ads

ad


किरातार्जुनीयम्, प्रथमः सर्गः, C-4, 2nd sem, cbpbu



. भारवेरर्थगौरवम् इति वचनस्य याथार्त्यं किरातार्जुनीयस्य प्रथमसर्गमवलम्ब्य प्रतिपादनीयम्।

उत्तरम्-- अर्थगौरवम् इत्यस्य अर्थः अर्थस्य गाम्भीर्यम् इति। महाकवेः माघस्य मूल्यायन-प्रसङ्गेन केनचित् समालोचकेन उक्तम्—

उपमा कालिदासस्य भारवेरर्थगौरवम्।
नैषधे पदलालित्यं माघे सन्ति त्रयो गुणाः।।

भारवेः रचनायाः असाधारणं वैशिष्ट्यम् अर्थगौरवम् इति। अर्थगौरव-विषये भारविणा उक्तम्—गरीयसी गीः, गरीयो वाक्यम्, गुर्वी अर्थसम्पद्इति। डः दाशगुप्तमहोदयान उक्तम्‘profundity of thought.’  भारवेः रचनायाम् इदं वैशिष्ट्यं भूयसा उपलभ्यते।

भाषाप्रयोगविषये भारविः अतीव सचेतनः कविः। तस्य भाषाप्रयोगस्य आदर्शगतं रूपं विविधानां चरित्राणां मुखेन व्यक्तम्। यथा किरातार्जुनीयस्य प्रथमे सर्गे वनेचरः—

सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे

द्वितीये सर्गे युधिष्ठिरेण उक्तम्—

स्फुटता न पदैरपावृता न च न स्वीकृतमर्थगौरवम्।
रचिता पृथगर्थता गिरां न च सामर्थ्यपोहितं क्वचित्।।

एकादश-सर्गे अर्जुनेन उक्तम्—
प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम्।
साकाङ्क्षमनुपस्कारं विष्वग्गति निराकुलम्।।

मानवजीवनस्य विविधेषु विषयेषु भारवेः प्रभूतम् अर्थगौरवयुक्तं सारवद् वक्तव्यं किरातार्दुनीये विधृतमस्ति।
यथा प्रथमे सर्गे वनेचरेण उक्तम्—न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः
--हिताकाङ्क्षिणः जनाः कदापि मृषा प्रियवाक्यं वक्तुं न इच्छन्ति।
वाक्यं साधारणतः मनोहरमपि हितकरं न भवति। हितकरं वाक्यम् अधिकेषु क्षेत्रेषु प्रियं न भवति। अतः उक्तं वनेचरेण—हितं मनोहारि च दुर्लभं वचः इति।
नीचसङ्गापेक्षया महापुरुषैः सप विरोधोऽपि वरम्। यतः अनेन विरोधेन आत्मोन्नतिः जायते। 
अत्र उक्तं वनेचरेण—
                समुन्नयन् भूतिमनार्यसङ्गमाद्
                वरं विरोधोऽपि समं महात्मभिः इति।

आत्मापेक्षया वलवता शत्रुणा सह विरोधस्य परिणामः भयङ्करः। अत्र उक्तं वनेचरेण—
अहो ! दुरन्ता वलवद्विरोधिताइति।

क्रोधहीनं जनं न कोऽपि समादरं करोति न वा तस्माद् विभेति। अस्मिन् विषये द्रौपद्या उक्तम्—
अमर्षशून्येन जनस्य जन्तुना
न जातहार्देन न विद्विषादरःइति।

उपभोगक्षमं विषयजातम् उपभोगकाले रमणीयमपि परिणामे परितापकारणं भवति। अत्र उक्तम्—
आपातरम्या विषया पर्यन्तपरितापिनःइति।

जगति सौन्दर्यं सुलभं, परन्तु गुणार्जनं दुर्लभमेव। अस्मिन् विषये उक्तम्—
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम्इति।

मानहीनस्य मनुष्यस्य तृणस्य च अवस्था समाना। अत्र उक्तम्—
जन्मिनो मानहीनस्य तृणस्य च समा गतिःइति।

अविविच्य सहसा कार्यं न कुर्यात्, तेन विपद् भूयो वर्धते। विमृष्यकारिणं जनं स्वयमेव वृणुते। भारविणा उक्तम्—
सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
वृणुते हि विमृष्यकारिणं गुणलुब्धा स्वयमेव मेदिनी।।

ईर्ष्या-दोषस्य क्षतिकारकत्व-विषये उक्तम्—
मात्सर्यरागापहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि

उत्तमाश्रये गुणः विशेषत्वं लभते—
प्राप्यते गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः

समम् आगतं सङ्कटजातं सहजां शत्रुतां नाशयति—
घ्नन्ति सहजमपि भूरिभियः सममागताः सपदि वैरमापदः

प्रसन्नं क्षुब्धं वा चित्तं शत्रुं मित्रं च ज्ञापयति—
विमलं कलुषीभवच्च चेतः हितैषिणं रिपुं वा

