ads

ad

अर्थशास्त्रम् (इन्द्रियजयः, अमात्योत्पत्तिः)


अर्थशास्त्रम् (इन्द्रियजयः, अमात्योत्पत्तिः)

३. इन्द्रियजयः
(कस्तावद् इन्द्रियजयः? कौटिल्यमनुसृत्य इन्द्रियजय-विषये सविशदमालोच्यताम्।)

उत्तरम्—कौटिल्यस्य मतानुसारेण इन्द्रियाणि पञ्च—कर्णः, त्वक्, अक्षि, जिह्वा, घ्राणेन्द्रियम् चेति। विद्याविनय-शिक्षार्थम् इन्द्रियजयेन प्रयोजनम्-- ʻविद्याविनयहेतुर्न्द्रियजयः।ʼकामः, क्रोधः, लोभः, मानः, मदः, हर्षः चेति षण्णाम् अन्तःशत्रूणां त्यागेन एव इन्द्रियजयः कर्तव्यः--ʻकाम-क्रोध-लोभ-मान-मद-हर्षत्यागात् कार्यः।ʼ
इन्द्रियजयस्य स्वरूपविषये कौटिल्येन उक्तम्-- ʻकर्ण-त्वगक्षि-घ्राणेन्द्रियाणां शब्द-स्पर्श-रूप-रस-गन्धेषु अविप्रतिपत्तिः इन्द्रियजयः।ʼ
कर्णः, त्वक्, अक्षि, जिह्वा, नासिका चेति इन्द्रियाणाम् आसक्तेः विषयास्तु शब्दः, स्पर्शः, रूपम्, रसः गन्धश्चेति। एषाम् इन्द्रियाणां स्व-स्व-विषयं प्रति अत्यधिकायाः आसक्तिप्रवणतायाः संयमनमेव इन्द्रियजयः। अयं तु निवृत्तिमार्गः। केवलं शुष्कनिवृत्तिमार्गे अवलम्बिते सति आकाङ्क्षा न निवर्तते, परन्तु विपत्तिः भूयः बर्धते। तस्मात् शास्त्रनिर्देशितेन मार्गेण इन्द्रियजयः कर्तव्यः इति कौटिल्यस्य मतम्।
मनुना अपि इन्द्रियजय-विषये विस्तारितम् आलोचितम्। एकादशसु इन्द्रियेषु मनः प्रधानम् इति तेन उक्तम्। इन्द्रियनिग्रहापेक्षया प्रतिनियतं ज्ञानचर्चामाध्यमेन इन्द्रियजयः कर्तव्यः इति तस्य मतम्—
ʻन तथैतानि शक्यन्ते संनियन्तुमसेवा।
विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः।।ʼ
षण्णाम् रिपूणां विवरणम्—
कामः—पार्थिव-भोग्यवस्तु-भोगस्य लालसा, विशेषतः परस्त्रीविषये आसक्तिः।
क्रोधः—चित्तविकारविशेषः यः ज्ञानिनमपि अन्धीकरोति, तथा मनसि विद्वेषभावं जनयति।
लोभः—परद्रव्यलाभाय प्रबला इच्छा।
मानः—स्वयं महान् इति आत्मविषये श्लाघा।
मदः—धनबल-जनबल-विद्यादिभ्यः जातः गर्वः अहङ्कारः वा।
हर्षः—अभीष्टवस्तुभोगात् जातः सुखानुभवः आनन्दं वा।

कामक्रोधादिभिः विनष्टानाम् राज्ञां दृष्टान्तः—
कामवशात् भोजवंशीयः दाण्डक्य इति राजा ब्राह्मणकन्यां प्राप्तुकामः तस्याः पितुः तथा स्वामिनः अभिशापेन सबन्धुराष्ट्रः विनाशं प्राप्तः। एवं विदेहराजः करालः अपि समदशां प्राप्तः।
क्रोधवशात् राजा जनमेजयः यज्ञस्थले ब्राह्मणेषु क्रोधप्रकाशात् विनष्टः जातः। एवम्  राजा तालजङ्घः भृगुवंशीयान् ब्राह्मणान् प्रति कोपप्रदर्शनात् तेषां शापेन विनष्टः जातः।
लोभवशात् इलानन्दनः पुरूरवाः तथा सौवीरराजः अजविन्दुः मात्रातिरिक्त-धनाहरणेन ब्राह्मणादिवर्णान् उत्पीडयित्वा तेषां शापेन विनाशं प्राप्तौ।
अतिमानाद् रावणः रामपत्नीं सीतां स्वामिने अप्रत्यर्पणात् तथा दुर्योधनः पाण्डवेभ्यः प्राप्यम् राज्यांशम् अप्रयच्छन् सवंशं विनष्टौ।
मदोन्मत्तः राजा डम्भोद्भवः प्रजावमानहेतोः नरनारायणेन हतः, तथा हैहयराजः कार्तवीर्यार्जुनः परशुरामेण हतः।
हर्षवशात् वातापि-नामकः असुरः ऋषिम् अगस्त्यम् उत्पीडयन्, तथा वृष्णिसङ्घः द्वैपायनं वेदव्यासम् उत्पीडयन् विनष्टौ। 
एवम् अन्ये बहवः राजानः कामक्रोदादेः वशवर्तिनः भूत्वा समूलं विनष्टाः।
पुनस्तु अरिषड्वर्गं वर्जयित्वा एव जामदग्न्यः परशुरामः , राजा अम्बरीशः, राजा नाभागः सुदीर्घकालं पृथिवीं पालयन्ति स्म।
मनुना अपि केचित् राजानः उल्लिखिताः ये खलु विनयधर्मप्रभावेन राज्यं लब्धवन्तः। तेषु विश्वामित्रः जात्या क्षत्रियोऽपि ब्राह्मणत्वं प्राप्तः।

