ads

ad

3rd sem, C-6, याज्ञवल्क्यसंहिता, संक्षिप्तं प्रश्नोत्तरम्


3rd sem, C-6, याज्ञवल्क्यसंहिता,  संक्षिप्तं प्रश्नोत्तरम्

.  याज्ञवल्क्यसंहितायाः रचयिता कः?
उत्तरम्—मिथिलानिवासी योगिवरः याज्ञवल्क्यः याज्ञवल्क्यसंहितायाः रचयिता।

. याज्ञवल्क्यसंहिता किंजातीयकः ग्रन्थः?
उत्तरम्—याज्ञवल्क्यसंहिता स्मृतिशास्त्रजातीयः ग्रन्थः।

. याज्ञवल्क्यसंहितायां कति अध्यायाः सन्ति? तेषां नामनि लिख्यताम्।
उत्तरम्—याज्ञवल्क्यसंहितायां त्रयः अध्यायाः सन्ति। ते च आचाराध्यायः, व्यवहाराध्यायः, प्रायश्चित्ताध्यायश्चेति।

४. याज्ञवल्क्यसंहितायाः विख्यातः टीकाग्रन्थः कः? अस्य रचयिता च कः?
उत्तरम्—याज्ञवल्क्यसंहितायाः विख्यातः टीकाग्रन्थः ʻमिताक्षराʼ इति। अस्य रचयिता आचार्यः विज्ञानेश्वरः।
अन्याश्च टीकाः यथा—आचार्येण अपरार्केण रचिता अपरार्कटीका, विश्वरूप-रचिता बालक्रीडाटीका।

५. को नाम व्यवहारः?
उत्तरम्— आचार्येण नारदेन व्यवहार-शब्दस्य अर्थः कृतः—
ʻवि-नानार्थेऽव सन्देहे हरणं हार उच्यते।
नानासन्देहहरणाद् व्यवहार इति स्मृतः।।ʼ
मिताक्षराटीकायामुक्तम्—
ʻअन्यविरोधेन स्वात्मसम्बन्धितया कथनं व्यवहारः। यथा कश्चिद् इदं क्षेत्रं मदीयमिति कथयति, अन्योऽपि तद्विरोधेन मदीयमिति।ʼ

६. किं तावद् व्यवहारपदम्?
उत्तरम्— याज्ञवल्क्येन उक्तम्--
स्मृत्याचारव्यपेतेन मार्गेणाधर्षितैः परैः।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत्।।ʼ

७. व्यवहारस्य कति पादाः? लिख्यताम्।
उत्तरम्—व्यवहारस्य चत्वारः पादाः। यथा—भाषापादः, उत्तरपादः, क्रियापादः, साध्यसिद्धिपादश्चेति।

८. व्यवहार-शब्दस्य व्युत्पत्तिः तिक्यताम्।
उत्तरम्—वि-अव-पूर्वक-हृधातोः घञ्-प्रत्ययेन व्यवहार इति शब्दः निष्पण्णः।

९. कतिपय-विवादपदानां नाम लिख्यताम्।
उत्तरम्—याज्ञवल्क्यकथितं कतिपय-विवादपदं यथा—ऋणादानम्, सम्भूयसमुत्थानम्, क्रीतानुशयः, सीमाविवादः, वेतनादानम्, वाक्पारुष्यम्, दण्डपारुष्यम्, साहसम्, स्तेयः इत्यादि।

०. प्रमाणं कतिविधम्?
उत्तरम्—प्रमाणं प्रथमतः द्विविधम्—मानुषं दैविकं चेति। तत्र मानुषं प्रमाणं त्रिविधम्। यथा—लिखितं, भुक्तिः, साक्षिणश्चेति।

११. क उच्यते प्राड्विवाकः?
उत्तरम्-- राजा कार्यान्तरेषु व्यापृतत्वात् स्वयं यदि व्यवहारकार्य-निर्वाहे असमर्थः भवेत् तर्हि व्यवहारदर्शने पूर्वोक्तैः सभ्यैः सह सर्वधर्मवेत्तारं ब्राह्मणं नियोजयेत्। अयं ब्राह्मणः प्राड्विवाकः इत्युच्यते।
आचार्येण वृहस्पतिना तस्य व्यवहारमयूखे उक्तम्—
ʻविवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च।
नयपूर्वं प्राक् वदति प्राड्विवाकस्तथा स्मृतः।।ʼ

१२. क उच्यते प्रतिभूः?
उत्तरम्-- अधमर्णम् ऋणदानसमये उत्तमर्णाधमर्णयोः अनुमतिक्रमेण यः तृतीयः जनः विश्वासार्थं नियुज्येत, स प्रतिभूः इत्युच्यते।

