ads

ad

अर्थशास्त्रम् प्रथमाधिकरणम् (4th Semester, C-9, Unit-I, CBPBU)


अर्थशास्त्रम् प्रथमाधिकरणम् (4th Semester, C-9, Unit-I, CBPBU)

१. विद्या
( का नाम विद्या? सा कतिविधा? तासां स्वरूपम् उपयोगिता च सविशदमालोच्यताम्।)

उत्तरम्-- ʻविद्याʼ शब्दस्य साधारणः अर्थः ʻज्ञानम्ʼ इति। प्राचीनभारतीय-राजतान्त्रिक-शासनव्यवस्थायां सर्वमयः कर्ता आसीत् राजा। स्मृतिशास्त्रेषु राज्ञः शिक्षणीय-विषये सविशदमालोचितम्। मनुसंहिता-याज्ञवल्क्यसंहिता-महाभारतादि-ग्रन्थेषु विद्याः चतस्र इत्युक्तम्। यथा— आन्वीक्षिकी, त्रयी, वार्ता, दण्डनीतिश्चेति। कौटिल्यः तस्य अर्थशास्त्रस्य ʻविनयाधिकारिकम्ʼ इति अधिकरणस्य विद्यासमुद्देशाध्याये आह—
ʻआन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चेति विद्याः।ʼ

कौटिल्य-पूर्ववर्तिनाम् आचार्याणां मतम्—
मानवसम्प्रदायस्य मतानुसारेण तिस्र एव विद्याः—त्रयी, वार्ता, दण्डनीतिश्चेति। आन्वीक्षिकी त्रयीविशेषा इति।
वार्हस्पत्यानां मतानुसारेण द्वे विद्ये—वार्ता दण्डनीतिश्चेति।
ʻदण्डनीतिरेका विद्याʼ इति औशनसाः। यतः तस्यां सर्वासां विद्यानां प्रतिष्ठा निहिता।
कौटिल्य आह-- ʻचतस्र एव विद्याः।ʼ ताभिः धर्मार्थौ यद् विद्यात् तद् विद्यानां विद्यात्वम्।ʼ

चतसृणां विद्यानां स्वरूपम् उपयोगिता च—
आन्विक्षिकी-विद्यायाः स्वरूपम्—कौटिल्येन उक्तम्-- ʻसांख्यं योगो लोकायतं चेत्यान्वीक्षिकी।ʼ
अर्थात् सांख्यशास्त्रम्, योगशास्त्रम्, लोकायतं च एतत्त्रयम् आन्वीक्षिकी इत्युच्यते। प्रत्यक्षेण अनुमानेन वा ज्ञातपदार्थस्य पुनः अन्वीक्षा विचारपूर्वकं दर्शनमेव आन्वीक्षिकी। अस्मिन् अर्थे युक्तिविद्या तर्कशास्त्रम् वा आन्वीक्षिकी इत्युच्यते।

आन्विक्षिकी-विद्यायाः उपयोगिता--  कौटिल्येन उक्तम्-- ʻबलाबले चैतासां हेतुभिरन्वीक्षमाणा लोकस्योपकरोति, व्यसनेऽभ्युदये च बुद्धिमवस्थापयति, प्रज्ञा-वाक्य-क्रियावैशारद्यं च करोति।ʼ
अर्थात् आन्वीक्षिकी विद्या युक्तिद्वारा विचार्य अन्यासां तिसृणां विद्यानां प्राधान्यम् अप्राधान्यं च निर्धारयति, विपदि अभ्युदये च बुद्धिं स्थिरं रक्षति, मनुष्यान् प्रज्ञावन्तः, वाक्यप्रयोगे कर्मणि च दक्षतां प्रददाति। अत उच्यते-- ʻप्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्।
आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता।।ʼ

त्रयीविद्यायाः स्वरूपम्कौटिल्य आह-- ʻसामर्ग्यजुर्वेदास्त्रयस्त्रयी।ʼ ऋक्, साम, यजुश्चेति त्रयः वेदाः त्रयी इत्युच्यते। अथर्ववेदः, महाभारतम्, पुराणादिशास्त्रमपि वेदान्तर्गतम्। एतद्व्यतिरिक्तं शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दः ज्योतिषं चेति षट् वेदाङ्गानि अपि वेदान्तर्गतानि।

