ads

ad

५. वेदाङ्गम्। ६. अथर्ववेदः। History of Vedic Literature (in Sanskrit), C-8, Unit-I, 4th Sem, CBPBU


History of Vedic Literature (in Sanskrit), C-8, Unit-I, 4th Sem, CBPBU
५. वेदाङ्गम्।
६. अथर्ववेदः।

५. वेदाङ्गानां विवरणम्--

उपक्रमः—प्रधानस्य अङ्गिनो वा यत् सहायकम् उपकारकं वा तद् अङ्गम् इत्युच्यते। वेदः अङ्गी, वेदाङ्गं तस्य उपकारकम् इति। वेदस्य शब्दबोधः,  अर्थबोधः, वेदपाठस्य रीतिः, क्रियया सह मन्त्रस्य सम्बन्धः इत्यादिषु विषयेषु वेदाङ्गाणां ज्ञानम् अपरिहार्यम् इति। षट् वेदाङ्गानि। यथा—शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दः ज्योतिषं चेति।

शिक्षाषट्सु वेदाङ्गेषु शिक्षा प्रधानम् इति। ʻशिक्षाʼ-शब्दस्य अर्थः निर्देशः (instruction)। वैदिक-भाषातत्त्वं निर्देशावली वा शिक्षा इत्युच्यते। ऋग्भाष्ये सायनाचार्येण उक्तम्-- ʻवर्णस्वराद्युच्चारणप्रकारो यत्रोपदिश्यते सा शिक्षा।ʼ
वेदस्य अकारादयः वर्णाः (letter), उदात्तादयः स्वराः (accent), ह्रस्वः, दीर्घः, प्लुतः इति मात्राः (syllable), बलम् (stress), साम (melody), सन्तानः (combination of words --सन्धिः) –इति विषयाः शिक्षाग्रन्थे आलोचिताः। आङ्गलभाषायाम् शिक्षा Phonetics (ध्वनिविज्ञानम्) इत्युच्यते।
चतुर्णां वेदानां पृथक् पृथक् शिक्षाग्रन्थः आसीत्। तेषु उल्लेखनीयाः---  ऋग्वेदस्य पाणिनीयशिक्षा, सामवेदस्य नारदीयशिक्षा, शुक्लयजुर्वेदस्य याज्ञवल्क्यशिक्षा, कृष्णयजुर्वेदस्य व्यासशिक्षा, अथर्ववेदस्य माण्डुकीशिक्षा इति।

कल्पः-- ʻक्लिप्ʼ धातोः कल्पः इति शब्दः निष्पण्णः। अस्यार्थः—रूपनिर्माणम् इति। येन यज्ञादयः कल्प्यन्ते समर्थ्यन्ते वा स कल्पः इति। वेदस्य ब्राह्मणेषु  यज्ञानां विवरणम् बहु-विस्तृतम् नानाख्यायिकायुक्तं च। आख्यायिकांशं वर्जयित्वा केवलं यज्ञानुष्ठान-प्रक्रियां समादाय ये तावद् ग्रन्थाः विरचिताः ते कल्पसूत्रनामकं वेदाङ्गम् उच्यते। ब्राह्मणस्य संक्षिप्तं संस्करणं हि कल्पः इति।
विषयानुसारेण कल्पसूत्रं त्रिधाविभक्तम्। यथा— श्रौतसूत्रम्, गृह्यसूत्रम्, धर्मसूत्रम् चेति।
श्रौतसूत्रम्--  विविधानां यागानां विधिनियमादयः अत्र आलोचिताः।
गृह्यसूत्रम्--  गृहस्थानां करणीयाः संस्काराः अत्र आलोचिताः।
धर्मसूत्रम्--  राजनीतिः, समाजनीतिः, वर्णाश्रमधर्माः, व्यवहारशास्त्रम् इति धर्मसूत्राणाम् आलोच्यविषयाः।
एतद् व्यतिरिक्तं शुल्वसूत्रम् इति नामकम् एकं सूत्रसाहित्यमस्ति। यज्ञवेदी-निर्माणपद्धतिः अस्य आलोच्यविषयः।
कल्पसूत्रम् वैदिकानाम् आर्याणां यज्ञ-रीति-नीति-विधिनियम-धर्मनीति-राष्ट्रनीति-विषये गुरुत्वपूर्णं तथ्यं प्रददाति।

