ads

ad

संस्कृतभाषया व्याख्या कार्या— किरातार्जुनीयम्, प्रथमः सर्गः,C-4, 2nd sem, cbpbu



संस्कृतभाषया व्याख्या कार्या— किरातार्जुनीयम्, प्रथमः सर्गः,C-4, 2nd sem, cbpbu

१. स किंसखा साधु न शास्ति योऽधिपं
    हितान्न यः संशृणुते स किम्प्रभुः।
    सदानुकलेषु हि कुर्वते रतिं
    नृपेष्वमत्येषु च सर्वसम्पदः।। (श्लोक—५)

उत्सः-- श्लोकोऽयं महाकवि-भारवि-विरचितस्य किरातार्जुनीयम् इति महाकाव्यस्य प्रथमसर्गात् उद्धृतः।

प्रसङ्गः—कपटद्यूतक्रीडायां हृतसर्वस्वः युधिष्ठिरः दुर्योधनस्य राज्यशासनवृत्तान्तं विज्ञातुम् एकं वनेचरं चररूपेण नियुक्तवान्। स वनेचरः कुरुराज्यं प्रविश्य सर्वं विज्ञाय द्वैतवने युधिष्ठिराय निवेदयामास। राज्यस्य समृद्धिसाधनार्थं राजमन्त्रिणोः सम्पर्कविषये यदुक्तं तदत्र श्लोके विवृतम्—स किं सखेति।

अन्वयः—यः अधिपं साधु न शास्ति, स किंसखा।, यः हितात् न संशृणुते स किम्प्रभुः। हि नृपेषु अमात्येषु च अनुकूलेषु सर्वसम्पदः सदा रतिं कुर्वते।

व्याख्या—राजकार्ये मन्क्रणाकार्यम् आवश्यकम्। राज्ञा एकाकिना मन्त्रणा न कार्या। तत्र मन्त्रिणां साहाय्येन प्रयोजनम्। उक्तं च कौटिल्येन—सहायसाध्यं राजत्वं चक्रमेकं न प्रवर्ततेमन्त्रणाकार्ये नियुक्तेन मन्त्रिणा अप्रिमपि कदापि अन्यत्प्रकारं न वक्तव्यम्। एवं चरैरपि भवितव्यम्। राजानः खलु चारचक्षुषः। चरैरेव ते पश्यन्ति। अतः तैः कदापि मृषा न वक्तव्या। वनेचरेण संगृहीतं दुर्योधनस्य अभ्युदयवृत्तान्तं युधिष्ठिरस्य न प्रियम्। तत् किम् अनृतभाषणं युक्तम्, उत तूष्णीं स्थातव्यम् इत्यशङ्क्य आह वनेचरः—स किं सखा इति।
यः जनः अधिपं प्रभुम् (अत्र युधिष्ठरम्) साधु न शास्ति हितकरं न उपदिशति, स किंसखा कुत्सितः सखा इत्यर्थः। अर्थात् यः मन्त्री राजभृत्यः वा कार्यविघाताय सदुपदेशं न ददाति, स दुर्मन्त्री, कुत्सितः सखा वा। यः प्रभुः पुनः हितात् हिताकाङ्क्षिणः जनात् न संशृणुते न शृणोति इत्यर्थः, स किम्प्रभुः कुत्सितः स्वामी। हि यस्मात् नृपेषु अमात्येषु अनुकूलेषु, अर्थात् नृपाणाम् अमात्यानां च मध्ये अनुकूलसम्बन्धे विद्यमाने सति सर्वसम्पद् सदा नियतं रतिं कुर्वते अनुरागं विदधति, कदापि न जहाति इत्यर्थः। अमात्यैः यथा सदुपदेशः कर्तव्यः, तथा नृपैरपि तद्वक्तव्यं श्रोतव्यम्। एवमेव देशस्य सम्पद् स्थिरतां प्राप्नोति। तथा चोक्तम्—
अमात्यानां नरेन्द्राणामन्योन्यहृदये स मे।
आयाताः सम्पदः सर्वाः वैपरीत्ये पराङ्मुखाः।।
वनेचरः युधिष्ठिरस्य हिताकाङ्क्षी। तेन यथा अनृतभाषणं न कर्तव्यम्, तथा युधिष्ठिरेणापि तस्य वाक्ये अनादरः न कर्तव्यः, परन्तु समादरेण तद्वक्तव्यं श्रोतव्यम् इति वनेचरस्य आशयः।
अत्र अर्थान्तरन्यासः अलङ्कारः। वंशस्थविलं वृत्तम्। तस्य लक्षणम्—वदन्ति वंशस्थविलं जतौ जरौ।
------


