छन्दोमञ्जरी-- समवृत्तम् (संस्कृतभाषया), 2nd sem, unit-II (CBPBU)
छन्दसि यतिनिर्णये प्रतीकशब्दाः—
ʻनेत्रम्ʼ इति
शब्दः त्रि-संख्यायाः (तृतीय-वर्णस्य) बोधकः।
वेदः,
समुद्रः, अम्बुधिः, अब्धिः इति शब्दाः चतुःसंख्यायाः (चतुर्थ-वर्णस्य) बोधकाः।
वाणः इति
शब्दः पञ्चसंख्यायाः (पञ्चम-वर्णस्य) बोधकः।
ऋतुः, रसः,
रिपुः इति शब्दाः षट्संख्यायाः (षष्ठ-वर्णस्य) बोधकाः।
सूर्याश्वः,
अश्वः, लोकः, मुनिः, नगः इति शब्दाः (सप्तसंख्यायाः (सप्तम-वर्णस्य) बोधकाः।
वसुः, सर्पः,
भोगी इति शब्दाः अष्टसंख्यायाः (अष्टम-वर्णस्य) बोधकाः।
ग्रहः इति
शब्दः नवसंख्यायाः (नवम-वर्णस्य) बोधकः।
दिक्, आशा इति
शब्दौ दशसंख्यायाः (दशम-वर्णस्य) बोधकौ।
रुद्रः इति
शब्दः एकादशसंख्यायाः (एकादश-वर्णस्य) बोधकः।
सूर्यः,
आदित्यः इति शब्दौ द्वादशसंख्यायाः (द्वादश-वर्णस्य) बोधकौ।
विषयोऽयं
विशदीक्रिचते। छन्दसः लक्षणे उपर्युक्तानां शब्दानाम् उल्लेखं दृष्ट्वा यतिनिर्णयः
क्रियते। यथा—शालिनीछन्दसः लक्षणम्— ʻमात्तौ
गौचेच्छालिनी वेदलोकैः।ʼ अत्र ʻवेदलोकैःʻ
इति पदे यतिनिर्देशः अस्ति। ʻवेदʻ इति चतुर्थसंख्यां, ʻलोकʻ इति सप्तमसंख्यां
वोधयति। अर्थात् शालिनीछन्दसि आदौ चतुर्थे अक्षरे, ततः सप्तमे अक्षरे यतिः
विद्यते। एवम् अन्यत्रापि वोध्यते।
१. छन्दोमञ्जरी केन प्रणीता?
उत्तरम्—आचार्येण
गङ्गादासेन छन्दोमञ्जरी प्रणीता।
२. किं नाम वृत्तम्?
उत्तम्—वृत्त-जातिभेदेन
पद्यं द्विविधम्। तत्र ʻवृत्तमक्षरसंख्यातम्ʼ
इति। अर्थात् अक्षरसंख्या-गणनया वृत्तं परिगण्यते।
३. संस्कृत-छन्दःशास्त्रे कतिविधं वृत्तमस्ति?/ वृत्तस्य कति भेदाः? उदाहरणं
दीयताम्।
उत्तरम्-- संस्कृत-छन्दःशास्त्रे त्रिविधं वृत्तमस्ति। यथा—समवृत्तम्,
अर्धसमवृत्तम्, विषमवृत्तम् चेति।
समवृत्तस्य उदाहरणम् यथा—शालिनी, मालिनी, रुचिरा इत्यादीनि।
अर्धसमवृत्तस्य उदाहरणम् यथा—उपचित्रम्, वेगवती, हरिणप्लुता
इत्यादीनि।
विषमवृत्तस्य उदाहरणम् यथा—उद्गता, सौरभम्, ललितम् इत्यादीनि।
४. किमुच्यते समवृत्तम्?
उत्तरम्-- आचार्येण
गङ्गादासेन समवृत्तस्य लक्षणनं कृतम्-- ʻसमं
समचतुष्पादकम्ʼ इति। अर्थात् यस्मिन् वृत्ते (छन्दसि) चतुर्षु पादेषु एव
समसंख्यकाः अक्षराः सन्ति, तत् समवृत्तम् इत्युच्यते।
५. किमुच्यते पद्यम्?
उत्तरम्-- ʻपद्मं चतुष्पदीʼ इति गङ्गादासोक्तं पद्यलक्षणम्। अर्थात् चतुष्पाद-विशिष्टा रचना पद्यम्
इत्युच्यते।
६. पद्यं कतिविधम्? / पद्यस्य भेदान् लिखत।
उत्तरम्-- पद्मं द्विविधम्—वृत्तं जातिश्चेति। गङ्गादासेन उक्तम्-- ʻतच्च वृत्तं जातिरिति द्विधाʼ।
७. किं नाम वृत्तम्? का च जातिः?