१३. प्रतिभूः कतिविधः?
उत्तरम्-- विषयभेदात् प्रतिभूः त्रिविधः। यथा—दर्णनप्रतिभूः, प्रत्ययप्रतिभूः, दानप्रतिभूश्चेति। अस्मिन् विषये याज्ञवल्क्य आह-- ʻदर्शने प्रत्यये दाने च प्रातिभाब्यं विधीयतेʼ इति।

१४. को नाम दायः?
उत्तरम्-- आचार्यः विज्ञानेश्वरः दाय-विषये आह-- ʻतत्र दाय-शब्देन यद्धनं स्वामिसम्बन्धादेव निमित्तात् अन्यस्य स्वं भवति तदुच्यते।ʼ

१५. क उच्यते संसृष्टी?
उत्तरम्— सम्-पूर्वक-सृ-धातोः क्त-प्रत्ययेन ʻसंसृष्टʼ इति शब्दः निष्पण्णः। अस्यार्थः विभक्तं धनं पुनर्मिश्रीकृतम् । एवम्प्रकारकं धनं यस्यास्ति स संसृष्टी इत्युच्यते।
ʻमिताक्षराटीकायां उक्तम्-- ʻविभक्तं धनं पुनर्मिश्रीकृतं संसृष्टं, तदस्यास्ति इति संसृष्टीʼ ।

१६. किमुच्यते संसृष्टधनम्?
उत्तरम्-- विभक्तं धनं पुनर्मिश्रीकृतं संसृष्टम् इत्युच्यते।

१७. किं नाम ऋणादानम्?
उत्तरम्—आचार्येण नारदेन ऋणादानस्य लक्षणं कृतम्—
ऋणं देयमदेयञ्च येन यत्र यथा च यत्।
ʻदानग्रहणधर्माभ्यामृणादानमिति स्मृतम्।।ʼ

१८. का खलु वृद्धिः? वृद्धिः कतिविधा?
उत्तरम्—ऋणग्रहणकाले उत्तमर्णाधमर्णयोः परस्पर-सम्मतिक्रमेण मूलोपरि यः निर्दिष्टः परिमितः अर्थः मासिकं वार्षिकं वा अधमर्णेन उत्तमर्णाय प्रदेयः स एव वृद्धिः इत्युच्यते।

१९. वृद्धिः कतिविधा?
उत्तरम्-- वृद्धिः चतुर्विधा। यथा—कालिकावृद्धिः (मासि प्रदेया), कायिकावृद्धिः (प्रत्यहं प्रदेया), कारितावृद्धिः (उत्तमर्णाधमर्णयोः परस्पर-सम्मतिक्रमेण स्थिरीकृता), तथा चक्रवृद्धिः (वृद्धेः वृद्धिः)।

०. को नाम आधिः?  
उत्तरम्—आ-पूर्वक-धातोः कि-प्रत्ययेन ʻआधिʼ इति शब्दः निष्पण्णः। बन्धकीकृतं द्रव्यम् आधिः इत्युच्यते।
(मिताक्षरायामुक्तम्-- ʻआधिर्नाम गृहीतस्य द्रव्यस्य उपरि विश्वासार्थम् अधमर्णेन उत्तमर्णः अधिक्रियतेʼ )

२१. को नाम साक्षी?
उत्तरम्—अर्थि-प्रत्यर्थिनोः कार्यलापं साक्षाद् दृष्ट्वा श्रुत्वा च विवादस्य सत्य-मिथ्या-निर्णये यः साहाय्यं करोति स एव साक्षी इत्युच्यते। यथाह मनुः-- ʻसमक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति।ʼ

२२. साक्षी कतिविधः?
उत्तरम्—साक्षी प्रथमतः द्विविधः—कृतः अकृतश्चेति। साक्षित्वेन निरूपितः कृतः, अनिरूपितः अकृतः। कृतसाक्षी पुनः पञ्चविधः। अकृतसाक्षी षड्विधः। एवम् एकादशविधः साक्षी।

२३. क उच्यते कूटसाक्षी?
उत्तरम्—याज्ञवल्क्येन उक्तम्—
ʻउक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः।
द्विगुणा वाऽन्यथा व्रूयुः कूटाः स्युः पूर्वसाक्षिणः।।ʼ

२४. क उच्यते कूटकृत्?
उत्तरम्—कूटसाक्षि-नियोगकारिणं कूटकृत् इत्युच्यते।

२५. किं नाम स्त्रीधनम्?
उत्तरम्--  याज्ञवल्क्येन स्त्रीधनस्य लक्षणं कृतम्—
ʻपितृ-मातृ-पति-भ्रातृदत्तमध्युपागतम्।
आधिवेदनिकाद्यञ्च स्त्रीधनं परिकीर्तितम्।।ʼ

२६. किं नाम साहसम्?
उत्तरम्-- याज्ञवल्क्येन साहसस्य लक्षणं कृतम्—ʻसामान्यद्रव्यप्रसभहरणात् साहसं स्मृतम्।ʼ

