ads

ad

3rd sem, C-6, याज्ञवल्क्यसंहिता, टीप्पणी लेखनीया


3rd sem, C-6, याज्ञवल्क्यसंहिता, टीप्पणी लेखनीया

१.  प्राड्विवाकः--
प्राड्विवाकः एकः पारिभाषिकः शब्दः। महर्षिः याज्ञवल्क्य तस्य ग्रन्थस्य व्यवहाराद्याये आह—विंशति-प्रकार-विवाद-विषये व्यवहारकार्य-निर्वाहाय राज्ञा वेद-मीमांसा-व्याकरणादि-शास्त्रेषु अभिज्ञाः, धर्मज्ञाः, सत्यवादिनः, शत्रौ मित्रे च समदर्शिनः सभासदः नियोज्याः। परन्तु राजा कार्यान्तरेषु व्यापृतत्वात् स्वयं यदि व्यवहारकार्य-निर्वाहे असमर्थः भवेत् तर्हि व्यवहारदर्शने पूर्वोक्तैः सभ्यैः सह सर्वधर्मवेत्तारं ब्राह्मणं नियोजयेत्। अयं ब्राह्मणः  प्राड्विवाकः इत्युच्यते।
आचार्यस्य कात्यायनस्य मतानुसारेण प्राड्विवाकः दान्तः, कुलीनः, मध्यस्थः, अनुद्वेगकरः, स्थिरः, परत्र भीरुः, धर्मनिष्ठः, क्रोधवर्जितश्च भवेत्। कात्यायनः भूय आह—ब्राह्मणः यत्र न स्यात् तत्र क्षत्रियं प्राड्विवाकः-रूपेण नियोजयेत्, परन्ते वैश्यः शूद्रः वा कदापि न नियोज्यः।
ʻमिताक्षराʼ टीकायां ʻप्राड्विवाकःʼ-शब्दस्य अर्थः कृतः-- ʻअर्थिप्रत्यर्थिनौ पृच्छति इति प्राट्, तयोर्वचनं विरुद्धम् अविरुद्धं च सभ् सह विविनक्ति विवेचयति इति विवाकः। प्राच् चासौ विवाकश्चेति प्राड्विवाकः
अतः उक्तम्—
ʻविवादानुगतं पृष्ट्वा ससभ्यस्तत्प्रयत्नतः।
विचारयति येनासौ प्राड्विवाकस्ततः।।ʼ
आचार्येण वृहस्पतिना तस्य व्यवहारमयूखे उक्तम्—
ʻविवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च।
नयपूर्वं प्राक् वदति प्राड्विवाकस्तथा स्मृतः।।ʼ

-------


२.  उपनिधि
उप-नि-पूर्वकस्य धा-धातोः कि-प्रत्ययेन ʻउपनिधिʼ इति शब्दः निष्पण्णः। आचार्येण याज्ञवल्क्येन उपनिधेः लक्षणं कृतम्—
ʻवासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत्।।ʼ
वासनस्थं यद् द्रव्यं रूपसंख्यादिविशेषम् अकथयित्वा मुद्रितम् अन्यस्य हस्ते रक्षार्थं विश्रम्भात् स्तापयेत्, तद् द्रव्यम् औपनिधिकम् उच्यते। औपनिधिकं द्रव्यं यथा रक्षितं तथैव स्थापकाय प्रतिदेयम्।
आचार्येण नारदेन उक्तम्—
ʻअसंख्यातमविज्ञातं समुद्रं यन्निधीयते।
तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः।।ʼ
औपनिदिक-द्रव्यस्य प्रत्यर्पणविषये नियमावली—
प्रथमतः, उपनिधिभूतं द्रव्यम् राज्ञा गृहीतं वा, दैवेन विनष्टं वा, चौरेण अपहृतं वा न दाप्यः यस्मिन् उपहितम्। परन्तु याचिते अपि यदि न ददाति, तर्हि विनष्टम् अपहृतमपि तद्द्रव्यस्य मूल्यं दण्डरूपेण उपनिधेः स्थापकाय दद्यात्।
द्वितीयतः, यः जनः द्रव्यस्वामिनः अनुमतिं विना स्वेच्छया आजीवन् उपनिहितं द्रव्यं भुङ्क्ते व्यवहरति, प्रयोगादिना लाभार्थम् उपभोगानुसारेण लाभानुसारेण च स दण्ड्यः। उपभोगे सवृद्धिकं, व्यवहारे च सलाभं तं च उपनिधिं धनिने दाप्यः।