उत्तरम्-- आचार्येण गङ्गादासेन उक्तम्-- ʻवृत्तमक्षरसंख्यातं
जातिर्मात्राकृता भवेत्।ʼ
८. का नाम यतिः?
उत्तरम्-- आचार्येण गङ्गादासेन यतेः लक्षणं कृतम्—
ʻयतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते।
सा च विच्छेद-विरामाद्यैः पदैर्वाच्या मिजेच्छया।।ʼ
९. के तावत् गुरुस्वराः?
उत्तरम्— आचार्येण
गङ्गादासेन गुरुस्वरस्य लक्षणं कृतम्—
ʻसानुस्वारश्च दीर्घश्च विसर्गी च गुरुर्भवेत्।
वर्णसंयोगपूर्वश्च तथा पादान्तगोऽपि वा।।ʼ
अर्थात्
अनुस्वारयुक्तः वर्णः, दीर्घस्वरयुक्तः वर्णः (आ, ई, ऊ, ऋृ, ए, ऐ, ओ, औ), संयोगात्
पूर्ववर्णः गुरुः भवेत्। पादान्ते स्थितः लघुवर्णः अपि विक्लपेन गुरुः भवेत्।
१०. के तावत् लघुस्वराः?
उत्तरम्— ह्रस्वस्वरः लघुः इत्युच्यते। यथा—अ, इ, उ, ऋ इति।
११. संस्कृत-छन्दःशास्त्रे कति गणाः सन्ति?
उत्तरम्— संस्कृत-छन्दःशास्त्रे
दश गणाः सन्ति। यथा-- म-गणः, न-गणः, भ-गणः, ज-गणः, स-गणः, य-गणः, र-गणः, त-गणः,
ग-गणः ल-गणः चेति।
१२. क उच्यते म-गणः / न-गणः / भ-गणः / ज-गणः / स-गणः / य-गणः / र-गणः / त-गणः/
ग-गणः /
ल-गणः?
उत्तरम्—दशसु
गणेषु लघुगुरु-क्रमेण वर्णविन्यासप्रसङ्गेन आचार्येण गङ्गादासेन उक्तम्—
ʻमस्त्रिगुरुस्त्रिलघुश्च नकारो
भादिगुरुः पुनरादिलघुर्यः।
जो गुरुमध्यगतो रलमध्यः
सोऽन्तगुरुः कथितोऽन्तलघुस्तः।।ʼ
लघुवर्णः ʻ◡ʼ इति संकेतेन दर्श्यते, तथा गुरुवर्णः ʻ--ʼ इति संकेतेन
दर्श्यते।
म-गणः—मस्त्रिगुरुः।
अर्थात् म-गणे त्रयः गुरुवर्णाः सन्ति। रेखया दर्श्यते— (-- -- --)
न-गणः—त्रिलघुश्च
नकारः। अर्थात् न-गणे त्रयः लघुवर्णाः सन्ति। रेखया दर्श्यते— (◡◡◡)।
भ-गणः—भादिगुरुः।
अर्थात् भ-गणे आदिवर्णः गुरुः भवेत्। रेखया दर्श्यते— (--◡◡)।
य-गणः—आदिलघुर्यः।
अर्थात् य-गणे आदिवर्णः लघुः भवेत्। (◡ -- --)।
ज-गणः—जो गुरुमध्यगतः।
अर्थात् ज-गणे मध्यवर्णः गुरुः भवेत्। रेखया दर्श्यते—(◡--◡)।
र-गणः—रलमध्यः।
अर्थात् र-गणे मध्यवर्णः लघुः भवेत्। रेखया दर्श्यते— (--◡--)।
स-गणः-- सोऽन्तगुरुः।
अर्थात् सगणे अन्तवर्णः गुरुः भवेत्। रेखया दर्श्यते— (◡◡--)।
त-गणः—अन्तलघुस्तः।
अर्थात् त-गणे अन्तवर्णः लघुः भवेत्। रेखया दर्श्यते—(-- -- ◡)।
ग-गणः—
एकाक्षरविशिष्टः गणः। ग-गणे एकः गुरुवर्णः भवेत्।
रेखया दर्श्यते—(--)।
ल-गणः—
एकाक्षरविशिष्टः गणः। ल-गणे एकः लघुवर्णः भवेत्।
रेखया दर्श्यते—(◡)।
१३. एकस्य छन्दसः संज्ञां प्रदाय
सोदाहरणं देवनागरीलिपिमाश्रित्य संस्सकृतभाषया आलोच्यताम्।
१. इन्द्रवज्रा
समवृत्तान्तर्गतं वृत्तमिदम्
एकादशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं
कृतम्—
ʻस्यादिन्द्रवज्रा यदि तौ जगौ गःʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं त त ज ग ग इति गणाः क्रमानुसारेण
विद्यन्ते, तद् छन्दः इन्द्रवज्रा इत्युच्यते।
उदाहरणम्—
अर्थो हि कन्या परकीय एव
तामद्य संप्रेष्य परिग्रहीतुः।
जातो ममायं विशदः प्रकामं
प्रत्यर्पितन्यास इवान्तरात्मा।।
--
-- ◡ -- -- ◡ ◡ -- ◡
-- -- (पादान्तगुरुः)।
गणविश्लेषणम्— अ र्थो हि / क न्या प / र की य
/ ए / व।
त त ज
ग ग
अत्र श्लोकस्य प्रथमपादे त
त ज ग ग इति गणाः क्रमानुसारेण विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां
क्रमानुसारेण विद्यमानत्वात् अत्र इन्द्रवज्रा इति छन्दः प्रसज्यते। अस्मिन्
छन्दसि पादान्ते यतिः विद्यते।
२.
