ads

ad

व्याख्या— अभिज्ञानशकुन्तलम्, 2nd Sem, C-3, Unit-I


व्याख्या— अभिज्ञानशकुन्तलम्, 2nd Sem, C-3, Unit-I

१.  इदं किलाव्याजमनोहरं वपु-
स्तपःक्षमं साधयितुं य इच्छति।
ध्रुवं स नीलोत्पलपत्रधारया
शमीलतां छेत्तुमृषिर्व्यवस्यति।। (1.17)

उत्सः--ʻउपमा कालिदासस्यʼ, ʻकालिदासकविता नवं वयः माहिषं दधि सशर्करं पयःʼ इत्यादिभिः प्रशस्तिभिः लब्धकीर्तेः महाकवेः कालिदासस्य सर्वस्वरूपम् अपूर्वं नाटकम् अभिज्ञानशकुन्तलम् नाम। तत्र प्रथमे अङ्के समुपलभ्यते अयं श्लोकः।

प्रसङ्गः--  मृगयाविहारी राजा दुष्यन्तः वैखानसैः आप्यायितः सन् महर्षेः कण्वस्य आश्रमं प्रविष्टवान्। तत्र अनसूया-प्रियंवदाभ्यां सह शकुन्तलाम् अपश्यत्। अतिकोमलशरीरापि शकुन्तला महर्षिणा वृक्षेषु जलसेचनरूपे आयासकर्मणि नियुक्ता। एतेन दुष्यन्तेन महर्षेः कण्वस्य असाधुदर्शित्वं दृष्टम्। कथं स महर्षिः असाधुदर्शी इति प्रसङ्गेन दुष्यन्तेन यदुक्तं तदत्र विधृतम्—इदमिति।

अन्वयः—यः ऋषिः अव्याजमनोहरम् इदम् वपुः किल तपःक्षमम् साधयितुम् इच्छति, स ध्रुवम् नीलूपलपत्रधारया शमीलताम् छेत्तुम् व्यवस्यति।

व्याख्या-- शकुन्तलायाः शरीरम् अव्याजमनोहरं स्वभावतः सुन्दरम्। तपश्चरणम् अतीव कठिनं कार्यम्। अनेन शरीरेण आश्रमधर्म-पालनरूपं कठोरं कर्मसम्पादनम् असम्भवमेव। तथापि महर्षिः कण्वः शकुन्तलायाः तद्वपुः शरीरं तपःक्षमं साधयितुं तपस्यायाः योग्यं कर्तुम् इच्छति। तस्य इयं प्रचेष्टा कदापि फलवती न भवेत्। विषयोऽयं व्याख्यायते—ध्रुवमिति।
नीलोपलस्य पत्रं सुकोमलम्। शमीलता च तदपेक्षया अतीव कठिना। नीलपद्मस्य पत्रधारया शमीलताच्छेदनम् दुःसाध्यम्। तथापि यदि कोऽपि तत् कर्तुं चेष्टते, तर्हि  तेन तस्य अदूरदर्शित्वमेव  प्रकटीभवेत्। महर्षिः कण्वः अतिकोमलशरीरया शकुन्तलया कठोरं तपस्याकर्म सम्पादयितुं यदिच्छति तेन तस्य अदूरदर्शित्वमेव प्रकटितमिति।
अतः शकुन्तलाम् आश्रमधर्मपालनात् विरमय्य संसारधर्मपालने प्रवृत्तिकरणमेव महर्षेः कण्वस्य उचितमिति दुष्यन्तस्य अभिप्रायः।
अत्र समस्तवाक्ये असम्भववद् वस्तुसम्बन्धरूपा निदर्शना, अव्याजमनेहरम् इत्यत्र विभावना, ध्रुवमिति उत्प्रेक्षालङ्कारः। वंशस्थविलं च वृत्तम्। तस्य लक्षणम्-- ʻवदन्ति वंशस्थविलं जतौ जरौʼ इति।

-------


२. सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम्।। (1.18)

उत्सः--ʻउपमा कालिदासस्यʼ, ʻकालिदासकविता नवं वयः माहिषं दधि सशर्करं पयःʼ इत्यादिभिः प्रशस्तिभिः लब्धकीर्तेः महाकवेः कालिदासस्य सर्वस्वरूपम् अपूर्वं नाटकम् अभिज्ञानशकुन्तलम् नाम। तत्र प्रथमे अङ्के समुपलभ्यते अयं श्लोकः।

