ads

ad

3rd Sem, SEC-1, Unit-1 (Dialogue writing in Sanskrit)


3rd Sem, SEC-1, Unit-1 (Dialogue writing in Sanskrit)

संस्कृतभाषया संलाप-रचना—

11.   कञ्चिद् ऋतुमवलम्ब्य द्वयोः मित्रयोः संलापम्
(वर्षाकालमवलम्ब्य कथोपकथनम्)

अमलः—अहो मधुरम्, मधुरम्। वृष्टिः पतति।

श्यामलः—मित्र, किं मधुरम्? अपि वृष्टिः भवतः प्रियम्?

अमलः—अतीव प्रियम्।

श्यामलः—मम तु न। मम चिन्ता—कथमहं गृहं गच्छामि? छत्रं न आनीतं मया।

अमलः—मित्र, इदमेव वर्षाणाम् आनन्दम्। अहं गातुमिच्छामि। मम हृदयमद्य नृत्यति मयूर इव।

श्यामलः—मन्ये भवान् अधिकमेव कवित्वं करोति। कथं ते वर्षा अधिकं रोचते न जाने। न मे वर्षा किञ्चिदपि रोचते।

अमलः—मित्र, ऋतूणां वर्षा श्रेष्ठा इत्यहं मन्ये। निदाघस्य दावदाहेन यदा पृथिवी शुष्कप्राया प्राणहीना च भवति, धरणी क्लिष्टा भवति, तदा वर्षा आनयति सजीवता। वर्षाणां स्पर्शेन पृथिवी प्राणप्रचुरा भवति। मृत्तिका सरसा भवति, वृक्षाः च हरित्पत्रैः सज्जिताः भवन्ति।

श्यामलः—कथं विरतः भवान्? इदमपि वदतु—वर्षाकाले जनाः गृहे आबद्धाः जाताः। गमनमार्गाः कर्दमाक्ताः पिच्छिलाशाच भवन्ति।

अमलः—वर्षाकालस्य सौन्दर्यापेक्षया अयं तु तुच्छः व्यापारः।  अस्मिन् काले मेघमेदुरः आकाशः, प्रकृतेः श्यामल-शोभा, वृष्टिपातस्य श्रुतिमधुरः शब्दः कस्य न प्रियम्?

श्यामलः—परन्तु अस्मिन् काले अतिवृष्ट्या प्लावनं भवति, शस्यक्षेत्राणि विनष्टं यान्ति, साधारणजनानां दुर्दशा चरमावस्थां प्राप्नोति,  नानाविधानाम् रोगाणां प्रादुर्भावः जायते। तथापि वर्षाकालः भवतः प्रियम्?

अमलः—पश्यतु मित्र, सर्वम् अत्यन्तं गर्हितम्। ननु भवता एव विचार्यम्—यदि वर्षा नायान्ति, तर्हि कथं शस्योत्पादनं भविष्यति, अस्माकं खाद्यं कस्माद् आगमिष्यन्ति? खाद्यं विना कथं वयं जीविष्यामः?

श्यामलः—यदेव वदतु भवान्, वर्षा मम न प्रियम्। मम प्रियं तु शिशिरकालः। शान्तं, स्तब्धं, समाहितं, तपोमयं च रूपं शिशिरस्य।

अमलः—परन्तु शिशिरे वृक्षाणां पत्राणि पतन्ति, प्रकृतिः रिक्ता विवर्णा च भवति।

श्यामलः-- पश्यतु मित्र, इदमेव शिशिरस्य सौन्दर्यम्। रिक्तता एव तस्य सौन्दर्यम्, तस्य भूषणम्।

अमलः—परन्तु रिक्तता न जीवनस्य भूषणम्।

श्यामलः—सत्यमुक्तं भवता। परन्तु शिशिरस्यापि प्राचुर्यमस्ति। शस्यसमारोहः, पुष्पसमारोहः अस्मिन्नेव काले भवति। रोगस्य प्रकोपोऽपि नास्ति। जनाः अपि सुखेन वसन्ति।

अमलः—परन्तु शस्यसमारोहस्य मूले तु वर्षाकालस्य वृष्टिधारा एव अस्ति।

श्यामलः—सुष्ठु उक्तं भवता। वर्षासु उप्तं शस्यं शिशिरकाले पूर्णतां प्राप्तम्।

अमलः—अयमेव कालस्य नियमः। सर्वर्तु-समवायेन एव प्रकृतिः पूर्णं रूपं प्राप्नोति।

श्यामलः—भवतु, प्रयोजनाय एव भवतः मतं स्वीकृतं मया। अतः यावद् वृष्टिः न निवर्तते तावत् श्रावयतु वर्षागीतम्।

अमलः—तथास्तु।
----------

2. छात्रराजनीतिविषये छात्राभिभावकयोः संलापं रचयत। 

अभिभावकः (छात्रं प्रति)—कथं त्वमधुना गृहे प्रायशः एव न दृश्यते? परीक्षा तव न अतिदूरं वर्तते। ननु त्वमेव अस्माकम् आशास्थलम्।

छात्रः—पितः, अहमधुना विविधेषु कर्मसु नियुक्तः।

अभिभावकः—किं वा देशोद्धारं करोषि? तव कर्म तु केवलम् राजनीतिः, दलस्य कर्म च। त्वमधुना अधिकमेव अध्ययनात् विरतः। एतत् न शोभनम्।

छात्रः—पितः, मम कृते भवता चिन्ता न करणीया। परन्तु राजनीतिः कथं दोषावहा?