उपेन्द्रवज्रा
समवृत्तान्तर्गतं वृत्तमिदम्
एकादशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं
कृतम्—
ʻउपेन्द्रवज्रा प्रथमे लघौ साʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं प्रथमाक्षरः लघुः, तथा अन्ये गणाः इन्द्रवज्रा इव, अर्थात्
यस्मिन् छन्दसि प्रतिपादं ज त ज ग ग इति गणाः क्रमानुसारेण विद्यन्ते, तद् छन्दः
उपेन्द्रवज्रा इत्युच्यते।
उदाहरणम्—
उपेन्द्रवज्रादिमणिच्छटाभि-
र्विभूषणानां च्छुरितं वपुस्ते।
स्मरामि गोपिभिरुपास्यमानं
सुरद्रुमूले मणिमण्डपस्थम्।।
◡ -- ◡ -- -- ◡ ◡ -- ◡ -- --
गणविश्लेषणम्—
उ पे न्द्र / व ज्रा दि/ म णि च्छ / टा / भिः।
ज त ज
ग ग
अत्र श्लोकस्य प्रथमपादे ज
त ज ग ग इति गणाः क्रमानुसारेण विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां
क्रमानुसारेण विद्यमानत्वात् अत्र उपेन्द्रवज्रा इति छन्दः प्रसज्यते। अस्मिन्
छन्दसि पादान्ते यतिः विद्यते।
३. उपजाति
समवृत्तान्तर्गतं वृत्तमिदम्
एकादशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं
कृतम्—
ʻअनन्तरोदीरितलक्ष्मभाजौ
पादौ यदीयावुपजातयस्ताः।
इत्थं किलान्यास्वपि मिश्रितासु
वदन्ति जातिष्विदमेव नाम ।।ʼ
इन्द्रवज्रा उपेन्द्रवज्रा चेति छन्दोद्वये श्लोकस्य भिन्ने पादे विद्यमाने सति उपजातिछन्दः भवति।
एवम् अन्येषां छन्दसां मिश्रणेऽपि उपजातिछन्दः भवति।
उदाहरणम्—
अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः।
पूर्वापरौ तोयनिधिवगाह्य
स्तितः पृथिव्या इव मानदण्डः।।
गणविश्लेषणम्---
गणविश्लेषणम्---
-- --
◡
-- -- ◡ ◡ --
◡ -- --
अ स्त्यु त्त / र स्यां दि / शि
दे व / ता / त्मा
त त ज ग ग
◡ -- ◡ -- --
◡
◡ -- ◡ -- --
हि मा ल / यो ना
म / न गा धि / रा / जः।
ज त ज ग ग
अत्र प्रथमपादे
इन्द्रवज्रा, द्वितीयपादे उपेन्द्रवज्रा चेति छन्दोद्वयं विद्यते। द्वयोः छन्दसोः
मिश्रणात् अत्र उपजातिः इति छन्दः प्रसज्यते। अस्मिन् छन्दसि पादान्ते यतिः
विद्यते।
४. रथोद्धता
समवृत्तान्तर्गतं वृत्तमिदम्
एकादशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं
कृतम्—
ʻरात् परैर्नरलगै रथोद्धताʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं र न र ल ग इति गणाः क्रमानुसारेण
विद्यन्ते, तद् छन्दः रथोद्धता इत्युच्यते।
उदाहरणम्—
एवमाश्रमविरुद्धवृत्तिना
संयमः किमिति
जन्मदस्त्वया।
सत्त्वसंश्रयसुखोऽपि
दूष्यते
कृष्णसर्पशिशुनेव
चन्दनः।।
--
◡ -- ◡ ◡ ◡ -- ◡ --
◡ --
गणविश्लेषणम्—
ए व मा / श्र म वि / रु द्ध वृ / त्ति / ना ।
र न र ल ग
अत्र श्लोकस्य प्रथमपादे र
न र ल ग इति गणाः क्रमानुसारेण विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां
क्रमानुसारेण विद्यमानत्वात् अत्र रथोद्धता इति छन्दः प्रसज्यते। अस्मिन् छन्दसि
पादान्ते यतिः विद्यते।
५. शालिनी
समवृत्तान्तर्गतं वृत्तमिदम्
एकादशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं
कृतम्—
ʻमात्तौ गौचेच्छालिनी वेदलोकैःʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं म त त ग ग इति गणाः क्रमानुसारेण
विद्यन्ते, तद् छन्दः शालिनी इत्युच्यते।
उदाहरणम्—
सा निन्दन्ती
स्वानि भाग्यानि वाला
बाहूत्क्षेपं
क्रन्दितुं च प्रवृत्ता।
स्त्रीसंस्थानञ्चाप्सरस्तीर्थमारा-
दुत्क्षिप्यैनां
ज्योतिरेकं जगाम।।
गणविश्लेषणम्---
गणविश्लेषणम्---
-- -- -- --
-- ◡ --
-- ◡ -- --
सा नि न्द / न्ती स्वा नि / भा ग्या नि / वा / ला ।
सा नि न्द / न्ती स्वा नि / भा ग्या नि / वा / ला ।
म त त ग
ग
अत्र श्लोकस्य प्रथमपादे म त त ग ग इति गणाः क्रमानुसारेण
विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां क्रमानुसारेण विद्यमानत्वात् अत्र शालिनी इति छन्दः प्रसज्यते।
अस्मिन् छन्दसि ʻवेदलोकैःʼ
इत्यस्मिन् पदे यतिनिर्देशः कृतः। ʻवेदʼ इत्यनेन शब्देन चतुर्वेदाः, तथा ʻलोकʼ-शब्देन
सप्तलोकः बोध्यन्ते। अर्थात् अत्र प्रथमं चतुर्थे अक्षरे, तदनन्तरं सप्तमे अक्षरे यतिः
विद्यते।
६. द्रुतविलम्बितम्
समवृत्तान्तर्गतं वृत्तमिदम्
द्वादशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्— ʻद्रुतविलम्बितमाह
नभौ भरौʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं न भ भ र इति गणाः क्रमानुसारेण विद्यन्ते, तद्
छन्दः द्रुतविलम्बितम् इत्युच्यते।
उदाहरणम्—
अभिमुखे मयि संहृतमीक्षितं
हसितमन्यनिमित्तकृतोदयम्।
विनय-वारित-वृत्तिरतस्तया
न विवृतो मदनो न च संवृतः।।ʼ
◡ ◡
◡ -- ◡ ◡ -- ◡ ◡
-- ◡ --
गणविश्लेषणम्—
अ भि मु / खे म यि / सं हृ त / मी क्षि तं ।
न भ भ र
अत्र श्लोकस्य प्रथमपादे न
भ भ र इति गणाः क्रमानुसारेण विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां
क्रमानुसारेण विद्यमानत्वात् अत्र
द्रुतविलम्बितम् इति छन्दः प्रसज्यते।
अस्मिन् छन्दसि चतुर्थे
अक्षरे, सप्तमे अक्षरे, अन्ते च यतिः
विद्यते।
७. वंशस्थविलम्
समवृत्तान्तर्गतं वृत्तमिदम्
द्वादशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्— ʻवदन्ति
वंशस्थविलं जतौ जरौʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं ज त ज र इति गणाः क्रमानुसारेण विद्यन्ते, तद्
छन्दः वंशस्थविलम् इत्युच्यते।
उदाहरणम्—
इदं
किलाव्याजमनोहरं वपु-
स्तपःक्षमं
साधयितुं य इच्छति।
ध्रुवं स
नीलोत्पलपत्रधारया
शमीलतां
छेत्तुमृषिर्व्यवस्यति।।
◡
-- ◡ -- --
◡ ◡ -- ◡ --
◡ --
गणविश्लेषणम्—
इ दं कि / ला व्या ज / म नो ह / रं व पुस्
ज त ज र
अत्र श्लोकस्य प्रथमपादे ज
त ज र इति गणाः क्रमानुसारेण विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां
क्रमानुसारेण विद्यमानत्वात् अत्र
वंशस्थविलम् इति छन्दः प्रसज्यते।
अस्मिन् छन्दसि पञ्चमे
अक्षरे, अन्ते च यतिः विद्यते।
८. तोटकम्
समवृत्तान्तर्गतं वृत्तमिदम्