प्रसङ्गः--  मृगयाविहारी राजा दुष्यन्तः वैखानसैः आप्यायितः सन् महर्षेः कण्वस्य आश्रमं प्रविष्टवान्। तत्र तेन अनसूया-प्रियंवदाभ्यां सह वल्कलपरिहिता शकुन्तला दृष्टा। शकुन्तला अपरूपा लावण्यवती। वल्कलं तस्याः शरीरस्य अनुपयुक्तम्। तथापि  तत् कथम् अलङ्कारशोभां वर्धयति तद्वर्णना-प्रसङ्गेन दुष्यन्तेन यदुक्तं तदत्र श्लोके विधृतम्—सरसिजमनुविद्धमिति।

अन्वयः— शैवलेन अनुविद्धम् अपि सरसिजम् रम्यं (भवति)। मलिनम् अपि लक्ष्म हिमांशोः लक्ष्म लक्ष्मीम् तनोति। वल्कलेन अपि इयं तन्वी अधिकमनोज्ञा। हि मधुराणाम् आकृतीनाम् किम् इव मण्डनम् न (भवति)।

व्याख्या—शैवलेन जलनीलिका नाम तृणभेदेन, अनुविद्धं वेधितमपि सरस्यां सरोवरे जातम् उत्पन्नम् इति सरसिजम् पद्मं मनोहरम्। लक्ष्म चिह्नं कलङ्क इति यावत्। मलिनम् अपि  कृष्णवर्णम् अपि हिमांशोः चन्द्रस्य लक्ष्मीं शोभां तनोति विस्तारयति। वल्कलेन अपि तन्वी इयं पुरोदृश्यमाना शकुन्तला, अधिकं मनोज्ञा मनोहरा इति। एतानि सर्वाणि समालोक्य मन्ये अहं दुष्यन्तः। मधुराणां स्वभावतः सुन्दराणाम् आकृतीनाम् किमिव हि मण्डनं भूषणं न? अपि तु सर्वं भूषणतां प्रपद्यते इति।
                यत् खलु स्वभावसुन्दरं तस्य अन्येन वस्तुना सौन्दर्यविधानम् अकिञ्चित्करमेव। असुन्दरवस्तुनः सन्निधाने तस्य सौन्दर्यहानिः न जायते, अपि तु वृद्धिं गच्छति। पद्मं सुन्दरम्, शैवलेन अनुविद्धम् अपि तत् रमणीयम्। चन्द्रे कलङ्कम् अस्ति। मलिनम् अपि तत् चन्द्रस्य शोभां वर्धयति। शकुन्तलायाः शरीरलावण्यम् अपार्थिवम्। वल्कलवसनं न तस्याः उपयुक्तम्। तथापि तेनैव वल्कलेन सा अधिकं मनोहारिणी सञ्जाता। अतः निसर्गतः सुन्दरवस्तुनः आत्मनिरपेक्ष-सौन्दर्येन नास्ति प्रयोजनम्। सुन्दरम् असुन्दरम् वा यदेव वस्तु तेन सह युक्तं भवेत् तदेव तस्य अलङ्कारशोभां तनोति इति।
            अत्र मालाप्रतिवस्तूपमा, अर्थान्तरन्यासः, अर्थापत्तिः, वृत्त्यनुप्रासः, छेकानुप्रासः इति अलङ्काराः। अत्र मालिनीवृत्तम्। तस्य लक्षणम्--  ʻननमयययुतेयं मालिनी भोगिलोकैःʼ इति।
------
        
३. चित्रे निवेश्य परिकलपितसत्त्वयोगा
रूपोच्चयेन मनसा विधिना कृता नु।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सो मे
धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः।।

उत्सः-- प्रस्तुतोऽयं श्लोकः महाकवेः कालिदासस्य सर्वस्वस्वरूपम् अभिज्ञानशकुन्तलम् इति नाटकस्य द्वितीये अङ्के समुपलभ्यते।

प्रसङ्गः—हस्तिनापुरस्य राजा दुष्यन्तः महर्षेः कण्वस्य आश्रमे शकुन्तलां दृष्ट्वा तस्याः रूपेण मुग्धः जातः। दुष्यन्तः विदूषकस्य समीपं शकुन्तलायाः अनिन्द्यसुन्दरम् रूपकान्ति महता उत्साहेन वर्णितवान्। विदूषकः वारंवारं तं निरुत्साहं कर्तुं चेष्टते स्म, परन्तु दुष्यन्तस्य मनः शकुन्तलायाम् अतीव आसक्तं जातम्। पृथिव्याः समग्रस्य सौन्दर्यस्य साररूपेण शकुन्तला दुष्यन्तस्य चित्ते विधृता। अस्याम् अवस्थायां दुष्यन्तः शकुन्तलायाः वर्णनाप्रसङ्गेन यदुक्तं तदत्र श्लोके विवृतम्—चित्रे इति।

