ads

ad

History of Vedic Literature (in Sanskrit), C-8, Unit-I, 4th Sem, CBPBU (Q. 1 & 2)



History of Vedic Literature (in Sanskrit), C-8, Unit-I, 4th Sem, CBPBU (Q. 1 & 2)


१.  ऋग्वेदस्य संवादसूक्त-विषये नातिदीर्घः कशिचित् प्रबन्धः लिख्यताम्।
उत्तरम्—
उपक्रमः—ऋग्वेदे न्यूनाधिकं विंशतिः सूक्तानि सन्ति यानि  न देवतानां स्तुतिविषयकानि । एषाम् रचनाशैली अपि अन्येभ्यः सूक्तेभ्यः पृथक्। उक्ति-प्रत्युक्ति-माध्यमेन तानि सूक्तानि प्रकाशितानि। अत्र गद्यं पद्यं च द्वयमेव विद्यते। एषां सूक्तानामेव संवादसूक्तम् इत्यभिधानम् इति। आङ्गलभाषायां तानि सूक्तानि  Dialogue hymns  इत्यभिधीयन्ते। Oldenburg महोदयेन Narrative hymns इत्युक्तम्।
मुख्यानां संवादसूक्तानां विवरणम्—
अगस्त्य-लोपामुद्रासंवादः (१/१७९)—अस्मिन् सूक्ते लोपामुद्रायाः, अगस्त्यस्य, तथा तस्य शिष्यस्य मध्ये रतिविषयकं कथोपकथनं वर्णितम्। लोपामुद्रा अगस्त्यं वदति—
ʻपूर्वीरहं शरदः शश्रमाणा दोषावस्तोरूषसो जरयन्तीः।
मिनाति श्रियं ज्वरिमा तनूनामप्यू नु पत्नीर्वृषणो जगम्युः।।ʼ
--बहुवत्सरावधिः रात्रिन्दिवम् अगस्त्यं सेवमाना लोपामुद्रा अधुना श्रान्ता। जरसा तस्याः दैहिकं सौन्दर्यं  क्रमशः नाशं प्राप्नोति। तस्याः आवेदनम्—पतिः पत्नीम् उपगम्यताम्।
अगस्त्य आह-- ʻन मृषा श्रान्तं यदवन्ति देवा विश्वा इत्स्पृधो अभ्यश्नवाव।ʼ
--न वयं वृथा श्रान्ताः। वयं देवैः रक्षिताः इति।
यम-यमीसंवादः (१०/१०)—यमः यमी च विवस्वतः यमजं सन्तानद्वयम्। यमी तस्याः भ्रातरम् अवैध-मिलने प्ररोचयितुम् आह-- ʻजायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्राः।ʼ
--पत्नी यथा पतिसमीपं, तद्रूपम् अहम् त्वत्समीपम् आत्मानं समर्पयामि।ʼ
यमः अतीव संयमी आसीत्। स मधुरेण कोमलेन च वाक्येन सहोदरया सह सहोदरेण मिलनम् अवैधम् इति ज्ञापयित्वा आह—ʻन वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्यः स्वसारं नियच्छात्।ʼ
--यः भगिन्याम् उपगतः भवेत् स पापी इत्यभिधीयते। एवं यमेन यमी अवैधकर्मणः निवृत्ता।
मानविक-भावस्य सुपरिस्फुटनात् उपाख्यानमिदं मनोहरम्।  Winternitz महोदयेन उक्तम्-- ʻan old myth on the origin of the human beings from the first pair of twins forms the basis for this dialogue.'
पुरूरवा-उर्वशीसंवादः १०/९५)--  अस्मिन् सूक्ते अष्टादश मन्त्राः सन्ति। मर्त्यलोकस्य राजा पुरूरवाः  तथा स्वर्गलोकस्य अप्सराः उर्वशी घटनापरम्परया परस्परं प्रणयासक्तौ भवतः स्म। पुरूरवसः पत्नीरूपेण उर्वशी चत्वारि वर्षाणि मर्त्यलोके स्थिता। अस्मिन् समये एकदा सहसा सा अन्तःसत्त्वावस्थायाम् अन्तर्हिता। पुरूरवाः ताम्  विविधेषु स्थानेषु अन्विष्य अपि न प्राप्तः। अन्ते च स एकदा कश्मिंस्चिद् सरोवरे अन्याभिः अप्सरोभिः सह तां जलक्रीडीरताम् अपश्यत्। पुरुरवसा पुनः पुनः अनुरुद्धा अपि उर्वशी प्रत्यागन्तुं न सम्मता। ततः पुरूरवाः प्राणविसर्जने उद्यतः अभवत्। तदा उर्वशी अवदत्-- ʻन वै स्त्रैणानि सख्यानि सन्ति सालावृकानां हृदयान्येता।ʼ
सम्भोगशृङ्गारेण विप्रलम्भशृङ्गारेण च पूर्णमिदम् उपाख्यानम् करुणरससिक्तम्। अस्य आवेदनमपि शाश्वतम् इति। शतपथब्राह्मणे, हरिवंशे, विष्णुपुराणे, कथासरित्सागरे च इदम् उपाख्यानं विवृतमस्ति।
सरमा-पणि-संवादः (१०/१०८)—अस्मिन् सूक्ते एकादश ऋचः सन्ति। ʻपणिʼ इति नामभिः दस्युभिः इन्द्रस्य गोधनम् अपहृतम्। ते पर्वतवेष्टितस्थाने आत्मगोपनं कृत्वा स्थिताः। इन्द्रेण देवलोकस्य कुक्कुरी सरमा तासां गवाम् अन्वेषणे प्रेरिता। सरमा विपत्सङ्कुलेन मार्गेण रसा-नदीम् अतिक्रम्य पणिसमीपम् उपस्थिता। सा प्रथमं गोधन-प्रत्यर्पणाय  अनुरुद्धवती। ततः भीतिप्रदर्शनं कृत्वा  अवदत्—यदि ते गोधनं न प्रत्यर्पयेयुः, तर्हि इन्द्रः तान् हनिष्यति। पणिभिः प्रथमं सा उपहसिता, ततः सा भगिनी इति सम्बोधिता, तत्रैव स्थातुं च अनुरुद्धा। सूक्तान्ते सरमा अवदत्—
ʻनाहं वेद भ्रातृत्वं नो स्वसृत्वमिन्द्रो विदुरङ्गिरसश्च घोराः।
गोकामा मे अच्छदयन् यदाय-मपात इत पणवो वरीयः।।ʼ