द्वादशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्— ʻवद
तोटकमब्धिसकारयुतम्ʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं चत्वारः स-गणाः क्रमानुसारेण विद्यन्ते,
तद् छन्दः तोटकम् इत्युच्यते।
उदाहरणम्—
यमुनातटमच्युतकेलिकला
लसदङ्घ्रि
सररुहसङ्गरुचिम्।
मुदितोऽट कलेरपनेतुमघं
यदि चेच्छसि जन्म निजं सफलम्।।
◡ ◡ -- ◡ ◡ --
◡ ◡ -- ◡ ◡ --
गणविश्लेषणम्— य
मु ना / त ट म / च्यु
त के / लि क ला
स स स स
अत्र श्लोकस्य प्रथमपादे चत्वारः स-गणाः क्रमानुसारेण
विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां क्रमानुसारेण विद्यमानत्वात्
अत्र तोटकम् इति छन्दः प्रसज्यते।
अस्मिन् छन्दसि चतुर्थाक्षरे, अन्ते च यतिः विद्यते।
९. रुचिरा
समवृत्तान्तर्गतं वृत्तमिदम्
त्रयोदशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्— ʻजभौ
सजौ गिति रुचिरा चतुर्ग्रहैःʼ इति
।
अर्थात् यस्मिन् छन्दसि प्रतिपादं ज भ स ज ग इति गणाः क्रमानुसारेण
विद्यन्ते, तद् छन्दः रुचिरा इत्युच्यते।
उदाहरणम्—
प्रवर्ततां
प्रकृतिहिताय पार्थिवः
सरस्वती
श्रुतिमहतां महीयताम्।
ममापि च
क्षपयतु नीललोहितः
पुनर्भवं
परिगतशक्तिरात्मभूः।।
गणविश्लेषणम्---
गणविश्लेषणम्---
◡ -- ◡ -- ◡
◡ ◡
◡ --
◡ -- ◡ --
प्र व र्त / तां प्र कृ / ति हि ता / य पा र्थि / वः
।
ज भ स ज ग
अत्र श्लोकस्य प्रथमपादे ज
भ स ज ग इति गणाः क्रमानुसारेण विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां
क्रमानुसारेण विद्यमानत्वात् अत्र रुचिरा
इति छन्दः प्रसज्यते।
अस्मिन् छन्दसि ʻचतुर्ग्रहैःʼ
इत्यस्मिन् पदे यतिनिर्देशः कृतः। ʻचतुःʼ इति चतुःसंख्यां, तथा ʻग्रहʼ इति
नवसंख्यां वोधयतः। अतः अत्र आदौ चतुर्थे अक्षरे, ततः नवमाक्षरे, अर्थात् अन्ते
यतिः विद्यते।
१०. प्रहर्षिणी
समवृत्तान्तर्गतं वृत्तमिदम्
त्रयोदशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्— ʻत्र्याशाभिर्मनजरगा
प्रहर्षिणीयम् ʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं म न ज र ग इति गणाः क्रमानुसारेण
विद्यन्ते, तद् छन्दः प्रहर्षिणी
इत्युच्यते।
उदाहरणम्—
एष
त्वामभिनवकण्ठशोणितार्थी
शार्दूलपशुमिव
हन्मि चेष्टमानम्।
आर्तानां
भयमपनेतुमात्तधन्वा
दुष्यन्तस्तव
शरणं भवत्विदानीम्।।
गणविश्लेषणम्—
गणविश्लेषणम्—
-- --
-- ◡ ◡
◡ ◡ --
◡ --
◡ -- --
ए ष त्वा / म भि न / व क ण्ठ / शो णि
ता / र्थी
म न ज र ग
अत्र श्लोकस्य प्रथमपादे म
न ज र ग इति गणाः क्रमानुसारेण विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां
क्रमानुसारेण विद्यमानत्वात् अत्र प्रहर्षिणी
इति छन्दः प्रसज्यते।
अस्मिन् छन्दसि ʻत्र्याशाभिःʼ इत्यस्मिन् पदे यतिनिर्देशः कृतः। ʻत्रिःʼ इति त्रिसंख्यां, तथा ʻआशाʼ
इति दश-संख्यां वोधयतः। अतः अत्र आदौ तृतीये अक्षरे, ततः दशमाक्षरे, अर्थात् अन्ते
यतिः विद्यते।
११.