निरुक्तम्--  ऋषिः यास्कः अस्य रचयिता। वैदिक-शब्दानां व्युत्पत्तिः यत्र निःशेषेण उक्ता तत् निरुक्तम् इति। निघण्टु इति वैदिक-शब्दानां संग्रहः ग्रन्थः आसीत्। निरुक्तं तस्य भाषातात्त्विक-व्याख्या। निरुक्तं सममेव शब्दकोषः, मन्त्रभाष्यं च। निरुक्तम् एका शास्त्रशाखा। पूर्वम् अस्याः बहवः ग्रन्थाः आसन्। यास्कः कनिष्ठः निरुक्तकारः।
निरुक्तस्य भागत्रयम् अस्ति। यथा—नैघुण्टुककाण्डम्, नैगमकाण्डम्, दैवतकाण्डम् चेति।

नैघण्टुककाण्डम्--  निरुक्तग्रन्थस्य प्रथमम् पञ्च अध्यायाः नैघण्टुककाण्डम् निघण्टु वा इत्युच्यते। इदम् शब्दार्थकाण्डमपि उच्यते। अत्र समानार्थाकाणां पर्यायवाचकानां वा शब्दानाम् उपदेशः अस्ति। अत्र २१ पृथिवीवाचकाः शब्दाः, १५ स्वर्णवाचकाः शब्दाः, १६ अन्तरीक्षवाचकाः शब्दाः, २३ रात्रिवाचकाः शब्दाः, १२ दिवावाचकाः शब्दाः, १६ ऊषावाचकाः शब्दाः सन्ति। अत्र समानार्थकाणां क्रियापदानामपि सूची अस्ति।

नैगमकाण्डम्--  ʻनिगमʼ-शब्दस्य अर्थः वेदः इति। वेदे प्रयुक्तानाम्  बहूनां शब्दानाम् अत्र निर्वचनं कृतम्। अत्र एकार्थवाचकानाम् (Synonym) बहूनां शब्दानां तथा अनेकार्थवाचकानाम् एकशब्दस्य (Homonym) सूची अस्ति। नैगमकाण्डम् भाषातत्त्वस्य प्रथमं निदर्शनम् इति मन्यन्ते पण्डिताः।

दैवतकाण्डम्अस्मिन् काण्डे देवतातत्त्वस्य विवरणम् अस्ति। यास्केन सर्वे देवाः त्रिधा विभक्ताः। यथा—भूलोकस्य देवताः, अन्तरीक्षलोकस्य देवताः, द्युलोकस्य देवताः इति। सर्वेषां देवानां लक्षणम्, रूपम्, वैशिष्ट्यम्, मन्त्राः इति विषयाः अत्र आलोचिताः।
वेदस्य देवतागणः प्रकृतेः विविधानां विषयानां प्रतीकमात्रम् इति यास्काचार्येण एव प्रथमम् उक्तम् इति।

व्याकरणम्--  षट्सु वेदाङ्गेषु व्याकरणं प्रधानम्। ʻव्याकरणं वै मुखं वेदानाम्ʼ इति उक्तम्। व्याक्रियन्ते प्रकृति-प्रत्ययादिभेदेन शब्दा अनेन इति व्याकरणम्। शब्दस्य अखण्डरूपं येन व्याकृतं क्रियते तदेव व्याकरणम्। अधुना पाणिनि-रचितं व्याकरणं समधिकं प्रचलितम्। पाणिनेः पूर्वमपि व्याकरणग्रन्थाः आसन्, परन्तु ते अधुना लुप्ताः। पाणिनेः अष्टाध्यायी-ग्रन्थे वैदिक-लौकिकयोः भाषयोः सूत्राणि सन्ति। पाणिनेः सूत्राणामुपरि कात्यायन (वररुचि)-रचितं वार्तिकम्, तथा पतञ्जलि-रचितं महाभाष्यम् इति बहुल-समादृतं ग्रन्थद्वयमस्ति।
वररुचिना व्याकरणस्य पञ्च प्रयाजनानि उक्तानि-- ʻरक्षोहागमलघ्वसन्देहाः प्रयोजनम्।ʼ  रक्षा, ऊहः, आगमः, लघु, असन्देहः इति व्याकरणस्य प्रयोजनानि।