अन्वयः—धातुः विभुत्वम्, तस्याः वपुश्च अनुचिन्त्य मे सा विधिना चित्रे निवेश्य परिकल्पितसत्त्वयोगा, मनसा नु रूपोच्चयेन अपरा स्त्रीरत्न-सृष्टिः प्रतिभाति।

व्याख्या—शकुन्तला अपरूपा लावण्यवती। स्वर्गस्य सौन्दर्यं तथा मर्त्यलोकस्य तपस्या तस्यां मूर्तत्वात् सा दुष्यन्तस्य चेतसि एवंरूपेण प्रतिभाता। शकुन्तलायाः शरीरलावण्यं तथा विधातुः निर्माणनैपुण्यं विचार्य दुष्यन्तः शकुन्तलाव्यापारे अनेन भावेन आविष्टः। शकुन्तला न साधारणः स्त्रीलोकः। विधाता प्रथमं तां चित्रे आलेख्ये निवेश्य अङ्कयित्वा, पश्चात् परिकल्पितः निवेशितः सत्त्वस्य प्राणानां योगः सम्बन्धः यस्याः सा कृतप्राणयोगा इत्यर्थः। अर्थात् प्रथमम् इयं शकुन्तला विधात्रा चित्रार्पिता, पश्चात्तु जीवनसंयोगं प्रापिता, अन्यथा ईदृश-रूपलावण्यस्य सम्भावना कथं स्यात्? मनसा नु किंवा चित्तेन करणेन रूपाणां सौन्दर्याणां चन्द्रप्रभृतीनाम् उपमानवस्तूनाम् एकत्र समावेशेन उपादानकारणेन च कृता निर्मिता। अपरा अन्या स्त्रीरत्नस्य रमणीश्रेष्ठस्य सृष्टिः कृतिः, प्रतिभाति मम दुष्यन्तस्य धारणा इत्यर्थः।

          शकुन्तला विधातृपुरुषस्य मानसी सृष्टिः। ब्रह्मणा प्रथमं शकुन्तला चित्रपटे अङ्कयित्वा तत्परं तस्याः प्राणप्रतिष्ठा कृता। अन्यथा करादिस्पर्शेन तस्याः माधुर्यहानिः स्यात्। अस्मादेव कारणात् दुष्यन्तः शकुन्तलां विधातुः अपरा सृष्टिरूपेण मन्यते। विधातुः आद्यं स्त्रीरत्नं तिलोत्तमा नाम, शकुन्तला तु द्वितीयं स्त्रीरत्नम्।

     राजा दुष्यन्तः शकुन्तलायाम् अतीव आसक्तः, अन्यत् सर्वं तस्य गौणं जातम्। अनेनैव कारणेन स शकुन्तलाविषये एवं चिन्तितवान्।
अत्र काव्यलिङ्गम्, श्रुत्यनुप्रासः, वृत्त्यनुप्रासः चेति अलङ्काराः। वसन्ततिलकं वृत्तम्। तस्य लक्षणम्— ʻज्ञेयं वसन्ततिलकं  तभजा जगौ गःʼ इति।


४. अर्थो हि कन्या परकीय एव
तामद्य संप्रेष्य परिग्रहीतुः।
जातो ममायं विशदः प्रकामं
प्रत्यर्पितन्यास इवान्तरात्मा।। (4.22)

उत्सः--ʻउपमा कालिदासस्यʼ, ʻकालिदासकविता नवं वयः माहिषं दधि सशर्करं पयःʼ इत्यादिभिः प्रशस्तिभिः लब्धकीर्तेः महाकवेः कालिदासस्य सर्वस्वरूपम् अपूर्वं नाटकम् अभिज्ञानशकुन्तलम् नाम। तत्र चतुर्थे अङ्के समुपलभ्यते अयं श्लोकः।

प्रसङ्गः—शकुन्तलां पतिगृहं संप्रेष्य महर्षेः कण्वस्य कीदृशः मनोभावः जातः तद्वर्णना-प्रसङ्गेन श्लोकोऽयम् उक्तः—अर्थो हि इति।