वृषाकपिसूक्तम् (१०/८६)—अस्मिन् सूक्ते त्रयोविंशतिः ऋचः सन्ति। अत्र इन्द्र-इन्द्राणी-वृषाकपीनां मध्ये कथोपकथनम् दृश्यते। वृषाकपिः एकः पुरुषः वानरः। तस्मिन्  इन्द्रस्य स्नेहाधिक्यम्, इन्द्रभोग्ये हुतद्रव्ये वृषाकपेः अन्याय्याधिकारस्य विरुद्धम् इन्द्राण्याः प्रतिवादः अत्र वर्णितः। अत्र एकस्याम् ऋचि उक्तम्—
ʻउक्ष्णो हि पञ्चदश साकं पचन्ति विंशतिम्।
उताहमस्मि पीव इदुवा कुक्षी पृणन्ति मे विस्वस्मादिन्द्र उत्तरः।।ʼ
अत्र वृषभक्षणस्य वृत्तान्तमस्ति। अत्र पुरुषवानरं सम्मानं ज्ञापितम्। अस्मादेव वानरपूजायाः उत्पत्तिः इति केचित् मन्यन्ते।
ऋग्वेदस्य १०/२८ संख्यके सूक्ते इन्द्र-तत्पुत्र-पुत्रवधूनां मध्ये कथोपकथनं वर्णितम्। इन्द्रस्य कृते सोमरसादि प्रियं खाद्य-पानीयं  प्रस्तुत्य नववधूः अपेक्षते स्म। यथाकालम् इन्द्रः आगत्य अवदत्-- ʻसर्वे माम् एवं स्तौति यत्, मम कार्यभारः स्वर्गादपि गुरुतरः।ʼ सूक्तस्य अवशिष्टांशः इन्द्रस्य बलवीर्यविषयक-स्तुतिभिः पूर्णः।
ऋग्वेदस्य दशम-मण्डलस्य ५१-५२ संख्यके सूक्तद्वये अग्निना सह देवानां कथोपकथनं वर्णितम्। अग्निः देवानां कृते हविग्वहनं क्रियमाणः क्लान्तः सन् जलमध्ये लुक्काचितः। देवाः तम् अन्विष्य होतृ-कार्यं कर्तुम् अनुरुन्धन्ति स्म। यज्ञस्य उत्कृष्टांशदानाय प्रतिश्रुतौ दत्तायाम् अग्निः पुनः हविर्वहनकार्ये सम्मतः जातः।
एतद्व्यतिरिक्तं प्रथममण्डलस्य १६५ संख्यके सूक्ते इन्द्र-मरुतोः कथोपकथनम्, १७० संख्यके सूक्ते इन्द्रागस्त्ययोः कथोपकथनम् उल्लेखार्हम्।
उपसंहारः--  संवादसूक्तसमूहः भारतीय-महाकाव्यस्य प्राचीनतमः उत्सः इति Oldenburg महोदयः मन्यते। Max Muller,  Sylvan Levy प्रमुखानां मतानुसारेण संवादसूक्तं नाटकविशेषम् इति। संस्कृतनाटकाणि एतेभ्य एव उद्भूतानि। Winternitz महोदयः मन्यते यत्, इमानि सूक्तानि सुप्राचीनानां ballad-काव्यानां निदर्शनस्वरूपाणि। इमानि महाकाव्य-नाटकयोः  वीजस्वरूपाणि--ʻThis ancient ballad poetry is the source both of the epic and of the drama, for these ballads consist of a narrative, and of a dramatic element.'

