Posts

Showing posts from January, 2019

ads

ad

संस्कृतभाषया व्याख्या कार्या— किरातार्जुनीयम्, प्रथमः सर्गः,C-4, 2nd sem, cbpbu

Image
संस्कृतभाषया व्याख्या कार्या— किरातार्जुनीयम्, प्रथमः सर्गः,C-4, 2nd sem, cbpbu
१. स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किम्प्रभुः। सदानुकलेषु हि कुर्वते रतिं नृपेष्वमत्येषु च सर्वसम्पदः।।(श्लोक—५)
उत्सः-- श्लोकोऽयं महाकवि-भारवि-विरचितस्य किरातार्जुनीयम् इति महाकाव्यस्य प्रथमसर्गात् उद्धृतः।
प्रसङ्गः—कपटद्यूतक्रीडायां हृतसर्वस्वः युधिष्ठिरः दुर्योधनस्य राज्यशासनवृत्तान्तं विज्ञातुम् एकं वनेचरं चररूपेण नियुक्तवान्। स वनेचरः कुरुराज्यं प्रविश्य सर्वं विज्ञाय द्वैतवने युधिष्ठिराय निवेदयामास। राज्यस्य समृद्धिसाधनार्थं राजमन्त्रिणोः सम्पर्कविषये यदुक्तं तदत्र श्लोके विवृतम्—स किं सखेति।
अन्वयः—यः अधिपं साधु न शास्ति, स किंसखा।, यः हितात् न संशृणुते स किम्प्रभुः। हि नृपेषु अमात्येषु च अनुकूलेषु सर्वसम्पदः सदा रतिं कुर्वते।
व्याख्या—राजकार्ये मन्क्रणाकार्यम् आवश्यकम्। राज्ञा एकाकिना मन्त्रणा न कार्या। तत्र मन्त्रिणां साहाय्येन प्रयोजनम्। उक्तं च कौटिल्येन—सहायसाध्यं राजत्वं चक्रमेकं न प्रवर्ततेमन्त्रणाकार्ये नियुक्तेन मन्त्रिणा अप्रिमपि कदापि अन्यत्प्रकारं न वक्तव्यम्। एवं चरैरपि…

Broad Questions-- 3 & 4, किरातार्जुनीयम्, प्रथमः सर्गः,C-4, 2nd sem, cbpbu

Image
Broad Questions-- 3 & 4, किरातार्जुनीयम्, प्रथमः सर्गः,C-4, 2nd sem, cbpbu
३. दुरोदरछद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः।
--अत्र वक्ता कः? अत्र सुयोधनः इत्यनेन कः अभिहितः? उल्लिखितस्य जनस्य राज्यशासननीतिविषये नातिदीर्घः कश्चित् प्रबन्धः विरचनीयः। अथवा, वनेचरोक्तं दुर्योधनस्य शासनवृत्तान्तं सोदाहरणं संक्षेपेण विव्रियताम्।
उत्तरम्— युधिष्ठिरः द्यूतक्रीडायां दुर्योधनेन पराजितः सन् द्रौपद्या भ्रातृभिश्च सह वनं गतः। तदा द्वैतवने अवस्थानकाले युधिष्ठिरः दुर्योधनस्य राज्यशासनवृत्तान्तं विज्ञातुम्एकं वनेचरं नियुक्तवान्। स वनेचरः कुरुराज्यं भ्रमित्वा युधिष्ठिर-सपीपं वार्ता-निवेदनावसरे इदमुक्तवान्। अत्र इत्यनेन दुर्योधनः अभिहितः।
वनेचर-वर्णिता दुर्योधनस्य शासननीतिः--- वनेचरेण उक्तम्—दुर्योधनः युधिष्ठिरस्य यशः म्लानीकर्तुं तथा प्रजानां मनः जेतुं सुष्ठु नीतिप्रयोगं करोति। स काम-क्राधादीन् रिपून् जित्वा मनुप्रवर्तितां शासननीतिम् अनुसर्तुं चेष्टते—
कृतारिषड्वर्गजयेन मानवी- मगम्यरूपां पदवीं प्रपित्सुना। विभज्य नक्तन्दिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम्।।
राज्ञः अन्यतमः प्रधानः गुणः अहङ्कारशू…

Ads