अज्ञता हि भ्रान्तानां दोषमाच्छादयति—प्रमाद्यतां संवृणोति खलु दोषमज्ञता

विपदि विभ्रान्तं  मनः अवसन्नं भवेत्—मुह्यतेव हि कृच्छ्रेषु सम्भ्रमज्वलितं मनः

महतां चित्तवृत्तिः दुर्ज्ञेया—दुर्लक्षचिह्ना महतां हि वृत्तिः

एतद्व्यतिरिक्तं सतां वाणी गुणमेव भाषते, ब्रताभिरक्षा हि सतामलं क्रियाइत्यादिकं प्रभूतम् उदाहरणं दीयेत यत्र भारवेः अर्थगौरवम् सुतरां प्रकटितम् इति।

उपसंहारः—महाकवेः भारवेः उल्लिखितेषु सन्दर्भेषु गभीरं जीवनसत्यं ध्वनितम्। आषां वाक्यानां गाम्भीर्यं सारवत्त्वं च अतुलनीयम्। भारवेः वाक्येषु यथा ओजोगुणस्य सन्निवेशः दृश्यते, तथा प्रसादगुणसम्पन्नं वाक्यमपि प्रभूतं सुलभम्। भारवेः वाक्यम् आपातोबाह्यं काठिन्यमतिक्रम्य परिणामे अर्थगौरवस्य महिमा एव लभते। तस्मात् तस्य काव्यं काव्यरसिकाणाम् अमन्दमानन्दं जनयति। अतः भारवेः रचनाशैलीविषये भारवेरर्थगौरवम्इति मूल्यायनं यथार्थम् इति शम्।
------


२.  नारिकेलफलसम्मितं वचो भारवेः इति वचनस्य याथार्थ्यं प्रतिपाद्यताम्।

उत्तरम्— संस्कृतसाहित्यस्य कृत्रिमतायाः युगे भारवेः आविर्भावः। अस्मिन् युगे शास्त्रकाव्यस्य वैदग्ध्यं, भाषाया ऐश्वर्यं, वर्णनाया आडम्बरः, तथा भावगाम्भीर्यमेव रचनायाः उत्कर्षत्वेन परिगण्यते स्म। एवम्प्रकारक-काव्यरचनायां भारविः अग्रगण्यः आसीत्। सर्वेषामेव कवीणां स्वतन्त्रा रचनाशैली विद्यते। कवेः स्वकीय-दर्शनानुसारेण, तथा युगधर्मस्य प्रभावानुसारेण साहित्यशैली निर्धार्यते। अस्मिन् विषये केनचित् पाश्चात्त-समालोचकेन उक्तम्— All literature implies style, for style is the reflection of writer's personality which is again determined by the age in which he lives.' भारविः सहजात-प्रतिभया सह पाण्डित्यमिश्रणेन अभिनवां रचनारीतिं प्रवर्तितवान्।

महाकवेः भारवेः वाक्यस्य मूल्यायनप्रसङ्गेन टीकाकारेण मल्लिनाथेन उक्तम्—
नारिकेलफलसम्मितं वचो भारवेः सपदि तद् विभज्यते।
स्वादयन्तु रसगर्भनिर्भरं  सारमस्य रसिका यथेप्सितम्।।
अर्थात् भारवेः वाक्यं  नारिकेलफलमिव  बहिः कठिनम्। बहुना आयासेन नारिकेलफलस्य वहिरावरणं भित्त्वा अभ्यन्तरे कोमलं स्वादु खाद्यं प्राप्यते। तद्रूपं भारवेः श्लोकस्य बहिरावरणम् आपातोरुक्षं कठिनं च। श्लोकस्य  अन्वय-सन्धि-समास-प्रत्ययादि यथायथं विभज्य  तस्मात् मधुरः रमणीयः अर्थश्च लभ्यते। केवलं सहृदय-सामाजिकाः तथा निविष्टचित्ताः पाठकाः एव तद्रसम् आस्वादयितुम् अर्हन्ति। अत उक्तम् आचार्येण विश्वनाथेन—

सवासनानां सभ्यानां रसस्यास्वादनं भवेत्।
निर्वासनाः शाब्दिकाद्याः काष्ठलोष्ट्राश्मसन्निभाः।।

भारवेः वाक्यस्य इदम् असाधारणं वैशिष्ट्यं तस्य काव्यस्य सर्वत्रैव विद्यते। यथा प्रथमसर्गस्य अयं श्लोकः—

कथाप्रसङ्गेन जनौरुदाहृताद-
नुस्मृताखण्डलसूनुविक्रमः।
तवाभिधानाद् व्यथते नताननः
सुदुःसहान्मन्त्रपदादिवोरगः।।

अस्य सारार्थः खलु—आलोचनाप्रसङ्गेन प्रजाभिः युधिष्ठिरस्य नामोल्लेखे एव दुर्योधनः अर्जुनस्य पराक्रमं स्मृत्वा नतमस्तकः जायते इति। अस्य श्लोकस्य बहिरावरणं कठिनमपि यथायथं विश्लेषेण मधुरः गभीरश्च अर्थः  लभ्यते।
नकुल-सहदेवयोः  दुर्दशा-वर्णनाप्रसङ्गेन द्रौपद्याः उक्तिरेव एवंवौशिष्ट्ययुक्ता—