२. कृतारिषड्वर्गजयेन मानवी-
मगम्यरूपां पदवीं प्रपित्सुना।
विभज्य नक्तन्दिवमस्ततन्द्रिणा
वितन्यते तेन नयान पौरुषम्।। (श्लोक—९)

उत्सः-- श्लोकोऽयं महाकवि-भारवि-विरचितस्य किरातार्जुनीयम् इति महाकाव्यस्य प्रथमसर्गात् उद्धृतः।

प्रसङ्गः—कपटद्यूतक्रीडायां हृतसर्वस्वः युधिष्ठिरः दुर्योधनस्य राज्यशासनवृत्तान्तं विज्ञातुम् एकं वनेचरं चररूपेण नियुक्तवान्। स वनेचरः कुरुराज्यं प्रविश्य सर्वं विज्ञाय द्वैतवने युधिष्ठिराय निवेदयामास। दुर्योधनः अधुना सुशासकरूपेण आत्मानं प्रतिष्ठापयितुं कथं चेष्टते तेन प्रसङ्गेन उक्तोऽयं श्लोकः—कृता इति।

अन्वयः कृतारिषड्वर्गजयेन अमगम्यरूपां मानवीं पदवीं प्रपित्सुना, अस्ततन्द्रिणा तेन पौरुषं नक्तन्दिवं विभज्य नयेन वितन्यते।

व्याख्या—कामः, क्रोधः, लोभः, मोहः, मदः, मात्सर्यं चेति मनुष्याणाम् अम्तःशत्रवः। ते सम्मिलितभावेन जनान् न्याय्यात् पथः भ्रष्टान् कुर्वन्ति। परन्तु राज्ञा विद्याविनयशिक्षार्थं सर्वथा जितेन्द्रेण भवितव्यम्। एषाम् अन्तःशत्रूणां विनाशादेव तत् सम्भाव्यते। उक्तं च कौटिल्येन—
विद्याविनयहेतुरिन्द्रियजयः, काम-क्रोध-लोभ-मान-मद-हर्षत्यागात् कार्यः।
तथा च कामन्दकीय-नीतिसारे—
कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा।
षड्वर्गमुत्सृजेदेनं तस्मिंत्यक्ते सुखी जनः।।
दुर्योधनः स्वभावतः कपटोऽपि अरिषड्वर्गं वशे कृत्वा अगम्यरूपां पुरुषमात्रेण दुष्प्राप्यां न सहजसाध्याम् इत्यर्थः, मानवीम् मनुप्रवर्तितां पदवीम् प्रजापालनपद्धतिं प्रपित्सुना प्राप्तुमिच्छुना तेन, पुरुषस्य कर्म पौरुषम्, उद्योगम् इत्यर्थः। नक्तन्दिवम् नक्तं च दिवा च विभज्य अस्यों वेलायाम् इदं कर्म इति विभागं कृत्वा, नयेन नीतिप्रयोगेन, वितन्यते विस्तार्यते। दुर्योधनः सुशासकः भवितुम् इच्छन् प्रजाजालनविषये मनूपदिष्टं मार्गम् अनुसरति। केवलं नीतिप्रयोगेन तत् न सम्भाव्यते, अतः स नीत्या पौरुषं विस्तारयति इति।
अत्र अर्थान्तरन्यासः अलङ्कारः। वंशस्थविलं वृत्तम्। तस्य लक्षणम्—वदन्ति वंशस्थविलं जतौ जरौ।