उपसंहारः—अतः राजा कामक्रोधादीन् रिपून् जित्वा इन्द्रियसंयमः कुर्यात्। तस्मादेव राज्यस्य समृद्धिः सम्भवेत्। मनुः अपि एवमाह—केवलं जितेन्द्रियः राजा एव प्रजाः स्ववशे रक्षितुं समर्थः। अस्यार्थं स दिवानिशम् इन्द्रियजये प्रयत्नं कुर्यात्—
ʻइन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम्।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः।।ʼ

----

४. अमात्योत्तपत्तिः
(अमात्यनियोगविषये कौटिल्यस्य तथा तस्य पूर्ववर्तिनाम् आचार्याणां मतं सविशदमालोच्यताम्।)

उत्तरम्—
भूमिका-- ʻसहायसाध्यं राजत्वं चक्रमेकं न वर्तते।ʼएकेन चक्रेण यथा यानं न चलति, तथा शासनकार्यं राजकार्यं वा एकाकिना राज्ञा न सम्भवेत। तस्माद् हेतोः राज्ञः सहायरूपेण अमात्यनियोगः कर्तव्यः इति आह कौटिल्यः। तेन प्रथमं पूर्ववर्तिनाम् आचार्याणां मतम् उल्लिख्य ततः आत्मनः मतम् उपस्थापितम्।
कौटिल्यपूर्ववर्तिनाम् आचार्याणां मतम्—
आचार्यस्य भरद्वाजस्य मतम्—आचार्येण भरद्वाजेन उक्तम्-- ʻसहाद्यायिनोऽमात्यान् कुर्वीत दृष्टशौचसामर्थ्यात्, ते हि अस्य विश्वास्या भवन्ति।ʼ
सहाध्यायिनां मध्यात् राजा अमात्यं नियोजयेत्। यतः राजा तेषां शुचिताविषये तथा तेषां कर्मक्षमताविषये जानाति। ते च राज्ञः विश्वासभाजनानि अपि भवन्ति।
आचार्यस्य विशालाक्षस्य मतम्—आचार्यः विशालाक्षः भरद्वाजस्य मतं निराकृत्य आह-- ʻसहक्रीडित्वात् परिभवन्ति एनम्।ʼसहाध्यायिनः राजानम् अवज्ञास्यन्ति। अतः तेन उक्तम्-- ʻये हि अस्य गुह्यसधर्माणः तान् अमात्यान् कुर्वीत, समानशीलव्यसनत्वात्, ते हि अस्य मर्मज्ञभयात् नापराध्यन्ति इति।ʼ
ये खलु जनाः राज्ञः गुह्यसधर्माणः तान् अमात्यान् नियोजयेत्। यतः ते चरित्रगत-दोषगुणविषये राज्ञा समानः, अतः गुह्य-व्यापार-प्रकाशभयात् ते न अपराध्यन्ति।
आचार्यस्य पराशरस्य मतम्—आचार्यः पराशरः विशालाक्षस्य मतं निराकृत्य आह-- ʻसाधारणदोष एष।ʼअत्र राजामात्ययोः उभयोरेव दोषः समानः। तस्मात् राजापि स्वकीय-दोषप्रकाशभयात् अमात्यानाम्अनुष्ठितानि अननुष्ठितानि च सर्वाण्येव अनुवर्तेत। राजा यावद्भ्यः जनेभ्यः चरित्रभ्रंशादि-गुह्यविषयं प्रकाशयेत् तेन स्वकृत-कर्मणा तेषां सर्वेषां वशीभूतः भवेत्। अतः तेन उक्तम्-- ʻय एनम् आपत्सु प्राणाबाधयुक्तासु अनुगृह्णीयुः तान् अमात्यान् कुर्वीत, दृष्टगुणत्वात्ʼ इति।
आचार्यस्य पिशुनस्य (नारदस्य) मतम्—आचार्यः पिशुनः पराशरस्य मतं निराकृत्य आह--ʻभक्तिरेषा बुद्धिगुणः।ʼतस्य मतम्-- ʻसंख्यातार्थेषु कर्मसु नियुक्ता ये यथादिष्टमर्थं सविशेषं वा कुर्युः तान् अमात्यान् कुर्वीत, दृष्टगुणत्वाद् इति।ʼ