अन्वयः—कन्या हि परकीयः एव अर्थः। अद्य तां परिग्रहीतुः संप्रेष्य मम अयम् अन्तरात्मा प्रत्यर्पितन्यास इव प्रकामं विशदः जातः।

व्याख्या—शकुन्तलायाः आश्रमात् प्रस्थानाद्  अनन्तरं सर्वे विषादग्रस्ताः अपि महर्षिः कण्वः अन्यविलक्षणभावेन आविष्टः। स आत्मभावं वर्णयति—कन्या परस्य अयम् परकीयः अन्यस्वामिकः एव इति निश्चये। अर्थः धनम्। यावत् कन्या पितृगृहं तिष्ठति, तावत् पिता तां न्यस्तं धनम् इव रक्षति। अतः अवश्यसम्प्रदानीयत्वेन कन्यासाधारणस्य परकीयत्वम् उक्तम्। तां तादृशीं परधनभूतां कन्यां शकुन्तलाम् अद्य परिग्रहीतुः स्वामिनः दुष्यन्तस्य समीपं संप्रेष्य प्रेरयित्वा मम कण्वस्य अयम् अन्तरात्मा चित्तं प्रत्यर्पितन्यासः पुनरर्पितन्यासः निक्षेपः, न्यस्तं धनमिति भावः येन तादृशः एव। प्रकामम्  अत्यन्तं विशदः विमलः चिन्तामुक्त इति जातः।

प्राचीन-भारतीय-प्रथानुसारे न कोऽपि पिता कन्यां स्वगृहे चिरं पालयितुमर्हति। प्रभूतेन यत्नेन वर्धितापि वयःप्राप्तां कन्यां सुपात्राय अवश्यमेव सम्प्रदीयेत। अतएव कन्या पितुः समीपं तस्याः स्वामिनः गच्छितं धनमिव। अन्येन न्यस्तं धनं यथा  तस्करादिभ्यः सयत्नं रक्षति जनः, तद्वत् कन्यामपि सर्वप्रकारेण रक्षति पिता।  गच्छितधनं धनस्वामिने प्रत्यर्प्य यथा कोऽपि भारमुक्तः जायते, तद्रूपम्  पिता अपि स्वामिनः हस्ते कन्यां समर्प्य चिन्तामुक्तः जायते।
अस्मिन् श्लोके चिरन्तन-पितृहृदयस्य शाश्वतः भावः वर्णितः। अस्य श्लोकस्य  मानविकम् आवेदनमपि शाश्वतम्। अत्र उत्प्रेक्षालङ्कारः। इन्द्रवज्रावृत्तम्। तस्य लक्षणम्-- ʻस्यादिन्द्रवज्रा यदि तौ जगौ जःʼ इति।


५. रम्याणि  वीक्ष्य मधुरांश्च निशम्य शब्दान्
पर्युत्सुको भवति यत् सुखितोऽपि जन्तुः।
तच्चेतसा स्मरति नूनमवोधपूर्वं
भावस्थिराणि जननान्तरसौहृदानि।। (5.2)  

उत्सः--ʻउपमा कालिदासस्यʼ, ʻकालिदासकविता नवं वयः माहिषं दधि सशर्करं पयःʼ इत्यादिभिः प्रशस्तिभिः लब्धकीर्तेः महाकवेः कालिदासस्य सर्वस्वरूपम् अपूर्वं नाटकम् अभिज्ञानशकुन्तलम् नाम। तत्र पञ्चमे अङ्के समुपलभ्यते अयं श्लोकः।

प्रसङ्गः— हंसपदिकायाः गीतं श्रुत्वा दुष्यन्तः इष्टजनविरहव्यथाम् अनुभवन् पर्याकुलः जातः। परमार्थतः इष्टजनविरहे असत्यपि तस्य अयं भावः न अनुभवगम्यः। तर्हि किं कारणम् अत्र वर्तते? तदेव वर्णना-प्रसङ्गेन दुष्यन्तेन यदुक्तं तदत्र श्लोके विवृतम्—रम्याणि इति।

अन्वयः—रम्याणि वीक्ष्य, मधुरान् शब्दान् च निशम्य सुखितः अपि जन्तुः यत् पर्युत्सुकः भवति तत् नूनम् भावस्थिराणि जननान्तरसौहृदानि अवोधपूर्वं चेतसा स्मरति।