------

२.  ऋग्वेदस्य दार्शनिकसूक्त-विषये नातिदीर्घः कशिचित् प्रबन्धः लिख्यताम्।
उत्तरम्—
उपक्रमः—ऋग्वेदे आदौ बहुदेवतावादः प्रटलितः आसीत्। कालक्रमेण सः अतिदेवतावाद-माध्यमेन एकेश्ववादे परिणतिं प्राप्तः। व्यावहारिक-जीवनस्य आशा-आकाङ्क्षादि-चरितार्थाय यज्ञीय-धर्म-कर्मणां सूत्रपातः जातः। ततः तेभ्यः धर्मकर्मभ्यः ऋक्संहिताभ्यन्तरे एव  दार्शनिक-जिज्ञासा  समुत्पन्ना। ऋग्वेदे केषुचित् सूक्तेषु सुगभीरा दार्शनिकचिन्ता प्रकाशिता। तानि सूक्तानि एव दार्शनिकसूक्तानि (Philosophical hymns) इत्युच्यन्ते।
ऋग्वेदस्य उल्लेखयोग्यानि दार्शनिकसूक्तानि—
हिरण्यगर्भसूक्तम्, नासदीयसूक्तम्, पुरुषससूक्तम्, वाक्सूक्तम्, अघमर्षणसूक्तम् इत्यादीनि।
दार्शनिकसूक्तानां प्रतिपाद्यः विषयः—
हिरण्यगर्भसूक्तम्—ऋग्वेदस्य दशममण्डलान्तर्गतम् १२१ संख्यकं सूक्तम्। अस्य सूक्तस्य देवता प्रजापतिः। बहुदेवतायाः अस्तित्वे अविश्वासी ऋषिः हिरण्यगर्भमेव सृष्टिकर्तारूपेण, तथा  रक्षाकर्तारूपेण वर्णितवान्। ऋशिणा उक्तम्-- 

ʻहिरण्यगर्भः समवर्तताग्रे
भूतस्य जातः पतिरेक आसीत्।ʼ

सर्वप्रथममं केवलं हिरण्यगर्भ एव वर्तमान आसीत्। स जातमात्र एव सर्वभूताधीश्वरः अभवत्।
ऋषिः भूय आह—

ʻय आत्मदा बलदा यस्य विश्व
उपासते प्रशिषं यस्य देवाः।
यस्य छायामृतं यस्य मृत्युः
कस्मै देवाय हविषा विधेम।।ʼ

--यः जीवात्मनः दाता, बलस्य दाता, सर्वे देवाः यस्य आज्ञां पालयन्ति, यस्य छाया अमृतस्वरूपा, मृत्युः यस्य वशीभूतः स एव प्रजापतिः। अत्र ʻकʼ-शब्देन बहुदेवतायाः अस्तित्वे सन्देहः प्रकाशितः इति केचित्। अन्ये च ʻकʼ-शब्देन हिरण्यगर्भः ज्ञेयः इति वदन्ति।   

नासदीयसूक्तम्-- ऋग्वेदस्य दशममण्डलान्तर्गतम् १२९ संख्यकं सूक्तम्। अस्य सूक्तस्य देवता परमात्मा इति। अस्मिन् सूक्ते वैदिकानाम् ऋषीणां सूक्ष्मं गभीरं च दार्शनिकं ज्ञानं प्रकटितम्।  अत्र उक्तम्—
ʻनासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमो परो यत्।ʼ
न सतः न वा असतः विश्वं न सृष्टम्। सृष्टेः प्राक् पृथिव्याकाशादयः नासन्। तदा न मृत्युरासीत्, न वा अमृतम्, दिवस-रात्र्योः प्रभेदः नासीत्—