-------

३. प्रतिभूः
प्रतिभूत्वं कथं स्वीक्रियते इत्यस्मिन् विषये ʻमिताक्षराʼटीकायाम् उक्तम्-- ʻप्रातिभाव्यं नाम पुरुषान्तरेण सह समयःʼ इति। अधमर्मम् ऋणदानसमये उत्तमर्णाधमर्णयोः अनुमतिक्रमेण यः तृतीयः जनः विश्वासार्थं नियुज्येत, स प्रतिभूः इत्युच्यते।
विषयभेदात् प्रतिभूः त्रिविधः। यथा—दर्णनप्रतिभूः, प्रत्ययप्रतिभूः, दानप्रतिभूश्चेति। अस्मिन् विषये याज्ञवल्क्य आह-- ʻदर्शने प्रत्यये दाने च प्रातिभाब्यं विधीयतेʼ इति।
व्यवहारकाले दर्शनापेक्षायाम् ʻएनम् अधमर्णं दर्शयिष्यामिʼ इति यः स्वीकरोति, स दर्शनप्रतिभूः इति।
ʻमम प्रत्ययेन अस्य धनं प्रयच्छ, नायं त्वां वञ्चयिष्यते, यतः अमुकस्य पुत्रः अयम्, उर्वरप्राया भूरस्य, ग्रामवरः अस्य अस्तिʼ इति यः वदति, ल प्रत्ययप्रतिभूः इति।
ʻयदि अयं न ददानि तदानीम् अहमेव दास्यामिʼ इति यः स्वीकरोति, स दानप्रतिभूः इति।
प्रतिभुवा परिशोध्यम् ऋणम्
अधमर्णस्य अदर्शने, विश्वासव्यभिचारे च राज्ञा प्रस्तुतं धनम् उत्तमर्णस्य दाप्यौ। दाने व्यर्थे सति दानप्रतिभुवः पुत्रा अपि तद् दाप्याः। यदुक्तं याज्ञवत्क्येन-- ʻआद्यौ तु वितथे दाप्यावितरस्य सुता अपि।ʼ
दर्शनप्रतिभूः दानप्रतिभूः वा यत्र मृतः तत्र तत्पुत्राः ऋणं संविभज्यय स्वांशेन दद्युः। एकम् अधमर्णम् आश्रित्य बहुषु प्रतिभूषु सत्सु उत्तमर्णः यथारुचि ऋणस्य आदानं कुर्यात्।
यत्र प्रतिभूः तत्पुत्रः वा सर्वजनसमक्षं राज्ञा उत्तमर्णाय ऋणं दाप्यः, तत्र अधमर्णैः द्विगुणं धनं प्रतिदातव्यम्।

-------

४. दायः—
आचार्यः विज्ञानेश्वरः दाय-विषये आह-- ʻतत्र दाय-शब्देन यद्धनं स्वामिसम्बन्धादेव निमित्तात् अन्यस्य स्वं भवति तदुच्यते।ʼ
आचार्येण नारदेन उक्तम्—
ʻविभागोऽर्थस्य पित्र्यस्य तनयैर्यत्र कल्प्यते।
दायभाग इति प्रोक्तं व्यवहारपदं वुधैः।।ʼ
अत्र ʻदायʼ-शब्दस्य अर्थः पितृधनमिति। यदा पुत्रपौत्रादिभिः पितृपितामहस्य धनं संविभज्य स्वभागः गृह्यते तदा तद् दायभाग इत्युच्यते।

दायः द्विविधः—अप्रतिबन्धः सप्रतिबन्धश्चेति।
अप्रतिबन्धः दायः—मिताक्षरा-टीकायामुक्तम्—
ʻपुत्राणां पौत्राणां च पुत्रत्वेन पौत्रत्वे च पितृधनं पितामहधनं च स्वं भवति इति अप्रतिबन्धः दायः।ʼ
सप्रतिबन्धः दायः-- मिताक्षरा-टीकायामुक्तम्—
ʻपितृव्यभ्रात्रादीनां तु पुत्राभावे स्वाम्यभावे च स्वं भवति इति सप्रतिबन्धः दायः।ʼ
पिता यदि स्वयं धनविभागं कर्तुमिच्छति, तर्हि आत्मेच्छया धनविभागं कुर्यात्। अथवा ज्येष्ठपुत्रं श्रेष्ठभागं, सर्वस्मै समांशं वा दातुमर्हति। समांसेन धनविभागे पत्न्यः अपि समांशिकाः कार्याः। मातापित्र्योः मृत्योः परम् पुत्राः समांशेन धनम् ऋणं च विभज्य गृह्णीयुः। कन्याः अपि मातृधनम् ऋणं च तथैव गृह्णीयुः। दायभागविषये विशेषः नियमः अपि अस्ति।
-------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—