------


३. अबन्ध्यकोपस्य विहन्तुरापदां
भवन्ति वश्याः स्वयमेव देहिनः।
अमर्षशून्येन जनस्य जन्तुना
न जातहार्देन न विद्विषादरः।। (श्लोक—३३)

उत्सः-- श्लोकोऽयं महाकवि-भारवि-विरचितस्य किरातार्जुनीयम् इति महाकाव्यस्य प्रथमसर्गात् उद्धृतः।

प्रसङ्गः— द्वैतवने वासकाले युधिष्ठिरस्य मुखात् वनेचरोक्तं दुर्योधनस्य राज्यशासनवृत्तान्तं श्रुत्वा द्रौपदी आत्मनः मनःकष्टं नियन्तुमसमर्था जाता। ततः युधिष्ठिरस्य क्रोधोद्दीपनार्थं द्रौपद्या यद् वाक्यजातम् उक्तं तदन्तर्गतोऽयं श्लोकः।
अन्वयः—देहिनः स्वयमेव अबन्ध्यकोपस्य आपदां विहन्तुः वश्याः भवन्ति। अमर्षशून्येन जन्तुना जातहार्देन (सता) 
आदरः न।

व्याख्या—ननु अन्तःशत्रुत्वात् क्रोधः वर्जनीय इत्याशङ्क्य आह—अबन्ध्यकोपस्य इति। अबन्ध्यः कोपः यस्य सः अब्न्ध्यकोपः, तस्य अबन्ध्यकोपस्य। यस्य क्रोधः निष्फलः न भवति तस्य इत्यर्थः इत्यर्थः। आपदां विहन्तुः आपद्भ्यः त्रातुं समर्थः यःजनः तस्य जनस्य, देहिनः प्राणिनः स्वयमेव  वश्याः वशीभूताः भवन्ति। अतः क्रोधः न दोषावहः। अथ क्रोधशून्यश्चेत् ततः किं भवेत्? अत्रोच्यते—अमर्षशून्येन इति। अमर्षशून्येन जन्तुना क्रोधहीनेन प्राणिना जातहार्देन जातहार्देन जातस्नेहेन सता जनस्य आदरः न। विद्विषा द्विषता च सता आदरः न। अर्थात् क्रोधशून्यः जनः अन्यान् प्रति स्नेहपरायणः अपि तं न कोऽपि आदरं करोति, शत्रुरपि तस्मात् न बिभेति। तस्य रागः द्वेषश्च न कस्यापि उपकारजनकः, नापि अपकारजनकः। अतः अकिञ्चित्करत्वात् तौ न गण्यौ। अतः क्षत्रियेण अवश्यमेव क्रोधिना भवितव्यम् इति।

दुर्योधनेन हृतसर्वस्वोऽपि युधिष्ठिरः निःस्पृहभावेन कालं यापयति। तस्य शान्तिपूर्णसहावस्थानं न कस्यापि उपकारं साधयति, न वा कस्यचित् भीतिमुत्पादयति। क्षत्रियपक्षे एतत् न अभिनन्दनीयम्। अतः शमभावं परित्यज्य क्षात्रतेजसा उद्दीप्तः सन् युधिष्ठिरः कुरुराज्य-पुनरुद्धारे प्रदर्त्त्यताम् इति द्रौपद्याः अभिप्रायः।
अत्र अर्थान्तरन्यासः अलङ्कारः। वंशस्थविलं वृत्तम्। तस्य लक्षणम्—वदन्ति वंशस्थविलं जतौ जरौ।
-------

४. निरत्ययं साम न दानवर्जितं
न भूरिदानं विरहय्य सत्क्रियाम्।
प्रवर्त्तते तस्य विशेषशालिनी
गुणानुरोधेन विना न यत्क्रिया।। (श्लोक-१२)