वसन्ततिलकम्
समवृत्तान्तर्गतं वृत्तमिदम्
चतुर्दशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्— ʻज्ञेयं
वसन्ततिलकं तभजा जगौ गःʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं त भ ज ज ग ग इति गणाः क्रमानुसारेण
विद्यन्ते, तद् छन्दः वसन्ततिलकम्
इत्युच्यते।
उदाहरणम्—
चित्रे निवेश्य
परिकल्पितसत्त्वयोगा
रूपोच्चयेन मनसा
विधिना कृता नु।
स्त्रीरत्नसृष्टिरपरा
प्रतिभाति सा मे
धातुर्विभुत्वमनुचिन्त्य
वपुश्च तस्याः।।
गणविश्लेषणम्---
गणविश्लेषणम्---
-- --
◡ -- ◡ ◡ ◡ --
◡ ◡ -- ◡ -- --
चि
त्रे नि / वे श्य प /
रि क ल्पि / त स त्त्व / यो / गा ।
त भ ज ज ग ग
अत्र श्लोकस्य प्रथमपादे त
भ ज ज ग ग इति गणाः क्रमानुसारेण विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां
क्रमानुसारेण विद्यमानत्वात् अत्र
वसन्ततिलकम् इति छन्दः प्रसज्यते।
अस्मिन् छन्दसि षष्ठाक्षरे, अन्ते च यतिः विद्यते।
१२. मालिनी
समवृत्तान्तर्गतं वृत्तमिदम्
पञ्चदशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्— ʻन
न म य य युतेयं मालिनी भोगिलोकैःʼ इति
।
अर्थात् यस्मिन् छन्दसि प्रतिपादं न न म य य इति गणाः क्रमानुसारेण
विद्यन्ते, तद् छन्दः मालिनी इत्युच्यते।
उदाहरणम्—
सरसिजमनुविद्धं
शैवलेनापि रम्यं
मलिनमपि
हिमांशोर्लक्ष्म लक्ष्मीं तनोति
इयमधिकमनोज्ञा
वल्कलेनापि तन्वी
किमिव हि
मधुराणां मण्डनं नाकृतीनाम्।।
गणविश्लेषणम्—
गणविश्लेषणम्—
◡ ◡
◡ ◡ ◡ ◡ -- --
-- ◡ -- -- ◡ -- --
स र सि / ज म नु / वि द्धं शै
/ व ले ना / पि र म्यं ।
न न म य य
अत्र श्लोकस्य प्रथमपादे न
न म य य इति गणाः क्रमानुसारेण विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां
क्रमानुसारेण विद्यमानत्वात् अत्र मालिनी इति
छन्दः प्रसज्यते।
अस्मिन् छन्दसि ʻभोगिलोकैःʼ इत्यस्मिन् पदे यतिनिर्देशः कृतः। ʻभोगीʼ इति नागः (सर्पः),
शास्त्रे अष्ट नागाः उल्लिखिताः। ʻलोकʼ
इति सप्तलोकाः। अतः अत्र आदौ अष्टमाक्षरे, ततः सप्तमाक्षरे, अर्थात् अन्ते यतिः
विद्यते।
१३. शिखरिणी
समवृत्तान्तर्गतं वृत्तमिदम्
सप्तदशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्— ʻरसै
रुद्रैश्छिन्ना यमनसभलागः शिखरिणीʼ इति
।
अर्थात् यस्मिन् छन्दसि प्रतिपादं य म न स भ ल ग इति गणाः क्रमानुसारेण
विद्यन्ते, तद् छन्दः शिखरिणी इत्युच्यते।
उदाहरणम्—
महाभागः कामं
नरपतिरभिन्नस्थितिरसौ
न
कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते।
तथापीदं शश्वत्
परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये
हुतवहपरीतं गृहमिव।।
गणविश्लेषणम्---
◡ -- -- -- -- -- ◡ ◡◡ ◡ ◡ -- -- ◡ ◡ ◡
--
◡ -- -- -- -- -- ◡ ◡◡ ◡ ◡ -- -- ◡ ◡ ◡
--
म
हा भा / गः का मं / न
र प / ति र भि / न्न स्थि ति / र /
सौ ।
सौ ।
य म न स भ ल
ग
अत्र श्लोकस्य प्रथमपादे य
म न स भ ल ग इति गणाः क्रमानुसारेण विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां
क्रमानुसारेण विद्यमानत्वात् अत्र शिखरिणी
इति छन्दः प्रसज्यते।
अस्मिन् छन्दसि ʻरसै रुद्रैःʼ इत्यस्मिन् पदद्वये यतिनिर्देशः कृतः। ʻरसʼ इति षट् रसाः, ʻरुद्रʼ
इति एकादश रुद्राः। अतः अत्र आदौ षष्ठाक्षरे, ततः एकादशाक्षरे, अर्थात् अन्ते यतिः
विद्यते।
१४. मन्दाक्रान्ता
समवृत्तान्तर्गतं वृत्तमिदम्