अर्थात् येषु कर्मसु सुनिर्दिष्टः अर्थागमः भवति तेषु कर्मणि (राजस्वादानव्यापारे) नियुक्ताः यथानिर्दिष्टम् अर्थं तस्मादपि अधिकम् वा अर्थम् उत्पादयितुं समर्थाः तान् अमात्यान् नियुञ्जीत। यतः तेषां गुणवत्त्वं परीक्षितम्।
आचार्यस्य कौणपदन्तस्य (भीष्मस्य) मतम्—आचार्यस्य पिशुनस्य मतं निराकृत्य आचार्यः कौणपदन्त आह-- 
ʻअमात्यगुणैः वियुक्ता हि एते।ʼतेन उक्तम्-- ʻपितृपैतामहान् अमात्यान् कुर्वीत, दृष्टापदानत्वात्।ʼतेन युक्तिः प्रदर्शिता-- ʻते हि एनम् अपचरन्तमपि न त्यजन्ति, सगन्धत्वात्।ʼयतः ते राज्ञा सह वंशपरम्परया सम्बद्धाः अतः ते अपचरन्तमपि राजानं न परित्यजन्ति।
आचार्यस्य वातव्याधेः (उद्धवस्य) मतम्—आचार्यः वातव्याधिः कौणपदन्तस्य मतस्य दोषं प्रदर्श्य आह-- ʻते सर्वमवगृह्य स्वामिवत् प्रचरन्ति इति।ʼअतः राजा नीतिशास्त्रविदः नवान् अमात्यान् नियुञ्जीत-- ʻतस्मात् नीतिविदः नवान् अमात्यान् कुर्वीत।ʼ नवाः अमात्याः दण्डविधानकारिणम् राजानम् यम इव उग्रदण्डः मत्वा न अपराध्यन्ति।
आचार्यः बाहुदन्तीपुत्रः (इन्द्रः) वातव्याधेः मतम् अस्वीकृत्य आह-- ʻशास्त्रविद् अदृष्टकर्मा कर्मसु विषादं गच्छेत्।ʼअतः राजा अभिजातवंशीयान्, बुद्धिमतः, शुद्धचित्तान्, शौर्यवतः, प्रभुभक्तान् च जनान् अमात्यान् नियुञ्जीत-- ʻअभिजन-प्रज्ञा-शौच-शौर्यानुरागान् अमात्यान् कुर्वीत, गुणप्राधान्याद् इति।ʼ
आचार्यस्य कौटिल्यस्य मतम्—आचार्यः कौटिल्यः पूर्ववर्तिनाम् आचार्याणां मतानां सारं स्वीकृत्य आह-- ʻसर्वमुपपन्नम् इति कौटिल्यः। कार्यसामर्थ्याद् हि पुरुषसामर्थ्यं कल्प्यते, सामर्थतश्च।ʼ
पुरुषाणां कार्यसम्पादन-सामर्थ्येन, शास्त्रज्ञानेन च तेषां विविधानाम् अधिकारस्थानानां योग्यता निर्धार्यते। अतः कौटिल्य आह—
ʻविभज्यामात्यविभवं देशकालौ च कर्म च।
अमात्याः सर्व एवैते कार्याः स्युर्न तु मन्त्रिणः।।ʼ
विश्वासत्वादीनाम् अमात्य-गुणसम्पदां यथायथं विवेचनेन तथा यथोपयुक्तं देशं कालं, कर्मणः स्वरूपं च विविच्य राजा सहाध्यायादीन् अमात्यरूपेण नियुञ्जीत, न तु मन्त्रिरूपेण।

उपसंहारः—राजमन्त्रिणोः मन्त्रणाकार्येण गृहीतस्य सिद्धान्तस्य रूपायणम् अमात्यैः कर्मसचिवैः वा सम्भाव्यते। स्मृतिशास्त्रेषु  नीतिशास्त्रेषु च उत्तराधिकारसूत्रेण लब्धायाः योग्यतायाः, तथा वंशगतायाः योग्यतायाः गुरुत्वम् स्वीकृतमपि मूर्खस्य निर्गुणस्य च पुत्रस्य योग्यता न स्वीकृता। अस्मिन् विषये कौटिल्यस्य मतम् अतीव सुचिन्तितम्, वास्तवसम्मतं च। कर्मतत्परता, उत्साहयुक्तता, लोभशून्यता  चेति अमात्यगुणाः। एवं गुणसम्पन्नैः अमात्यैरेव राष्ट्रगृहीतायाः नीतेः सुष्ठु रूपायणेन देशः समृद्धः भवेत् इति शम्।

------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1