उत्सः-- श्लोकोऽयं महाकवि-भारवि-विरचितस्य किरातार्जुनीयम् इति महाकाव्यस्य प्रथमसर्गात् उद्धृतः।
प्रसङ्गः—युधिष्ठिर-सपीपं दुर्योधनस्य राज्यशासनवृत्तान्त-निवेदनावसरे वनेचरः तस्य (दुर्योधनस्य) सामदानयोः प्रयोगं दर्शयति—नित्ययम् इति।

अन्वयःतस्य निरत्यं साम दानवर्जितं न (प्रवर्तते), भूरिदानं सत्क्रियां विरहय्य न (प्रवर्तते), विशेषशालिनी सत्क्रिया गुणानुरोधेन विना न प्रवर्तते।

व्याख्या—तस्य दुर्योधनस्य निरत्ययं निर्बाधम् अमायिकं छलनारहितम् इत्यर्थः, साम सामनीतिः, न दानवर्जितं दानरहितम् इत्यर्थः। केवलं शुष्केन प्रियवाक्येन जनाः न वशीभूताः भवन्ति, अतः दुर्योधनः दानैः सह सामप्रयोगं करोति। तेम लुब्धवर्गा अपि तस्य वशीभूताः जाताः। भूरिदानं प्रभूतं दानं सत्क्रियां विरहय्य समादरं वर्जयित्वा न प्रवर्तते। श्रद्धया देयम् अश्रद्धया अदेयम् इति शास्त्रवाक्यम् अनुसृत्य दुर्योधनः प्रभूतेन सत्कारेण सह दानं करोति। अथ दानातिशय्ये कोषहानिः स्यात् इत्याशङ्क्य आह—प्रवर्तते इति। विशेषशालिनी अतिशययोगिनी सत्क्रिया आदरक्रिया गुणानुरोधेन विना न प्रवर्तते। दुर्योधनः गुणवति पात्रे एव दानं करोति, न निर्गुणे। एवं दुर्योधनः पात्रानुसारं सामदानयोः प्रयोगं कृत्वा सर्वान् वश्यान् करोति। उक्तं च चाणक्यनीत्याम्—
लुब्धमर्थेन गृह्णीयात् साधुमञ्जलिकर्मणा।
मूर्खं छन्दानुरोधेन तत्त्वार्थेन च पण्डितम्।।
अतः दुर्योधनः न साधारणः शत्रुः। तस्य विनाशाय प्रभूतेन यत्नेन तथा बलसमुदायेन  प्रयोजनम्। युधिष्ठिरः तत्साधने प्रयत्नं कुर्यात् इति वनेचरस्य आशयः।
अत्र एकावली इति अलङ्कारः। वंशस्थविलं वृत्तम्। तस्य लक्षणम्—वदन्ति वंशस्थविलं जतौ जरौ।
------

५. कथाप्रसङ्गेन जनैरुदाहृता-
दनुस्मृताखण्डलसूनुविक्रमः।
तवाभिधानाद् व्यथते नताननः
सुदुःसहान्मन्त्रपदादिवोरगः।। (श्लोक—२४) 

उत्सः-- श्लोकोऽयं महाकवि-भारवि-विरचितस्य किरातार्जुनीयम् इति महाकाव्यस्य प्रथमे सर्गे समुपलभ्यते।

प्रसङ्गः— दुर्योधनः कपटद्यूतेन राज्यं जितवान्। तदधुना नयेन जेतुं चेष्टते। स इन्द्रियाणि संयम्य कामादिरिपून् जित्वा मनूपदिष्टेन मार्गेण प्रजाः पालयति। स आलस्यं परित्यज्य  नीत्या पौरुषं विस्तारयति। तस्य रक्षिपुरुषाः अपि विश्वस्ताः। सैनिकाः प्राणैरपि तस्य हितं साधयितुं तत्पराः। दुर्योधनः सर्वप्रकारेण सुरक्षितः अपि मानसिकभावेन न सुस्थिरः। तर्हि किं कारणं तस्य अस्वस्थस्य? अतएव आह वनेचरः—कथाप्रसङ्गेन इति।