सप्तदशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्— ʻमन्दाक्रान्ताम्बुधिरसनगैर्मो
भनौ गौ ययुग्मम्ʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं म भ न ग ग य य इति गणाः क्रमानुसारेण
विद्यन्ते, तद् छन्दः मन्दाक्रान्ता
इत्युच्यते।
उदाहरणम्—
कश्चित्
कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
शापेनास्तंगमितमहिमा
वर्षभोग्येन भर्तुः।
यक्षश्चक्रे
जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु
वसतिं रामगिर्याश्रमेषु।।
गणविश्लेषणम्—
गणविश्लेषणम्—
-- --
-- -- ◡ ◡ ◡ ◡ ◡
-- -- ◡
-- -- ◡
-- --
क
श्चित् का / न्ता वि र
/ ह गु रु / णा / स्वा
/ धि का र / प्र
म त्तः ।
म भ न ग
ग य य
अत्र श्लोकस्य प्रथमपादे म
भ न ग ग य य इति गणाः क्रमानुसारेण विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां
क्रमानुसारेण विद्यमानत्वात् अत्र
मन्दाक्रान्ता इति छन्दः प्रसज्यते।
अस्मिन् छन्दसि ʻअम्बुधिरसनगैʼ
इत्यस्मिन् पदे यतिनिर्देशः कृतः। ʻअम्बुधिःʼ इति चतुःसमुद्राः। ʻरसʼ इति षट्
रसाः, ʻनगःʼ पर्वतः इति, सप्त कुलपर्वताः
इत्यर्थः। अतः अत्र आदौ चतुर्थाक्षरे, ततः षष्ठाक्षरे, ततः सप्तमाक्षरे, अर्थात् पादान्ते
यतिः विद्यते।
१५. शार्दूलविक्रीडितम्
समवृत्तान्तर्गतं वृत्तमिदम्
उनविंशत्यक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्—
ʻसूर्याश्वैर्मसजसस्तताः सगुरवः शार्दूलविक्रीडितम्ʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं म स ज स त त ग इति गणाः क्रमानुसारेण
विद्यन्ते, तद् छन्दः शार्दूलविक्रीडितम्
इत्युच्यते।
उदाहरणम्—
पातुं न प्रथमं
व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते
प्रियमण्डनापि भवतां स्नेहेन या पल्लवम्।
आद्ये वः
कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति
शकुन्तला पतिगृहं सर्वैरनुज्ञायताम्।।
गणविश्लेषणम्—
गणविश्लेषणम्—
-- -- -- ◡ ◡ -- ◡ -- ◡ ◡ ◡ -- -- -- ◡ --
-- ◡ --
पा तुं न / प्र थ मं / व्य व स्य / ति ज लं / यु ष्मा स्व / पी ते षु / या ।
पा तुं न / प्र थ मं / व्य व स्य / ति ज लं / यु ष्मा स्व / पी ते षु / या ।
म स ज स त त ग
अत्र श्लोकस्य प्रथमपादे म स ज स त त ग इति गणाः क्रमानुसारेण
विद्यन्ते। अवशिष्टे पादत्रयेऽपि एषामेव गणानां क्रमानुसारेण विद्यमानत्वात् अत्र शार्दूलविक्रीडितम् इति छन्दः
प्रसज्यते।
अस्मिन् छन्दसि ʻसूर्याश्वैःʼ इत्यस्मिन् पदे यतिनिर्देशः कृतः। ʻसूर्यःʼ आदित्यः इति। द्वादश
आदित्याः। ʻअश्वःʼ इति सूर्यरथस्य सप्ताश्वाः । अतः अत्र आदौ द्वादशाक्षरे, ततः सप्तमाक्षरे,
अर्थात् पादान्ते यतिः विद्यते।
१६. स्रग्धरा
समवृत्तान्तर्गतं वृत्तमिदम्
एकविंशत्यक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्— ʻम्रभ्नैर्याणां
त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्ʼ
इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं म र भ न य य य इति गणाः क्रमानुसारेण
विद्यन्ते, तद् छन्दः स्रग्धरा
इत्युच्यते।
उदाहरणम्—
या सृष्टिः
स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं
विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम्।
यामाहुः
सर्वभूतप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु
वस्ताभिरष्टाभिरीशः।।
गणविश्लेषणम्—
-- -- --
-- ◡ -- -- ◡ ◡ ◡ ◡
◡ ◡ -- --
◡ -- -- ◡ -- --
◡ -- -- ◡ -- --