वनान्तशय्या कठिनीकृताकृती
कचाचितौ विष्वगिवागजौ गजौ।
कथं त्वमेतौ धृतिसंयमौ यमौ
विलोकयन्नुत्सहसे न बाधितुम्।।

अस्य सारार्थः—वनभूमौ शयनात् नकुल-सहदेवयोः आकृतिः कठिना, केशादिना च परिव्याप्ता जाता। अत्र अनुप्रासस्य काठिन्यं भित्त्वा नकुल-सहदेवयोः करुणावस्था अनायासेनैव उपलभ्यते।
अन्येषु सर्गेषु अपि एतद् दृश्यते। यथा—पञ्चदशसर्गस्य  अयं श्लोकः केवलं न' इति वर्णेन विरचितः—

न नोननुन्नो नुन्नो नो नानानना ननु।
नुन्नोऽनुन्नो ननुन्नेन नानेनानुन्ननुन्ननुत्।।

अस्य श्लोकस्य अर्थोद्धारः अतीव श्रमसाध्यः। अस्य सारार्थः खलु—यः नीचेन पुरुषेण पराजितः भवेत् स न मनुष्यः, यः पुनः नीचं पुरुषं पराजितं करोति सोऽपि न मनुष्यः। यः अत्यन्तं पीडितं पुनः पीडयति सोऽपि न मनुष्यः, स नीच एव।

पञ्चदशसर्गस्य  अपरः एकः  श्लोकः—

देवाकानिनि कावादे
वाहिकास्वस्वकाहि वा।
काकारेभभरे काका
निस्वभव्यव्यभस्वनि।।

अत्र शिवार्जुनयोः युद्धे गजरुधिर-दर्शनात् देवतानामुत्साहः, योद्धॄणां स्वल्पः वाक्कलहः, रणचातुर्यम्, काकानाम् उपस्थितिः इत्यादिना वीभत्सः रसः सुपरिस्फुटः।
पञ्चदशसर्गस्य  एकाक्षरपादः एकः  श्लोकः—

स सासिः साससु सासो
षेषाषेषाषाषषाषषः।
ललौ लीलां ललोऽलोलः
शशीशशिशुशीः शशन्।।

अस्मिन् श्लोके असि-धनुर्वाणादिभिः सज्जितः आक्रमणात्मकरूपेण युद्धक्षेत्रे परिक्रमणशीलः अर्जुनः वर्णितः।
अपरः एकः द्व्यक्षरपादः श्लोकः—

चारश्चुञ्चुश्चिरारेची
चञ्चच्चीररुचा रुचः।
चचार रुचिरश्चारुः
चारैराचार चञ्चुरः।।

अस्य श्लोकस्य अर्थः--  यः विःशेषेण शत्रुं रिक्तं करोति, यः चञ्चल-वल्कल-शोभामण्डितः, यः विशेषगतिभङ्गि-निपुणः, युद्धकुशलः, सः अर्जुनः मनोहरगत्या विचरितुम् आरेभे।
अन्यः एकः श्लोकः—

घनं विदार्यार्जुनवाणपूगं
ससारवाणोऽयुगलोचनस्य।
घनं विदार्यार्जुनवाणपूगं
ससारवाणोऽयुगलोचनस्य।।
--किरातरूपिणा शिवेन वर्षितस्य वाणस्य प्रचण्डत्वं वर्णितम्।

विकाशमीयुर्जगतीशमार्गणा
विकाशमीयुर्जगतीशमार्गणा।
विकाशमीयुर्जगतीशमार्गणा
विकाशमीयुर्जगतीशमार्गणा।।
--अर्जुनवर्षितैः बाणैः शिवनिक्षिप्त-बाणानां विनाशत्वं प्रमथानां विस्मयत्वं च वर्णितम्।
एवम् बहवः श्लोकाः सन्ति भारविकाव्ये यत्र आपात-काठिन्यस्य  अङ्यन्तरे रमणीयः रसः लभ्तते।

उपसंहारः—महाकवेः भारवेः केचित्  श्लोकाः काठिन्ययुक्ता अपि बहवः गङीरार्थबोधकाः श्लोकाः अपि दृश्यन्ते। बाह्यकाठिन्यं दृष्ट्वा नेदं वक्तुं शक्यते यत्, भारविः सहजबोध्यं श्लोकं विरचयितुमसमर्थः आसीत्। अस्मिन् विषये हितं मनोहारि च दुर्लभं वचः, अहो दुरन्ता बलवद्विरोधिता, न हि प्रियं प्रवक्तेमिच्छन्ति मृषा हितैषिणः इत्यादि अर्थगौरवयुक्तं वाक्यजातमेव प्रमाणमिति। तथापि आपात-बाह्य-काठिन्यं भारवेः काव्यविचार-प्रसङ्गेन तत्रभवतः मल्लिनाथस्य नारिकेलफलसम्मितं वचो भारवेःइति वचनं यथार्थमिति शम्।
------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—