अन्वयः—कथाप्रसङ्गेन जनैः उदाहृतात् तवाभिधानात् अनुस्मृताखण्डलसूनुविक्रमः नताननः सः मन्त्रपदात् उरगः इव व्यथते।

व्याख्या—कथाप्रसङ्गेन गोष्ठीवचनेन आलोचनाप्रसङ्गेन इत्यर्थः, जनैः तत्रत्यैः नरैः, अथवा कथाप्रसङ्गेन  विषवैद्येन। उफदाहृतात् तव अभिधानात् नामधेयात् नामधेयस्मरणात् हेतोः। अन्यत्र तवाभिधानात् नामैकग्रहणे नाममात्रग्रहणम् इति न्यायात्। तश्च वश्च तवौ तार्क्ष्यवासुकी, तयोः अभिधानं यस्मिन् पदे तस्मात्। अनुस्मृताखण्डलसूनुविक्रमः—स्मृतार्जुन-पराक्रमः सन् सुदुःसहात् अतिदुःसहात् मन्त्रपदात् मन्त्रश्रवणात् स्मारकात् हेतोः। आखण्डलसूनुः विष्णुरिति यावत्। तस्य विः पक्षी, गरुड इत्यर्थः। तस्य क्रमः पादविक्षेपः, सः अनुस्मृतः येन सः तथोक्तः स्मृतगरुडमहिमा। उरग इव नताननः सन् व्यथते दुःखायते। सर्पः यथा गरुड-वासुकि-नामयुक्त-मन्त्रश्रवणात् गरुडस्य पादविक्षेपम् अनुस्मृत्य दुःसहव्यथया नतमस्तकः जायते, तद्रूपम् युधिष्ठिरस्य नामश्रवणात् दुर्योधनः अपि पराक्रमः स्मृत्वा नताननः सन् अन्तःपीडाम् अनुभवति। 
अयमेव समयः दुर्योधनम् उत्खातयितुम्। अतः बलसंग्रहं कृत्वा अविलम्बितमेव युधिष्ठिरेण युद्य़ोद्योगः कर्तव्यः इति वनेचरस्य अभिप्रायः। अत्र श्लिष्टोपमा नाम अलङ्कारः। वंशस्थविलं वृत्तम्। तस्य लक्षणम्—वदन्ति वंशस्थविलं जतौ जरौ।
-------

६. तथापि जिह्मः भवज्जिगीषया
तनोति शुभ्रं गुणसम्पदा यशः।
समुन्नयन् भूतिमनार्यसङ्गमाद्
वरं विरोधोऽपि समं महात्मभिः।। (श्लोक-८)

उत्सः-- श्लोकोऽयं महाकवि-भारवि-विरचितस्य किरातार्जुनीयम् इति महाकाव्यस्य प्रथमे सर्गे समुपलभ्यते।

प्रसङ्गः—कपटद्यूतक्रीडायां हृतसर्वस्वः युधिष्ठिरः दुर्योधनस्य राज्यशासनवृत्तान्तं विज्ञातुम् एकं वनेचरं चररूपेण नियुक्तवान्। स वनेचरः कुरुराज्यं प्रविश्य सर्वं विज्ञाय द्वैतवने युधिष्ठिराय निवेदयामास। दुर्योधनः अधुना आत्मगुणसम्पदा कथं यशः विस्तारयति तेन प्रसङ्गेन उक्तोऽयं श्लोकः—तथापि इति।

अन्वयः— तथापि जिह्मः सः भवज्जिगीषया गुणसम्पदा शुभ्रं यशः तनोति। भूतिं समुन्नयन् महात्मभिः सह विरोधः अपि अनार्यसङ्गमात् वरम्।