रक्षारक्षा इत्यनेन वेदरक्षा इति बोध्यते। व्याकरणस्य नियमानुसारेण वर्णलोपः, वर्णागमः, वर्णविकारः इत्यादिविषये ज्ञानसद्भावादेव सुष्ठु वेदरक्षा सम्भाव्यते।

ऊहः ऊहः इत्यस्य अर्थः उह्यम् इति। यत् स्पष्टं नोक्तम्, परन्तु यज्ञस्य प्रयोजनानुसारेण वेदमन्त्राणां शब्दान् प्रयोजनानुसारेण विचार्य प्रयोगयोग्यं क्रियते। एतदेव उह्यम् इत्युच्यते।

आगमःआगमस्य अर्थः वेद इति। अतः आगमार्थं व्याकरणम् अध्येतव्यम्।

लघुलघु इत्यस्य अर्थः संक्षेपः। संक्षेपेण बहूनां शब्दानां ज्ञानलाभाय व्याकरणम् अध्येतव्यम्।

असन्देहःशब्दस्य अर्थविषये सन्देह-दूरीकरणाय व्याकरणम् अध्येतव्यम्।

छन्दःवेदमन्त्र-पाठार्थं छन्दसः ज्ञानेन आवश्यकम्। वेदस्य छन्दः अक्षरछन्दः इति। वेदे सप्त मुख्यानि छन्दांसि सन्ति। यथा—गायत्री (२४ अक्षराणि), उष्णिक् (२८ अक्षराणि),  अनुष्टुप् (३२ अक्षराणि), बृहती (३६ अक्षराणि), पङ्क्तिः (४० अक्षराणि), त्रिष्टुप् (४४ अक्षराणि), जगती (४८ अक्षराणि)। एतानि सप्त छन्दांसि वेदरूपिणः परमपुरुषस्य सप्त हस्तरूपेण कल्प्यन्ते। ऋषि-पिङ्गल-रचितं छन्दःसूत्रमेव वेदाङ्गम् इयुच्यते।

ज्योतिषम्वैदिक-यागयज्ञादिना सह ज्योतिषः सम्पर्कम् अच्छेद्यम्। चन्द्र-सूर्य-ग्रह-नक्षत्राणाम् अवस्थानानुसारेण, अथवा तिथ्यनुसारेण यज्ञाद्यनुष्ठानानि विहितानि। यथा—दर्शपौर्णमासयागस्य अनुष्ठानम् अमावस्यायां पौर्णमास्यां वा क्रियते। चातुर्मास्ययागः प्रति-चतुर्थे मासि ऋतोः अन्ते क्रियते। गवामयन-सत्रम् संवत्सरंसाध्यम्। अस्यार्थम् नक्षत्रादीनां ज्ञानेन प्रयोजनम् आसीत्। अस्मात् प्रयोजनबोधादेव ज्योतिषशास्त्रस्य  उद्भवः प्रसारश्च जायते। ज्योतिष-वेदाङ्गस्य यः ग्रन्थः अधुना लभ्यते स तु अर्वाचीलकालस्य।

उपसंहारःवेदपाठार्थम् वेदाङ्गम् अपरिहार्यम् इति। यथा अङ्ग-प्रत्यङ्गं विना शरीरं न पूर्णं जातम्, तथा वेदाङ्गं विनापि वेदः न सम्पूर्णः। अतः पाणिनीयशिक्षायामुक्तम्—
ʻछन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते।।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्।
तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते।।ʼ
-----