अभिभावकः—तव प्रश्नस्य उत्तरं सहजेन न दातव्यम्। परन्तु राजनीतौ योगदानव्यापारे छात्रैः काचित् सावधानता अवलम्बनीया।

छात्रः—किञ्चित् सविस्तरं वदतु भवान्।

अभिभावकः—पश्य, व्यक्तिस्वार्थचरितार्थात् दलीयस्वार्थचरितार्थाद् वा राजनीतिः अधुना कलुषिता। देशस्य सामग्रिक-कल्याणसाधनाय स्वल्प एव नेतारः चिन्तयन्ति। आत्मनां स्वार्थसिद्धये एव ते छात्रान् व्यवहरन्ति।

छात्रः—न हि पितः, अत्रभवता सह नाहं सर्वतोभावेन सहमतं पोषयामि।

अभिभावकः—कथं न?

छात्रः-- कामम् राजनीतौ केषाञ्चिद् जनानां स्वार्थम् उद्देश्यं वा अस्ति, परन्तु सामग्रिकभावेन राजनीतिः न दोषावहा। महात्मा गान्धी, नेताजी सुभासचन्द्रः वसुः, चित्तरञ्जनः दासः, नेहेरु-महोदयाः प्रमुखाः भारतीय-राजनीतेः महान् व्यक्तिवर्गः। तेषाम् आह्वानेन शतं शतं छात्राः देशमातृकायाः मुक्त्यर्थं आत्मोत्सर्गं कृतवन्तः।

अभिभावकः  परन्तु पुत्र, तदा परिस्थितिः भिन्ना आसीत्। अस्माकं देशः पराधीनः आसीत्, साम्राज्यवादि-शासनेन शोषणेन च देशवासिनः उत्पीडिताः, निपीडिताः आसन्। तदा तेषां महतां राजनीतिविदाम् आदर्शेन छात्राः उद्वुद्धाः अभवन्। अद्य क्व स आदर्शः? का सा परिस्थितिः?

छात्रः—न हि पितः, अद्यापि शोषणं चलति। सीमहीनमद्य देशस्य साधारणजनानां दुःख-दारिद्र्यम्, असंख्याः युवक-युवतयः कर्महीनाः,  धनिनः क्रमशः अधिकं धनशालिनः भवन्ति, दरिद्राः क्रमशः अधिकं दरिद्राः भवन्ति। देशे शासनमाध्यमेन शोषणं चलति। अस्यां स्थितौ अपि अस्माभिः किमपि करणीयं नास्ति?

अभिभावकः— पुत्र, सुष्ठु उक्तं त्वया। परन्तु राजनीतिकरणे यैः ज्ञान-बुद्धि-स्थैर्यादिभिः प्रयोजनम् छात्रेषु तानि न विद्यन्ते। अतः तैः प्रथमम् ज्ञानार्जने विद्यार्जने च यतितव्यम्। अनेनैव तेषां बुद्धिः परिपक्वा जायेत। ततः राजनीतौ प्रवेशः समीचीनं भवेत्।

छात्रः—पश्यतु पितः, अद्य अस्माकं छात्राणां जीवनम् बहुप्रकारेण विडम्बितम्। अस्माकं समक्षं न आशा, न कोऽपि मार्गनिर्देशः, केवलं हताशा, अन्यत् सदर्थकं किमपि नास्ति। अस्यां स्थितौ केवलं विद्याचर्चया कालातिपातः सङ्कीर्ण-मानसिकतायाः, तथा आत्मकेन्द्रिकतायाः परिचयः। अतः ʻछात्राणामध्ययनं तपःʼ इति आप्तवाक्यम्ʼ अधुना अप्रासङ्गिकम्।

अभिभावकः— पुत्र, कस्मिन्नपि काले अध्ययनम् न हानिकरम्, न वा अप्रासङ्गिकम्। आशा-मर्गनिर्देशादि-विषये त्वया यदुक्तं तत्तु विद्याचर्चया एव सम्भवेत्। नेता यदि योग्यः न भवेत्, स्वविषये ज्ञानवान् न भवेत्, तर्हि कथम् स आत्मानं प्रतिष्ठापयेत, प्रतिपक्षोपरि वा कथं विजयं लभेत?

छात्रः—पितः, अध्ययनस्य गुरुत्वं सम्यग् बुध्यते अस्माभिः। परन्तु समाजस्य सर्वस्मिन् क्षेत्रे अन्यायं दुर्नीतिं दृष्ट्वा विचलिताः वयम्। नाधुना सोढुं शक्यते। अतिद्रुतं अस्माभिः प्रतिकार्यम्। अतः हेतोः राजनीतिः अवलम्बिता।

अभिभावकः— पश्य पुत्र, छात्राः, युवक-युवतयः एव अस्माकम् आशास्थलम्। यौवने वयसि यूयम् आवेगप्रवणाः। चतुराः राजनीतिकाः तद् जानाति। ते सर्वदा स्वार्थसिद्धये यूष्मान् प्रतारयन्ति। अत्रैव मम प्रतिवादः। यूष्मान् अहं विपथगामिनः दृष्ट्वा गभीरां मर्मपीडाम् अनुभवामि।

छात्रः—पितः, मम कृते अत्रभवता दुश्चिन्ता न करणीया। ननु भवता एव उपदिष्टः-- ʻपुत्र, न्याय्यम् आचरितव्यम्, अन्याय्यं प्रतिकार्यम्।ʼ तमेव मार्गम् अहम् अनुसरामि।
------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—