२७. को नाम स्तेयः?
उत्तरम्-- ʻस्तेयʼ इत्यस्य अर्थः ʻचौर्यम्ʼ इति। विविधैः उपायैः छलयित्वा सुप्त-मत्त-प्रमत्तेभ्यः द्रव्यापहरणं स्तेयमुच्यते।

२८. किं नाम पारुष्यम्? कतिविधं च तत्?
उत्तरम्—कञ्चित् प्रति अन्यस्य वेदनादायकः व्यवहारः पारुष्यम् इत्युच्यते।
पारुष्यं द्विविधम्—वाक्पारुष्यम् दण्डपारुष्यम् चेति।

२९. किं तावद् वाक्पारुष्यम्?
उत्तरम्— आक्रोशवशात् कस्यचित् देश-जाति-कुलादीन् आक्रम्य प्रतिकूलार्थम् उद्वेगजननार्थं च प्रयुक्तं वाक्यं वाक्पारुष्यम् उच्यते।
(आचार्येण नारदेन वाक्पारुष्यस्य लक्षणं कृतम्—
ʻदेशजातिकुलादीनामाक्रोशं न्यङ्गसंयुतम्।
यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते।।ʼ)

३०. किं तावद् दण्डपारुष्यम्?
उत्तरम्— हस्तपादायुधादिभिः परगात्रेषु यद् दुःखोत्पादनं  तथा भस्मादिभिः संस्पर्शरूपं मनोदुःखोत्पादनं तद् दण्डपारुष्यम् उच्यते।

३१. किमुच्यते उपनिधि?
उत्तरम्-- आचार्येण याज्ञवल्क्येन उपनिधेः लक्षणं कृतम्—
ʻवासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत्।।ʼ

३२. किं नाम सम्भूयसमुत्थानम्?
उत्तरम्-- ʻसम्भूयʼ इत्यस्य अर्थः—मिलितभावेन। ʻसमुत्थानम्ʼ इत्यस्य अर्थः—लाभार्थं वाणिज्यादि कर्म। अतः समवाय-भित्तिकं वाणिज्यादिकर्म सम्भूयसमुत्थानम् इत्युच्यते।
(मिताक्षरायामुक्तम्—ʻसर्वे वयम् इदं कर्म मिलिताः कुर्मः इत्येवंरूपा सम्प्रतिपत्तिः समवायः।ʼ)

३३. क उच्यते क्रीतानुशयः?
उत्तरम्— मूल्येन पण्यं क्रीत्वा क्रेता यदि तत् न बहुमन्यते, तर्हि तत् क्रीतानुशय इत्युच्यते।

३४. क उच्यते अस्वामिविक्रयः?
उत्तरम्—अन्येन निक्षिप्तं, नष्टं वा द्रव्यं लब्ध्वा, अपहृत्य वा यदि तत् स्वामिनः असमक्षं विक्रियते, तर्हि सः अस्वामिविक्रयः उच्यते।

३५. याज्ञवल्क्यस्य मतानुसारेण पुत्रः कतिविधः?
उत्तरम्-- याज्ञवल्क्यस्य मतानुसारेण पुत्रः द्वादशविधः। यथा—
औरसपुत्रः, पुत्रिकापुत्रः, क्षेत्रजपुत्रः, गूढजपुत्रः, कानीनपुत्रः, पौनर्भवपुत्रः, दत्तकपुत्रः, क्रीतपुत्रः, स्वयंकृतपुत्रः, स्वयंदत्तपुत्रः, सहोढजपुत्रः, अपविद्धपुत्रः इति।

३६. क उच्यते पुत्रिकापुत्रः?
उत्तरम्—पुत्रिकायाः (कन्यायाः) पुत्रः इति पुत्रिकापुत्रः।

३५. क उच्यते कानीनपुत्रः?
उत्तरम्—कुमार्याः गर्भजातः पुत्रः कानीनपुत्रः उच्यते। स मातामहपुत्रः इति गण्यते।

३६. क उच्यते क्रीतपुत्रः/कृत्रिमपुत्रः/अपविद्धपुत्रः?
क्रीतपुत्रः—मातापितृभ्यां अन्यसपीपं विक्रीतः पुत्रः क्रीतपुत्रः इत्युच्यते।
कृत्रिमपुत्रः—यः कस्यापि पुत्रार्थिनः जनस्य पुत्ररूपेण आत्मानं स्वीकरोति, स स्वयंकृतः पुत्रः कृत्रिमपुत्रः उच्यते।
अपविद्धपुत्रः-- मातापितृभ्यां परित्यक्तः अन्येन गृहीतः पुत्रः अपविद्धपुत्रः इत्युच्यते।

Comments

N.K.D said…
অত‍্যুপাদেয়ম্ ।

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1