६. अथर्ववेदस्य विषयसूची—

उपक्रमः--  अथर्ववेदस्य प्राचीनं नाम ʻअथर्वाङ्गिरसःʼ इति। ʻअथर्वन्ʼ आङ्गिरसʼ इति शब्द्वद्वयस्य सहयोगेन ʻअथर्वाङ्गिरसःʼ इति शब्दः निष्पण्णः। ʻअथर्वʼ इत्यनेन भेषजविद्या-शान्तिपौष्टिकादि-माङ्गलिकक्रिया च बोध्यते। ʻआङ्गिरसःʼ इत्यनेन शत्रुवधाय मारणाद्यमङ्गलजनकम् अभिचारादिक्रिया बोध्यते। अथर्ववेदस्य वर्णितेषु विषयेषु उभयप्रकारकस्य मन्त्राः विद्यन्ते। अतः अस्य ʻअथर्वाङ्गिरसःʼ इत्यभिधानम्। अथर्ववेदस्य अपरं नामान्तरद्वयं ʻभृग्वाङ्गिरसःʼ ब्रह्मवेदःʼ चेति।

अथर्ववेदस्य आलोच्यविषयः—अधुना अथर्ववेदस्य शाखाद्वयमस्ति—शौनकः, पिप्पलादः चेति। समग्रसंहितायां २० काण्डानि, ७३१ सूक्तानि, ६००० मन्त्राश्च सन्ति। अथर्ववेदस्य मन्त्राणां केचित् मङ्गलजनकाः तथा शान्तिमूलकाः मन्त्राः, केचिच्च अमङ्गलजनकाः अभिचारादि-मन्त्राः। मङ्गलजनकेषु मन्त्रेषु उल्लेखनीयाः— भैषज्यमन्त्राः, पौष्टिकमन्त्राः, शान्तिमन्त्राः, आयुष्यमन्त्राः, स्त्रीकर्माणि इत्यादयः। अमङ्गलजनकेषु मन्त्रेषु उल्लेखनीयाः—अभिचारमन्त्राः, वशीकरणमन्त्राश्चेति।

भैषज्यमन्त्राः--  एषु मन्त्रेषु ज्वरातिसार-विषमज्वर-यक्ष्मा-मृगीरोग-बहुमुत्रादीनां  दुरारोग्य-व्याधीनां निरामयस्य उपायाः वर्णिताः। अन्येषामपि रोगाणां निरामयस्य औषधम्, सर्पादि-विषाक्त-प्राणिनां विषक्रिया-विनाशस्य औषधम्, शल्यचिकित्सा, अस्थिविद्या, पशुचिकित्सादि-विषयानामपि उल्लेखः दृश्यते।

पौष्टिकमन्त्राः—शरीरस्य बलवृद्धये तथा पुष्टिविधानार्थं मणिरत्नादिधारणम्, कृषिकर्मणः उन्नतिविधानम्, गृहसम्पत्तिरक्षणम्, गवादिपशुवृद्धिः, स्त्रीकर्म, सन्तानस्य पुष्टिविधानार्थं कर्म इत्यादयः विषयाः अत्र आलोचिताः।

शान्तिमन्त्राः— अत्र प्रेतादीनाम् अशरीरीणाम् उत्पातनिवारणाय, दुर्दिन-वज्राघातातिवृष्टि-निवारणाय, व्यवहारविषये जयलाभाय मन्त्राः सन्ति। एतद्व्यतिरिक्तं वास्तुविषयक-विधिः, गृहप्रवेशादिविषयेषु विधानम् अस्ति। परिवारस्य अशान्ति-दूरीकरणाय, तथा  ऐक्यविधानाय मन्त्राः अपि सन्ति। एते सांमनस्यमन्त्राः इत्युच्यन्ते।

आयुष्यमन्त्राः--  जातकर्म, नामकरणम्, चूडाकरणम्, उपनयनम्, विवाहः, पितृकर्म इत्यादयः एषां मन्त्राणाम् आलोच्यविषयाः।

स्त्रीकर्माणि—अथर्ववेदस्य चतुर्दशकाण्डे स्त्रीलोकानां विविध-कामनापूर्तेः अनुष्ठानस्य मन्त्राः सन्निविष्टाः।

अमङ्गलजनकानां मन्त्राणां विवरणम्—
अभिचारमन्त्राः—एते मन्त्राः शत्रु-सर्प-प्रेतादीनाम् उपद्रव-निवारणाय प्रयुक्ताः। दुःस्वप्नस्य अशुभं प्रभावं शान्तयितुं मन्त्रा अपि अत्र दृश्यन्ते।

