ads

ad

Broad Questions-- 3 & 4, किरातार्जुनीयम्, प्रथमः सर्गः,C-4, 2nd sem, cbpbu



Broad Questions-- 3 & 4, किरातार्जुनीयम्, प्रथमः सर्गः,C-4, 2nd sem, cbpbu

३. दुरोदरछद्मजितां समीहते
नयेन जेतुं जगतीं सुयोधनः।

--अत्र वक्ता कः  ? अत्र सुयोधनः इत्यनेन कः अभिहितः? उल्लिखितस्य जनस्य राज्यशासननीतिविषये नातिदीर्घः कश्चित् प्रबन्धः विरचनीयः।
अथवा, वनेचरोक्तं दुर्योधनस्य शासनवृत्तान्तं सोदाहरणं संक्षेपेण विव्रियताम्।

उत्तरम्— युधिष्ठिरः द्यूतक्रीडायां दुर्योधनेन पराजितः सन् द्रौपद्या भ्रातृभिश्च सह वनं गतः। तदा द्वैतवने अवस्थानकाले युधिष्ठिरः दुर्योधनस्य राज्यशासनवृत्तान्तं विज्ञातुम्  एकं वनेचरं नियुक्तवान्। स वनेचरः कुरुराज्यं भ्रमित्वा युधिष्ठिर-सपीपं वार्ता-निवेदनावसरे इदमुक्तवान्।
अत्र इत्यनेन दुर्योधनः अभिहितः।

वनेचर-वर्णिता दुर्योधनस्य शासननीतिः---
वनेचरेण उक्तम्—दुर्योधनः युधिष्ठिरस्य यशः म्लानीकर्तुं तथा प्रजानां मनः जेतुं सुष्ठु नीतिप्रयोगं करोति। स काम-क्राधादीन् रिपून् जित्वा मनुप्रवर्तितां शासननीतिम् अनुसर्तुं चेष्टते—

कृतारिषड्वर्गजयेन मानवी-
मगम्यरूपां पदवीं प्रपित्सुना।
विभज्य नक्तन्दिवमस्ततन्द्रिणा
वितन्यते तेन नयेन पौरुषम्।।

राज्ञः अन्यतमः प्रधानः गुणः अहङ्कारशून्यता। दुर्योधनः अहङ्कारं त्यक्तवान्। सः अनुजीविनः प्रति सखा इव, बान्धवान् प्रति आत्मीय इव आचरति। आत्मीयान् प्रति आचरणेन ज्ञातं यत्, ते एव तस्य प्रभवः—

सखीनिव प्रीतियुजोऽनुजीविनः
समानमानान् सुहृदश्च बन्धुभिः।
स सन्ततं दर्शयते गतस्मयः
कृताधिपत्यामिव साधु बन्धुताम्।।

दुर्योधनः सममेव धर्मार्थकामान् सेवते। उक्तं च कौटिल्येन—न निःसुखः स्यात्। सममेव धर्मार्थकामान् सेवतेअयं त्रिवर्गः दुरयोधनं प्रति अनुरक्तः सन् परस्परं न बाधते—

गुणानुरागादिव सख्यमीयिवान् न बाधतेऽस्य त्रिगणः परस्परम्
दुर्योधनः यथायथं सामदानादिनीतेः प्रयोगं करोति। यदाह वनेचरः—

निरत्ययं साम न दानवर्जितं
न भूरिदानं विरहय्य सत्क्रियाम्।
प्रवर्त्तते तस्य विशेषशालिनी
गुणानुरोधेन विना न यत्क्रिया।।

दुर्योधनः अधुना जितेन्द्रियः। न लोभेन न वा क्रोधेन, केवलं कर्तव्यबोधेन स पुत्रे शत्रौ वा समदृष्ट्या दण्डप्रयोगेन धर्मविप्लवं निवारयति— गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन धर्मविप्लवम्
अस्मिन् विषये आचार्येण कौटिल्येन उक्तम्—तीक्ष्णदण्डो हि भूतानामुद्वेजनीयः। मृदुदण्डः परिभूयते। यथार्हदण्डः पूज्यः
दुर्योधनः राजनीतिशास्त्रम् अनुसृत्य स्वराज्ये परराज्ये च विश्वस्तान् रक्षिपुरुषान् वियुक्तवान्। स शङ्कितः अपि आत्मानम् अशङ्कितमिव दर्शयति। कार्यसमाप्तौ सः अनुजीविनः पारितोषिकप्रदानेन सन्तुष्टान् करोति। सामदानादिनीतेः यथायथं प्रयोगात् अन्यः राजन्यवर्गः अपि तस्य वशीभूतः। ते दुर्योधनाय नानाविधानि उपढौकनानि प्रददति।
कर्षकाणाम् उन्नतिविधानार्थं दुर्योधनेन विविधा परिकल्पना गृहीता। तस्य परिकल्पनायाः सफलात् कुरुराज्यम् अधुना शस्यसम्पदा समृद्धं जातम्। अस्मिन् विषये वनेचरेण उक्तम्—