व्याख्या—जिह्मः वक्रः, वञ्चकः इति यावत्। स दुर्योधनः भवज्जिगीषया गुणैः भवन्तम् आक्रमितुम् इच्छया इत्यर्थः। गुणसम्पदा दानदाक्षिण्यादि-गुणगरिम्ना करणेन। शुभ्रं यशः तनोति। स प्रवञ्चकः दुर्योधनः गुणलोभनीयां तव सम्पदम् आत्मसात्कर्तुं त्वत्तोऽपि गुणवत्ताम् आत्मनः प्रकटयति इत्यर्थः। ननु एवं गुणिनः सतः अपि सज्जनविरोधः महान् दोषः इत्याशङ्क्य आह—समुन्नयन् इति। तथाहि भूतिं समुन्नयन् उत्कर्षम् आपादयन्, महात्मभिः समम् सह इत्यर्थः, विरोधोऽपि वरम् मनाक् प्रियः।
अस्मिन् श्लोके वनेचरस्य विचक्षणता दूतकर्मणि च निपुणता सुपरिस्फुटा। अत्र वरं विरोधोऽपि— इत्यादिवाक्ये  भारवेरर्थगौरवमपि उपलभ्यते। अत्र अर्थान्तरन्यासः अलङ्कारः। वंशस्थविलं वृत्तम्। तस्य लक्षणम्—वदन्ति वंशस्थविलं जतौ जरौ।
--------

७. भवन्तमेतर्हि मनस्विगर्हिते
विवर्तनामं नरदेव वर्त्मनि।
कथं न मन्युर्ज्वलत्युदीरितः
शमीतरुं शुष्कमिवाग्निरुच्छिखः।। (श्लोक—३२)

उत्सः-- श्लोकोऽयं महाकवि-भारवि-विरचितस्य किरातार्जुनीयम् इति महाकाव्यस्य प्रथमे सर्गे समुपलभ्यते।
प्रसङ्गः— द्वैतवने वासकाले युधिष्ठिरस्य मुखात् वनेचरोक्तं दुर्योधनस्य राज्यशासनवृत्तान्तं श्रुत्वा द्रौपदी आत्मनः मनःकष्टं नियन्तुमसमर्था जाता। ततः युधिष्ठिरस्य क्रोधोद्दीपनार्थं द्रौपद्या यद् वाक्यजातम् उक्तं तदन्तर्गतोऽयं श्लोकः।

अन्वयः— (हे) नरदेव! नरेन्द्र! एतर्हि मनस्विगर्हिते वर्त्मनि वर्तमानं भवन्तम् उदीरितः मन्युः शुष्कं शमीतरुम् उच्छिखः अग्निः इव कथं न ज्वलयति।

व्याख्या—हे नरदेव! नरेन्द्र! एतर्हि इदानीम् अस्मिन् आपत्काले अपि इत्यर्थः। आपदमेवमाहमनस्विगर्हिते साधुजननिन्दिते वर्त्मनि मार्गे विवर्तमानं शत्रुकृतां दुर्दशाम् अनुभवन्तम् इत्यर्थः। भवन्तम् ताम् उदीरितः उद्दीपितः मन्युः क्रोधः शुष्कं नीरसम्। शमी चासौ तरुश्च इति शमीतरुः, तम्। शीघ्रज्नलनस्वभावात् शमीग्रहणं कृतम्। उच्छिखः उद्गतज्वालः। अग्निः इव वह्निः इव कथं न ज्वलयति? ज्वलयितुम् उचितम् इत्यर्थः।
अतः शमभावं परित्यज्य क्षात्रतेजसा उद्दीप्तः सन् युधिष्ठिरः कुरुराज्यं प्रविश्य कुरुराज्य-पुनरुद्धारे प्रवर्त्त्यताम् इति द्रौपद्याः अभिप्रायः।
अत्र उपमा इति अलङ्कारः। वंशस्थविलं वृत्तम्। तस्य लक्षणम्—वदन्ति वंशस्थविलं जतौ जरौ।
--------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1