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम्।
यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ।।ʼ

भोगत्यागयोः प्रभेदः—भोगेन कदापि तृप्तिः न लभ्यते, उपरन्तु काम्यवस्तुभोगेन कामना भूयः बर्धते। अत्र आह मनुः-- ʻन जातु कामः कामानामुपभोगेन शाम्यति।
          हविषा    कृष्णवर्त्मेव भूय एवाभिबर्धते।।ʼ
मात्रातिरिक्तभोगात् शारीरिकं मानसिकं च क्षतिसाधनं भवति। अतः हेतोः शास्त्रेषु त्यागेन भोगं कर्तुमुपदेशः प्रदत्तः-- ʻतेन त्यक्तेन भुञ्जीथाः।ʼ त्यागेन विषयभोगे कृते भोगजनिता विपत्तिः नोपपद्यते। अतः काम्यवस्तुभोगापेक्षया त्याग एव श्रेयस्करः इति। अत्र आह मनुः—
ʻयश्चैतान् प्राप्नुयात् सर्वान् यश्चैतान् केवलांस्त्यजेत्।
 प्रापणात् सर्वकामाऩां परित्यागो विशिष्यते।।ʼ

इन्द्रिसंयमः—आध्यात्मिकविषये तथा वास्तवजीवनेऽपि साफल्यलाभाय इन्द्रियजयेन प्रयोजनम्। विषयान् प्रति इन्द्रियाणाम् आसक्तिवशात् जनः दूषितः भवति। पुनश्च तान्येव इन्द्रियाणि संयम्य स सिद्धिं लब्धुमर्हति--
ʻइन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्।
संनियम्य तु तान्येव ततः सिद्धिं नियच्छति।।ʼ
अधिकन्तु विषयेषु आसक्तस्य जनस्य अध्ययनादीनि न कदापि सिद्धिं प्रददाति—
ʻन विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हिचित्।ʼ
अनवधानतावशात् यदि एकमपि इन्द्रियं स्खलितं भवेत् तर्हि अन्यान्यपि इन्द्रियाणि दुष्टानि भवेयुः। एतेन सुदीर्घकालं यावद् बहुना आयासेन अर्जिता प्रज्ञा अपि विनश्यति।

इन्द्रियजयस्य उपायं फलं च—इन्द्रियजयस्य उपायविषये मनुना उक्तम्—
ʻन तथैतानि शक्यन्ते संनियन्तुमसेवया।
विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः।।ʼ
केवलं शुष्केन निवृत्तिमार्गेण इन्द्रियाणि जेतुं न शक्यन्ते। यतः अनेन विषयवासना न विनश्यते, परन्तु  अन्तरे सुप्ता स्थित्वा यथाकालं सा पुनरपि जागर्ति। तर्हि क उपायः इन्द्रियसंयमस्य? अतएव आह मनुः— ʻयथा ज्ञानेन नित्यशःʼ।  ज्ञानेनैव इन्द्रियाणि जेतव्यानि। अत्र ज्ञानम् इत्यनेन पार्थिवविषयाणाम् अनित्यतोपलब्धिः वोद्धव्या।
इन्द्रियजयस्य फलविषये मनुना उक्तम्—
ʻवशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा।
सर्वान् संसाधयेदर्थानक्षिण्वन् योगतस्तनुम्।।ʼ
सर्वाणि इन्द्रियाणि वशीकृत्य मनश्च संयम्य शरीरम् अपीडयित्वा सहजेन उपायेन धर्मार्थ-काम-मोक्षाणां पुरुषार्थलाभाय यतेत इति।
उपसंहारः—विषयवासनां समूलम् उत्पाटयितुं भोगसुखस्य असारतोपलब्ध्या प्रयोजनम्। अतः हेतोः गुरोः उपदेशानुसारेण शास्त्रनिर्दिष्टे मार्गे परमपुरुषस्य उपासनायां कृतायां कामनायाः उपशमः भवति। अतः न भोगेन, न वा शुष्कवैराग्येण, अपि तु जागतिक-वस्तुनिचयस्य अनित्यतोपलब्धिरूप-ज्ञानेन एव विषयतृष्णा निवर्तेत इति सारः।
--------

Comments

Unknown said…
অসাধারণ

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1