सुखेन लभ्या दधतः कृषीबलै-
रकृष्टपच्या इव शस्यसम्पदः।
वितन्वति क्षेममदेवमातृका-
श्चिराय तस्मिन् कुरवश्चकासति।।

दुर्योधनस्य धानुष्काः धनादिभिः सम्मानिताः, ते प्राणेभ्योऽपि तस्य प्रियाणि साधयितुं सदा तत्पराः। शत्रूणाम् उपजापात् रक्षार्थं दुर्योधनेन इदं कृतम्।
दुर्योधनस्य गुप्तचरविभागः प्रभूतं शक्तिसम्पन्नः। स विशेषगुणसम्पन्नैः चरैः कार्यजातं निःशेषेण जानाति। तस्य परिकल्पना-विषये न कोऽपि जानाति, केवलं फलेन तद् अनुमीयते—

महीभृतां सच्चरितैश्चरैः क्रियाः
स वेद निःशेषमशेषितक्रियः।
महोदयैस्तस्य हितानुबन्धिभिः
प्रतीयते धातुरेवेहितं फलैः।।

दुर्योधनः दुःशासनं यौवराज्ये अभिषिच्य अन्तःकलहस्य सम्भावनां निवारितवान्। पुरोहितस्य उपदेशानुसारेण यज्ञं सम्पाद्य देवतानाम् आनुकूल्यलाभाय यतते।
उपसंहारः— वनेचरोक्तं दुर्योधनस्य शासनवृत्तान्तम् अर्थशास्त्रादि-ग्रन्थेषु विस्तरेण आलोचितम्। तेभ्यः ग्रन्थेभ्यः एव भारविणा तत्त्वगता धारणा गृहीता। प्राचीनभारतस्य राज्ञः आदर्शगतम्  रूपं दुर्योधनस्य चरित्रे सन्निविष्टम्। वनेचरस्य गभीरार्थबोधकम् उक्तिजातम् अतीव चमत्कारजनकम्। यथा—हितं मनोहारि च दुर्लभं वचः, वरं विरोधोऽपि समं महात्मभिः, निगूढतत्त्वं नयवर्त्म विद्विषाम्, दुरन्ता बलवद्विरोधिताइत्यादयः।  अतः यथार्थमुक्तम्— भारवेरर्थगौरवम् इति शम्।

----------


४. किरातार्जुनीयम् इति महाकाव्यस्य प्रथमे सर्गे वर्णितं द्रौपद्या उक्तिजातं संक्षेपेण विवृत्य तत्र प्रतिफलितं तस्याः चारित्रिकं वैशिष्ट्यम् उपस्थाप्यताम्।
उत्तरम्—
उपक्रमः-- भारवेरर्थगौरवम्’, ‘नारिकेलफलसम्मितं वचो भारवेः इत्यादिभिः प्रशस्तिभिः लब्धकीर्तेः महाकवेः भारवेः अपूर्वं महाकाव्यं किरातार्जुनीयं नाम। पाण्डित्य-वैदग्ध्ययोः समन्वयेन अनवद्या सृष्टिरियम्। कपटपाशाक्रीडायां हृतसर्वस्वः युधिष्ठिरः द्वैतवने वासकाले केनचिद् वनेचरेण युधिष्ठिरस्य राज्यशासन- वृत्तान्तं ज्ञात्वा द्रौपद्याः तथा अपराणां पाण्डवाणां संमक्षं विवृतवान्। तत् श्रुत्वा द्रौपदी आत्मनः मनःकष्टं नियन्तुमक्षमा युधिष्ठिरस्य सुप्तं क्षात्रतेजः जागरयितुम् उत्साहं च बर्धयितुं यदवत् तत् किरातार्जुनीयस्य प्रथमसर्गे विधृतमस्ति।