व्याख्या—मनुष्याः प्रायेण रम्यवस्तु दृष्ट्वा, तथा मधुरान् शब्दान् श्रुत्वा केनचित् रसान्तरेण आप्तुताः भवन्ति। विनापि कारणम् एतद् भवति। दुष्यन्तस्य  मनसि एव अयं भावः जाग्रतः। स आत्मनः इमाम् अनुभूतिं व्याख्याय वदति—रम्याणि मनोज्ञानि पार्थिववस्तूनि, वीक्ष्य दृष्ट्वा, मधुरांश्च श्रुतिसुखकरान् शब्दान् निशम्य श्रुत्वा, यत् सुखितोऽपि जन्तुः सुखी अपि मनुष्यः, पर्युत्सुकः उत्कण्ठायुक्तः भवति इत्यर्थः। तत् नूनं निश्चितं भावः वासनाख्यः संस्कारः, स्थिराणि निश्चलानि जन्मसहस्रैः अपि दूरीकर्तुम् अशक्तानि। यद्वा भावेन स्वभावेन स्थिराणि अक्षयानि इति यावत्। अन्यत् जननं जननान्तरम्, पूर्वजन्म इत्यर्थः। तस्य सहृदयस्य भावः सौहार्दम्, तानि सौहृदानि प्रणयादीनि। अवोधपूर्वम् अज्ञानपूर्वकम्, चेतसा मनसा स्मरति स्मृतिपथम् आयाति, सम्यक् वोधस्तु न जायते इत्यर्थः।
मनुष्याणां चित्ते जन्मजन्मान्तरस्य संस्कारः सञ्चितः वर्तते। मनसः अवचेतनस्तरे अयं संस्कारः सुप्तरूपेण वर्तते। किञ्चित्-रमणीय-वस्तुदर्शनात्, तथा श्रुतिसुखकर-शब्दश्रवणात् तत्संस्कारः चेतनस्तरे उत्थितः भवति। तदा तद्गतभावेन मनुष्याः विचलिताः भवन्ति। दुष्यन्तः अविरहितः अपि हंसपदिकायाः गीतं श्रुत्वा तस्य मनोभावानुसारेण तस्य विचलितकारणम् उक्तवान्। परन्तु अत्र अन्यदपि तात्पर्यं निहितम्। यद्यपि दुष्यन्तः इष्टजनं निर्णेतुम् अशक्तः, तथापि दर्शकसाधारणः जानाति यत् शकुन्तला हस्तिनापुरम् आगच्छति। दुर्वाससः शापप्रभावादेव दुष्यन्तस्य स्मृतिभ्रष्टः भवेत्। ततःपरं शकुन्तलारूपाद् इष्टजनात् तस्य विरहः अवश्यम्भावी इति।
अत्र अप्रस्तुतप्रशंसा, काव्यलिङ्गम्, विरोधाभासः, विभावना चेति अलङ्काराः। वसन्ततिलकं वृत्तम्। तस्य लक्षणम्—ʻज्ञेयं वसन्ततिलकं तभजा जगौ गःʼ इति।

--------


६. मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः।
न प्रभातरलं ज्योतिरुदेति वसुधातलात्।। (1.23)

उत्सः--ʻउपमा कालिदासस्यʼ, ʻकालिदासकविता नवं वयः माहिषं दधि सशर्करं पयःʼ इत्यादिभिः प्रशस्तिभिः लब्धकीर्तेः महाकवेः कालिदासस्य सर्वस्वरूपम् अपूर्वं नाटकम् अभिज्ञानशकुन्तलम् नाम। तत्र प्रथमे अङ्के समुपलभ्यते अयं श्लोकः।

प्रसङ्गः— हस्तिनापुरस्य राजा दुष्यन्तः मृगयार्थं महर्षेः कण्वस्य तपोवनम् आगतः। तत्र आश्रमे महर्षेः पालितां कन्यां शकुन्तलां दृष्ट्वा तस्याम् अतीव आसक्तः सञ्जातः। परन्तु दुष्यन्तः शकुन्तलया सह विवाह-व्यापारे द्विधान्वितः आसीत्। तदानीन्तनकाले क्षत्रियेन सह ब्राह्मणकन्यायाः विवाहः समाजे स्वीकृतः नासीत्। ततःपरम् अनसूयामुखात्  ʻशकुन्तला अप्सरासम्भवाʼ इति ज्ञात्वा राजा सन्देहमुक्तः जातः। तदा शकुन्तलायाम्  आविर्भूतस्य रूपस्य औचित्यप्रसङ्गेन दुष्यन्तेन उक्तम्—मानुषीषु इति।