त्रयीविद्यायाः उफयोगिता— कौटिल्य आह-- ʻएष त्रयीधर्मश्चतुर्णां वर्णानामाश्रमाणां च स्वधर्मस्थापनादौपकारिकः।ʼ
अर्थात् त्रयीविद्या ब्राह्मणादिवर्णानां, तथा ब्रह्मचर्यादीनाम् आश्रमाणां कर्तव्यकर्म-विधानात् समाजस्य उपकारसाधनं करोति। अतः उक्तम्—
ʻव्यवस्थितार्यमर्यादः कृतवर्णाश्रमस्थितिः।
त्रय्या हि रक्षितो लोकः प्रसीदति न सीदति।।ʼ
वार्ता-विद्यायाः स्वरूपम्--  कौटिल्य आह-- ʻकृषिपाशुपाल्ये वणिज्या च वार्ता।ʼ
कृषिकर्म, पशुपालनं वाणिज्यं च वार्ता इत्युच्यते। मनुष्याणां जीवनधारणोपयोगि अर्थनैतिकं कर्मजातमेव वार्ता।
वार्ताया उपयोगिता--  कौटिल्येन उक्तम्-- ʻधान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रदानादौपकारिकी। तया स्वपक्षं परपक्षं च वशीकरोति कोशदण्डाभ्याम्।ʼ
वार्ताविद्या धान्यं, पशुं, सुवर्णं, ताम्रादि-पदार्थं, काष्ठवंशादि-वनजद्रव्यं, कर्मकुशल-श्रमिकादि प्रदाय समाजस्य उपकारं साधयति। अनया विद्यया राजा कोशदण्डाभ्यां स्वपक्षीय-जनान्, परपक्षीयान् च वशीकरोति।

दण्डनीतेः स्वरूपम्— कौटिल्येन उक्तम्-- ʻआन्विक्षिकी-त्रयी-वार्तानां योगक्षेमसाधनो दण्डः। तस्य नीतिर्दण्डनीतिः।ʼ
आन्वीक्षिकी-त्रयी-वार्तानां योगक्षेमं साधयति दण्डः, तस्य दण्डप्रयोगस्य नीतिरेव दण्डनीतिः इति।
दण्डनीतेः उपयोगिता--  कौटिल्येन उक्तम्-- ʻअलब्धलाभार्था, लब्धपरिरक्षणी, रक्षितविवर्धनी, वृद्धस्य तीर्थेषु प्रतिपादनी च। तस्यामायत्ता लोकयात्रा।ʼ
दण्डनीत्या अप्राप्तवस्तुनः प्राप्तिः, प्राप्तवस्तुनः रक्षणम्, रक्षितवस्तुनः वर्धनं, वर्धितवस्तुनः कार्ये प्रतिपादनम् च भवति। अस्यं दण्डनीत्यामेव लोकसमाजे प्रचलितानां नियमानां कार्यकारित्वं निर्भरशीलम् इति।
दण्डप्रयोग-विषये कौटिल्यस्य मतम्—कौटिल्य आह-- ʻतीक्ष्णदण्डो हि भूतानामुद्वेजनीयः, मृदुदण्डः परिभूयते। यथार्हदण्डः पूज्यः।ʼ

उपसंहारः— आदर्श-राष्ट्र-प्रतिष्ठार्थम् आदर्शेन शासकेनापि प्रयोजनम्। सामाजिक-मनुष्यस्य नैतिकः मूल्यबोधः, समाजचेतना, धर्मीयं कार्यकलापम्, अर्थनीतिः, आभ्यन्तर-राजनीतिः, परराष्ट्रस्य शासकानां चरित्रं सुष्ठु ज्ञात्वा एव यथायथभावेन शासनकार्य-परिचालनं सम्भाव्यते। राज्ञः अध्येतव्य-विद्याविषये कौटिल्येन यदुक्तं तत् अद्यापि प्रासङ्गिकमिति शम्।
Read More

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1