वशीकरणमन्त्राः--  एते मन्त्राः इन्द्रजालमूलकाः। नरनारीणां पारस्परिक-वशीकरणकर्मणि तथा विवाहितजीवने अशान्तिदूरीकरणाय प्रयुक्ताः। सपत्नीविनाशः, सपत्न्याः आकर्षणात् स्वामिनः रक्षणम्, अथवा स्वामिनः कोपात् आत्मनः रक्षार्थं मन्त्रा अपि अत्र विद्यन्ते।
अथर्ववेदस्य षष्ठकाण्डे विमुखं प्रणयिनम् आकर्षयितुं स्त्रीणां कृते विहिताः केचित् अभिचारमन्त्राः वशीकरणमन्त्राश्च सन्ति। प्रणये विमुखान् स्त्रीलोकान् आकर्षयितुं पुरुषप्रयोज्याः मन्त्रा अपि अत्र दृश्यन्ते।
उपरि उल्लिखितेभ्यः विषयेभ्यः उल्लेखनीयाः केचिद् मन्त्राः सन्ति। यथा—
भूमिसूक्तम् (पृथिवीसूक्तम्)--  अत्र उक्तम्—पृथिवी महीयसी, भूतभविष्यतोः नियन्त्री, सा अस्मान् विस्तीर्णं लोकं प्रददाति। सत्यं, बृहत्, ऋतम्, उग्रं, तपः, ब्रह्म, यज्ञश्च इमां भूमिं धारयन्ति।

यज्ञसम्बन्धीयाः मन्त्राः--  अथर्ववेदस्य २०तमे काण्डे सोमयागस्य विवरणं लभ्यते। अत्र अन्त्येष्टि-क्रियामूलकानि कानिचन सूक्तानि सन्ति। कुन्तापसूक्तम् अथर्ववेदस्य मौलिकांशः। मूलतः दानस्तुतिमूलकम् इदं सूक्तम्। केचिद् अंशाः अतीव दुर्बोद्धाः।

सृष्टितत्त्वविषयकाः दार्शनिकचिन्तासमृद्धाः मन्त्राः--  पुरा अथर्ववेदः ब्रह्मवेदः इत्युक्तः। ब्रह्मतत्त्वम् अथर्ववेदस्य मुख्य आलोच्यविषयः आसीत्। सृष्टितत्त्वे कालः एकं विशेषं तत्त्वम्। अयं काल एव सृष्टेः उत्सः नियन्ता च। कालमध्ये एव ब्रह्म समाहितम्, कालगर्भे एव अमृतं विद्यते।

एतद्व्यतिरिक्तं स्कम्भसूक्ते, प्राणसूक्ते, उच्छिष्टसूक्ते च गभीरम् अध्यात्मतत्त्वम् आलोचितम्।
उपसंहारः--  प्राचीनानाम् आर्याणाम् ऐहिक-रीति-नीति-भावधाराणाम् अपरिहार्यः ग्रन्थः अथर्ववेदः। अत्र यथा गभीरम् आध्यात्मिकतत्त्वम् आलोचितं, तथा लौकिकधर्मस्य विषयोऽपि आलोचितः। प्राचीन-भारतीय-लोकसंस्कृतिविषये अथर्ववेदः प्रयाजनीयः ग्रन्थः। आयुर्वेदस्य इतिहासविषयेऽपि अथर्ववेदस्य अवदानम् उल्लेखनीम्। भारतीय-इन्द्रजालविद्याया उत्सः अपि अथर्ववेदः। अथर्ववेदः गृह्यसूत्रस्य जनक इत्युच्यते। गृहस्थधर्मस्य अशान्ति-दूरीकृत्य चिरशान्ति-प्रतिष्ठा एव अस्य लक्ष्यम्। अस्मात् कारणात् अथर्ववेदः लौकिकवेदः। अथर्ववेदस्य गुरुत्वविषये Winternitz महोदयेन उक्तम्—The great significance of the Atharvaveda-Sahitā lies in this that it for us an inestimable source of knowledge of the actual popular religion which is not yet influenced by the priestly religion, of the belief in numberless spirits, goblins, ghosts and demons of all kinds and of the practice of magic that is of such great importance to ethnology and history of religion.'
-------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—