द्रौपद्याः उक्तेः सारसंक्षेपः—
द्रौपद्या उक्तम्--  युधिष्ठिरः स्वयमेव ज्ञानी। स्त्रीलोकस्य उपदेशः तत्पक्षे अपमानजमकः इति। तथापि तस्याः मनोगताः आधिजातयः तां वक्तुं व्यवसाययन्ति। युधिष्ठिरस्य पूर्वपुरुषाः इन्द्र इव पराक्रमशालिनः आसन्। ते सुदीर्घकालं यावत् निःसपत्नं राज्यं शासति स्म, परन्तु युधिष्ठिरः मदमत्तेन गजेन  माला-परित्यागवत् तद्राज्यं परित्यक्तवान्।  शठान् प्रति शठाचरणमेव विधेयम्। ये तत् न कुर्वन्ति ते पराभवं प्राप्नुवन्ति—

व्रजन्ति ते मूढधियः पराभवं
भवन्ति ये मायाविषु न मायिनः।
प्रविश्य हि घ्नन्ति शठास्तथाविधा-
नसंवृताङ्गान्निशिता इवेषवः।।

ततःपरं द्रौपद्या किञ्चित् तिरस्कारपूर्वकं पृष्टम्—अनुरक्तसाधनः कुलाभिमानी युधिष्ठिरादन्यः को राजा गुणानुरक्तां कुलजां मनोरमाम् आत्मवधूमिव राजलक्षीं शत्रुभिः अपहारयेत्? मनस्विनिन्दितोऽयं पन्थाः। युधिष्ठिरः तेनैव पथा वर्तते। अतः कथम् उद्दीपितः क्रोधः शुष्कं शमीतरुम् उच्छिखः अग्निरिव तं न ज्वालयति? द्रौपदी भूय आह—

अबन्ध्यकोपस्य विहन्तुरापदां
भवन्ति वश्याः स्वयमेव देहिनः।
अमर्षशून्येन जनस्य जन्तुना
न जातहार्देन न विद्विषादरः।।

अर्थात् सर्वे जनाः क्रोधयुक्तस्य जनस्य एव वशीभूताः भवन्ति, न अक्रोधिनः।
एतेन युधिष्ठिरस्य किमपि परिवर्तनं न दृष्ट्वा द्रौपदी भीमादीनां पाण्डवाणां दुर्दशां वर्णितवती। यः भीमः पूर्वं रक्तचन्दन-चर्चितः सन् रथेन व्रजति स्म, सोऽधुना धूलिधूसरितदेहः तस्य कृते  पदव्रजेन वनात् वनान्तरं विचरति। यः अर्जुनः एकदा उत्तरकुरून् विजित्य प्रभूतं धनं युधिष्ठिराय अयच्छत् सोऽधुना तस्य कृते वल्कलवासांसि आहरति। एतद् दृष्ट्वा कथं तस्य क्रोधः न जागर्ति? नकुल-सहदेवयोः अवस्थापि शोचनीया। द्रौपद्या उक्तम्—

वनान्तशय्या कठिनीकृताकृती
कचाचितौ विष्वगिवागजौ गजौ।
कथं त्वमेतौ धृतिसंयमौ यमौ
विलोकयन्नुत्सहसे न वाधितुम्।।

अनेनापि युधिष्ठिरस्य मनसः समावस्थां प्रेक्ष्य द्रौपदी हताशाग्रस्ता सती आह—
इमामहं वेद न तावकीं धियः
विचित्ररूपा खलु चित्तवृत्तयः।
विचिन्त्ययन्त्या भवदापदं परां
रुजन्ति चेतः प्रसभं ममाधयः।।