या सृ ष्टिः / स्र ष्टु रा / द्या व ह / ति
वि धि / हु तं या /
ह वि र्या / च होत्री ।
ह वि र्या / च होत्री ।
म र भ न य य य
अत्र श्लोकस्य प्रथमपादे म
र भ न य य य इति गणाः क्रमानुसारेण विद्यन्ते। अवशिष्टे पादत्रयेऽपि एषामेव गणानां
क्रमानुसारेण विद्यमानत्वात् अत्र स्रग्धरा इति छन्दः प्रसज्यते।
अस्मिन् छन्दसि ʻत्रिमुनिʼ इत्यस्मिन् पदे यतिनिर्देशः कृतः। ʻमुनिःʼ इति सप्त ऋषयः। ʻत्रिʼ
इति त्रि-संख्या। त्रि सप्त, अर्थात् प्रति सप्तमाक्षरानन्तरम् अत्र यतिः विद्यते।
१७. भुजङ्गप्रयातम्
समवृत्तान्तर्गतं वृत्तमिदम्
द्वादशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्— ʻभुजङ्गप्रयातं
चतुर्भिर्यकारैःʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं चत्वारः य-गणाः क्रमानुसारेण विद्यन्ते,
तद् छन्दः भुजङ्गप्रयातम् इत्युच्यते।
उदाहरणम्—
सदारात्मजज्ञातिभृत्यो
विहाय
स्वमेतं ह्रदं
जीवनं लिप्समानः।
मया क्लेशितः
कालियेत्थं कुरु त्वं
भुजङ्गप्रयातं
द्रुतं सागराय।।
गणविश्लेषणम्—
◡ -- -- ◡ -- -- ◡ -- -- ◡ -- -- (पादान्तगुरुः)
◡ -- -- ◡ -- -- ◡ -- -- ◡ -- -- (पादान्तगुरुः)
स
दा रा / त्म ज ज्ञा /
ति भृ त्यो / वि हा य ।
य य य य
अत्र श्लोकस्य प्रथमपादे चत्वारः य-गणाः क्रमानुसारेण
विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां क्रमानुसारेण विद्यमानत्वात् अत्र भुजङ्गप्रयातम्
इति छन्दः प्रसज्यते।
अस्मिन् छन्दसि ʻभुजङ्गʼ इत्यस्मिन् पदे यतिनिर्देशः कृतः। ʻभुजङ्गʼ इति नागः (सर्पः),
शास्त्रे अष्ट नागाः उल्लिखिताः। अतः अत्र
आदौ अष्टमाक्षरे, ततः चतुर्थाक्षरे, अर्थात् पादान्ते यतिः विद्यते।
१८. विद्युन्माला
समवृत्तान्तर्गतं वृत्तमिदम्
अष्टाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं
कृतम्— ʻमो
मो गो गो विद्युन्मालाʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं म म ग ग इति गणाः क्रमानुसारेण
विद्यन्ते, तद् छन्दः विद्युन्माला
इत्युच्यते।
उदाहरणम्—
वासोवल्ली विद्युन्माला
वर्हश्रेणी
शक्रश्चापः।
यस्मिन् सस्तात्
तापोच्छित्त्यै
गोमध्यस्थः
कृष्णाम्भोदः।।
-- --
-- -- --
-- -- --
गणविश्लेषणम्— वा
सो व / ल्ली वि द्यु
/ न्मा / ला ।
म म ग
ग
अत्र श्लोकस्य प्रथमपादे म म ग ग इति गणाः क्रमानुसारेण विद्यन्ते।
अवशिष्टे पादत्रेऽपि एषामेव गणानां क्रमानुसारेण विद्यमानत्वात् अत्र विद्युन्माला
इति छन्दः प्रसज्यते। अस्मिन् छन्दसि
पादान्ते यतिः विद्यते।
१९. स्रग्विनी
समवृत्तान्तर्गतं वृत्तमिदम्
द्वादशाक्षर-विशिष्टम्। आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्— ʻकीर्त्तितैषा
चतुरेफिका स्रग्विनीʼ इति ।
अर्थात् यस्मिन् छन्दसि प्रतिपादं
चत्वारः र-गणाः क्रमानुसारेण
विद्यन्ते, तद् छन्दः स्रग्विनी इत्युच्यते।
उदाहरणम्—
इन्द्रनीलोपलेनेव
या निर्मिता
शातकुम्भद्रवालङ्कृता
शोभते।
नव्यमेघच्छविः
पीतवासा हरे-
र्मूर्त्तिरास्तां
जयायोरसि स्रग्विनी।।
-- ◡
-- -- ◡ --
-- ◡ -- -- ◡
--
गणविश्लेषणम्— इ
न्द्र नी / लो प ले /
ने व या / नि र्मि ता
र र र र
अत्र श्लोकस्य प्रथमपादे चत्वारः र-गणाः क्रमानुसारेण
विद्यन्ते। अवशिष्टे पादत्रेऽपि एषामेव गणानां क्रमानुसारेण विद्यमानत्वात् अत्र स्रग्विनी
इति छन्दः प्रसज्यते। अस्मिन् छन्दसि
पादान्ते यतिः विद्यते।
-------
Comments