ʻन मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः।ʼ
चतस्रः दिशः तमसाच्छन्नाः जलमयाश्च आसन्। अन्ते च प्रश्नः उत्थापितः—

ʻको अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः।ʼ
--कस्मात् इयं सृष्टिः आगता? कः तद् जानाति, कश्च वक्तुं शक्यः?
अस्य उत्तरम् दत्तम्—

ʻइयं सृष्टिर्यत आबभूव यदि वा दधे यदि वा न।
यो अस्याध्यक्षः परमे व्योमन्त् सो अङ्ग वेद यदि वा न वेद।ʼ

अत्र यत् सत्ताविषयकमुक्तम् स द्युलोकस्य अन्तरीक्षलोकस्य, भूलोकस्य च धारयिता। सूर्य-चन्द्र-जल-वायु-दिवस-रात्र्यादीनां स्रष्टा हिरण्यगर्भः—परमेश्वरस्य व्यक्तं रूपम्।
पुरुषसूक्तम्--  ऋग्वेदस्य दशममण्डलान्तर्गतम् ९० संख्यकं सूक्तम्। अत्र एकेश्वरवाद-विषये उक्तम्। एकस्य विराट-पुरुषस्य कल्पनापूर्वकमुक्तम्—

ʻसहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।
स भूमिं विश्वतो वृत्वाऽत्यतिष्ठद्दशाङ्गुलम्।ʼ

विराट-पुरुषस्य सहस्रं मस्तकाणि, सहस्रं चक्षूंषि, सहस्रं चरणानि। स पृथिवीं सर्वतो व्याप्य दशाङ्गुल-परिमाणम् अतिरिच्य अवस्थीयते। स सर्वेभ्यः पूर्वम् अजायत। देवतागणः, साध्यगणः, ऋषिगणश्च तं पुरुषम् आहुतिं दत्त्वा यज्ञम् अकुर्वन्। तस्माद् यज्ञात् ऋचः, सामानि, यजूंषि च उत्पन्नानि। पुरुषः खण्डशः कृतः। तस्य मुखात् ब्राह्मणः, बाहोः राजन्यः (क्षत्रियः), ऊरुदेशात् वैश्यः, पद्भां शूद्रः अजायत। मनसः चन्द्रः, चक्षुषः सूर्यः, मुखात् इन्द्राग्नी, तथा प्राणेभ्यः वायुः उत्पन्नाः।  तस्य नाभिदेशात् आकाशः, मस्तकात् स्वर्गः, पद्भ्यां भूमिः, कर्णाभ्यां दिशः उत्पन्नाः।
इदं सूक्तम् उत्तरकालीनम् इति। अत्र यत् चिन्तनं वीजाकारेण अस्ति उपनिषदि तदेव ब्रह्मवादे परिणतम्।

वाक्सूक्तम् देवीसूक्तम् वा—ऋग्वेदस्य १२५ संख्यकं सूक्तम्। अस्मिन् सूक्ते एका महाशक्तिः जगदीश्वरी एव सर्वदेवे, सर्वकार्ये, सर्वयज्ञे, सर्वशक्तौ च विद्यते। सा जगत्सृष्टिकाले वायुरूपेण प्रबहति। सा ओकाशस्य पृथिव्याश्च विद्यमाना। सा व्रह्मस्वरूपिणी, सा असीमा—

ʻअहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा।
परो दिदा पर एना पृथिव्येतावती महिना सं वभूव ।ʼ

ऋग्वेदस्य दशममण्डलस्य  १६४ संख्यके सूक्तेऽपि दार्शनिकचिन्ता प्रकाशिता। अत्र उक्तम्—
ʻएकं सद् विप्रा बहुधा वदन्तयग्निं यमं मातरिश्वानमाहुः।ʼ अत्र एकतावादः सूचितः। 
अष्टममण्डलस्य ५८ संक्यके सूक्ते एकस्या एव देवतायाः सर्वशक्तिसत्त्वम् उक्तम्—
ʻएकं वै इदं वि बभूव सर्वम्।ʼ
उपसंहारः—एषु सूक्तेषु यथा सृष्टितत्त्वस्य भावना प्रकाशिता, तथा बहुदेवतावादाभ्यन्तरे विश्वव्यापिन्याः एकस्याः अद्वितीय-सत्तायाः अस्तित्वं स्वीकृतम्। अत्र यज्ञकर्मापेक्षया देवताचिन्तापेक्षया वा दार्शनिकचिन्तया एव ऋषिचित्तम् अधिकम् आलोडितम्। एवमेव यज्ञीयात् क्रियाकलापात् दार्शनिकचिन्ता विकशिता इति शम्।
----- 

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1