द्रौपदी युधिष्ठिरस्य आसन्न-विपद्विषये चिन्तयित्वा मर्मपीडाम् अनुभवति स्म। सा युधिष्ठिरस्य दुर्दशां स्मारयित्वा उद्दीपयितुं चेष्टते स्म। यः युधिष्ठिरः एकदा राजारूपेण बहुमूल्यायां शय्यायां शेते स्म, चारणानां स्तुतिमङ्गलगीतैः जागर्ति स्म, सोऽधुना कुशाकीर्णायां भूमौ शेते, अमङ्गलजनकैः शृगालरवैः च जागर्ति। यस्य चरणयुगलं मणिमयपादपीठे अवस्थानं करोति स्म, बहूनां राजन्यानां मकुटमणि-परागैः रञ्जितमासीत्, तदधुना कुशवनभूमौ विचरति। पूर्वं विप्रश्रेष्ठानां भुक्तावशिष्टैः अन्नैः तस्य देहः सुपुष्टः आसीत्, अधुना वन्यफलमूलभक्षणात् यशसा समं तस्य शरीरः अपि शीर्णः जातः। युधिष्ठिरस्य इयं दुर्दशा शत्रुकृता, अस्मादेव कारणात् द्रौपदी अतीव व्यथिता जाता। शत्रुणा यदि शक्तिः सम्पद् च विनष्टा न भवेत्, तर्हि पराभवोऽपि मानिनाम् उत्सव एव— परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम्।

अन्ते च द्रौपदी युधिष्ठिरं शान्तभावं परित्यज्य तेजः धारयित्वा शत्रुवधाय उद्यतः भवितुम् अनुरुद्धवती। यतः—
व्रजन्ति शत्रूनवधूय निःस्पृहाः
शमेन सिद्धिं मुनयो न भूभृतः।

द्रौपदी युधिष्ठिरं भूय आह यत्, शठतापरायणेषु शत्रुषु पूर्वप्रतिज्ञा-रक्षणं न युक्तियुक्तम्। विजयार्थिनः राजानः कदापि तत् न कुर्वन्ति। अत्र न कोऽपि दोष—अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि सन्धिदूषणानि। अतः युधिष्ठिरेणापि पूर्वप्रतिज्ञारक्षणं न कर्तव्यम् इति।

द्रौपद्याः चारित्रिक-वैशिष्ट्यम्—

द्रौपदी क्षत्रिया नारी। तेजस्विता तस्याः चरित्रस्य स्वाभाविकं वैशिष्ट्यम्। शत्रोः मनागपि उन्नतिः तस्याः असहनीया। दुर्योधनस्य कूटचक्रान्तेन पाण्डवाः सम्प्रति सर्वस्वान्ताः, चरम-दुर्दिनस्य सम्मुखीनाः, विपर्यस्ताः च। अतः सा दुर्योधनस्य समृद्धिविषयकं विवरणं श्रुत्वा धैर्यधारणे असमर्था जाता। युधिष्ठिरस्य निःस्पृहभावात् सा भूयोऽपि क्षुब्धा जाता। तस्मात् सा वारंवारं क्रोधोद्दीपक-प्रसङ्गेन युधिष्ठिरम् उद्दीप्तं कर्तुं चेष्टते स्म। 
द्रौपदी आत्मनः अवस्थानविषयेऽपि सचेतना। युधिष्ठिरम् उपदेशदानं तस्याः न समीचीनमिति सा जानाति। परन्तु तेषां साम्प्रतिकी दुर्दशा अपि असहनीया। अतः कठोर-वाक्यप्रयोदात् पूर्वं तत् विज्ञापयितुं सा न विस्मृता।
द्रौपदी वास्तवबोधसम्पन्ना। सा जानाति—शठे शाठ्यं समाचरेत्। सा पाण्डवान् प्रति अतीव संवेदनशीला। युधिष्ठिरः एव तेषां अस्याः दुर्दशायाः कारणम्। अतः दुर्योधनसकाशात् राज्यस्य पुनरुद्धारं कृत्वा तेषां यथायोग्यं स्थानप्रदानं युधिष्ठिरेण एव कर्तव्यमिति द्रौपद्या परोक्षेण विज्ञापितम्।

द्रौपदी राजनीतिविषयेऽपि प्रवीणा। तया उक्तम्—अरिषु हि विजयार्थिनः क्षितीशाः विदधति सोपधि सन्धिनूषणानि। एवमेव महाकविना भारविणा अङ्किता द्रौपदी न केवलं वीरजाया, अपि तु वीराङ्ना अपि। क्षत्रियोचिताः सर्व एव गुणाः तस्यां वर्तन्ते। अतः द्रौपदी एका आदर्शस्थानीया क्षत्रिया नारी।

------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1