अन्वयः—अस्य रूपस्य सम्भवः मानुषीषु कथं वा स्यात्? प्रभातरलं ज्योतिः वसुधातलात् न उदेति।

व्याख्या—अस्य रूपस्य सौन्दर्यस्य लावण्यस्य वा, सम्भवः उत्पत्तिः। मानुषीषु मानवीषु मानवीगर्भजातासु इत्यर्थः। कथं केन प्रकारेण वा स्यात् भवेत् इति। प्रभातरलं प्रभया दीप्त्या तरलं चञ्चलं, ज्योतिः विद्युत् इत्यर्थः। वसुधातलात् भूपृष्ठात् न उदेति न प्रकटीभवति न उद्गता भवेत् इत्यर्थः।
          शकुन्तला अप्सरसः मेनकायाः गर्भजाता कन्या। अस्मात् कारणात् तस्यां स्वर्गीयं सौन्दर्यम् आविर्भूतम्।  मावीगर्भजातायां  कन्यायाम् ईदृश-रूपलावण्यस्य  सम्भवः कदापि न स्यात्। विद्युत् यथा कदापि भूतलात् न जायते, तद्रूपम् पृथिव्याः नार्याम् उत्पन्नायाः कन्यायाः मध्ये स्वर्गीयं लावण्यं न सम्भाव्यते। अप्यरासम्भवादेव शकुन्तला एवं लावण्यमयीरूपेण जाता इति दुष्यन्तस्य अभिप्रायः।
      अत्र अप्रस्तुतप्रशंसा नाम अलङ्कारः, अनुष्टुप् छन्दश्च।


७. असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः।।

उत्सः-- प्रस्तुतोऽयं श्लोकः महाकवेः कालिदासस्य सर्वस्वस्वरूपम् अभिज्ञानशकुन्तलम् इति नाटकस्य प्रथमे अङ्के समुपलभ्यते।
प्रसङ्गः— हस्तिनापुरस्य राजा दुष्यन्तः मृगयार्थं तपोवनम् आगत्य महर्षेः कण्वस्य पालितां कन्यां शकुन्तलां दृष्ट्वा मुग्धः जातः। शकुन्तला क्षत्रियपक्षे ग्रहणयोग्या न वेति संशयस्य निरसनप्रसङ्गेन दुष्यन्तेन यदुक्तं तदत्र श्लोके विवृतम्—असंशयम् इति।

अन्वयः—असंशयम् (इयम्) क्षत्रपरिग्रहक्षमा, यत् मे आर्यं मनः अस्याम् अभिलाषि। हि सन्देहपदेषु वस्तुषु सताम् अन्तःकरणप्रवृत्तयः प्रमाणम्।

व्याख्या—असंशयम् निःसन्देहम्, इयम् एषा शकुन्तला, क्षत्रपरिग्रहक्षमा क्षत्रियेन सह विवाहयोग्या। यत् यस्मात्, मे मम आर्यं मनः सद्गुणसम्पन्नं हृदयम्, अस्याम् शकुन्तलायाम् अभिलाषि अनुरागयुक्तम् अभवत्। हि नूनम्, सन्देहपदेषु सन्देहास्पदेषु, वस्तुषु विषयेषु, सतां सज्जनानाम्, अन्तःकरणप्रवृत्तयः मनसः प्रवणतासमूहः एव प्रमाणम् सत्यासत्य-निर्णये मानदण्डस्वरूपम् इति।
दुष्यन्तः शकुन्तलां धर्मपत्नीरूपेण प्राप्तुम् ऐच्छत्। परन्तु तत्कालीन-सामाजिक-विधानानुसारेण क्षत्रियेन सह ब्राह्मणकन्यायाः विवाहः स्वीकृतः नासीत्। यतः दुष्यन्तस्य आर्यसंस्कार-सम्पन्नं मनः शकुन्तलायाम् अभिलाषि वर्तते, अतः सा अवश्यमेव तेन परिणययोग्या इति दुष्यन्तस्य अभिप्रायः।
अत्र काव्यलिङ्गम्, अर्थान्तरन्यासः इति अलङ्कारद्वयम्। वंशस्थविलं वृत्तम्। तस्य लक्षणम्— ʻवदन्ति वंशस्थविलं जतौ जरौʼ इति।

--------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1