ads

ad

History of Vedic Literature (in Sanskrit), C-8, Unit-I, 4th Sem, (Q. 3 & 4) CBPBU


History of Vedic Literature (in Sanskrit), C-8, Unit-I, 4th Sem, (Q. 3 & 4) CBPBU

३. धर्मनिरपेक्षसूक्तम्

उपक्रमः—प्राचीनभारतीय-साहित्यस्य प्राचीनतमं निदर्शनं खलु ऋग्वेदः। अस्य अधिकांशेषु सूक्तेषु  देवान् प्रति  श्रद्धानिवेदनम्, तेषां गुणकीर्तनं, तथा तेषां समीपं प्रार्थना-निवेदनं दृश्यन्ते। धर्मेण सह एषां सूक्तानां सम्पर्कः ओतप्रोतः। कानिचित् सूक्तानि दार्शनिक-विषयसम्पर्कितानि। एतद्व्यतिरिक्तम् अन्यानि कानिचन सूक्तानि सन्ति यानि खलु न देवताविषयकानि, न वा दार्शनिक-विषयसम्पर्कितानि। इमानि सूक्तानि नीतिप्रतिपादकानि, इन्द्रजालमूलकानि, दानस्तुतिविषयकानि च। इदं सूक्तजातमेव  धर्मनिरपेक्षसूक्तम् (Secular hymns) इत्युच्यते।

ऋग्वेदस्य धर्मनिरपेक्षसूक्तानां विवरणम्—
अक्षसूक्तम् (१०/३४)--  ऋग्वेदस्य धर्मनिरपेक्षसूक्तेषु अक्षसूक्तम् मुख्यम्। अक्षक्रीडायाम् आसक्तस्य कस्यचित् कितवस्य करुणं  वृत्तान्तम् अस्य विषयः। अक्षक्रीडायां सर्वस्वान्तः कितवः सर्वत्र लाञ्छनां सहित्वा हीनभावेन जीवनं यापयति स्म। तस्य पत्नी अपि अन्याधीना जाता। तस्य मातापितरौ अपि तेन सह सम्पर्कं रक्षितुं नेच्छतः। सूक्तान्ते दृश्यते यत्, कितवेन इयं शिक्षा लब्धा यत्, अक्षक्रीडां सर्वतोभावेन वर्जयित्वा कृषिकर्मणि एव मनोनिवेशः कर्तव्यः इति।  कितवः सर्वान् प्रति आवेदयति—
ʻअक्षैर्मा दीव्यः कृषिमित् कृषस्व
वित्ते रमस्व बहु मन्यमानः।ʼ

विवाहविषयकं सूक्तम् (१०/८५)—धर्मनिरपेक्षसूक्तेषु सुपरिचितम् इदं सूक्तम्। अत्र ४७ सूक्तानि सन्ति। सूर्यासूक्तम् अस्य अन्यत् अभिधानम्। अत्र सोमेन सह सूर्यकन्यायाः विवाहः वर्णितः। सूर्येण कन्यायै उपढौकन-दानस्य विषयोऽपि अत्र वर्णितः—
ʻसूर्याया वहतु प्रागात् सविता यमवासृजत्।
अघासु हन्यन्ते गावोऽर्जुन्योः पर्य्यह्यते।।ʼ

नववधूं प्रति आशीर्वाद-दानपूर्वकम् उक्तम्—
ʻसम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव।
ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु।।ʼ
संवादसूक्तम्—ऋग्वेदस्य संवादसूक्तेषु कानिचित् धर्मनिरपेक्षसूक्तानि सन्ति। यथा—१७९ संख्यके सूक्ते अगस्त्य-लोपामुद्रयोः कथापकथनम् वर्णितम्। यम-यमीसंवादे (१०/१०) प्रजासृष्टि-विषये इङ्गितं दत्तम्। पुरूरवा-उर्वशीसंवादे राज्ञा पुरूरवसा सह उर्वश्याः प्रणयः वर्णितः। एतद्व्यतिरिक्तं सरमा-पणिसंवादः, वृषाकपिसूक्तम् इत्यादीनि संवादसूक्तानि उल्लेखयोग्यानि ।

मण्डूकसूक्तम् भेकसूक्तम् वा (७/१०३)—वर्षाणां प्रथम-वारिधारायां भेकानाम् उल्लासः, ते नानाविधः वर्णविशिष्टः, ते नानाविधं शब्दं कुर्वन्ति। एकेन भेकेन अन्यस्य शब्दानुकरणं गुरुशिष्ययोः पाठदान-पाठग्रहणाभ्यां सह उपमितम्। भेकस्य शब्देन सह वेदपाठरतानां ब्राह्मणवालकानां वेदपाठस्य ध्वनेः सादृश्यमुक्तम्—
ʻसम्बत्सरं शशयाना ब्राह्मण्यः ब्रतचारिणः।
वाचं पर्जन्यजिम्बितां प्र मण्डूका अवादिषुः।।ʼ
उपमा-प्रयोगेन तथा कविकल्पनया सौन्दर्येण सूक्तमिदम् अतीव रसग्राहि सञ्जातम्।

अरण्यानीसूक्तम् (१०/१४६)--  अरण्यविषयकं मनोहरं गीतिकाव्यमिदम्। फलपुष्पैः सुशोभिते अरण्ये पशूनां विचरणम्, पशुपक्षिणां विचित्रः शब्दः, क्वचित् निर्जनं नैःशब्दम् इत्यादिना अरण्यपरिवेशस्य मोहमयता सृष्टा। अरण्यपार्श्वे दण्डायमानः ऋषिकविः पृच्छति—
ʻकथं ग्रामं न पृच्ठसि, न त्वा भीरिव विन्दती?ʼ
वनप्रकृत्या सह मानवस्य सम्पर्कस्थापनात् इयं वर्णना चमत्कारिणी सञ्जाता।

इन्द्रजालादि-विषयकं सूक्तम्—ऋग्वेदे न्यूनाधिकं त्रिंशत् एवंविषयकानि सूक्तानि सन्ति। रोग-निरामयाय, शत्रूणाम् उच्छेद-साधनार्थं, विषक्रियायाः प्रभाव-दूरीकरणार्थं, अधिक-शस्योत्पादनार्थं, पशुसम्पद्-वृद्धये, युद्धे विजयलाभाय अभिचारमन्त्राः सन्ति।
१/१९१ संख्यके सूक्ते जीवजन्तूनां विषक्रिया-विनाशाय मन्त्राः सन्ति।
१०/१६३ संख्यके सूक्ते यक्ष्मारोग-निवारणाय सम्त्राः लभ्यन्ते। 

नाराशंसी-दानस्तुतिमूलकानि सूक्तानि--  येषु सूक्तेषु दातुः प्रशंसा लभ्यते तानि ʻनाराशंसीʼ इत्युच्यन्ते। येषु सूक्तेषु दानस्य प्रशंसा क्रियते तानि ʻदानस्तुतिःʼ इत्युच्यते। एषां सूक्तानां लौकिकं वैशिष्ट्यमेव प्रधानम्।
एषु सूक्तेषु केषाञ्चित् ऐतिहासिक-वृत्तान्ताम् तथा नाम्नाम् उल्लेखसत्त्वात् इतिहासविषयेऽपि एतानि गुरुत्वपूर्णानि।

एतद्व्यतिरिच्य विविध-विषये कानिचित् धर्मनिरपेक्षसूक्तानि सन्ति। यथा—
नवम-मण्डस्य १२२ संख्यके सूक्ते मनुष्याणां  विचित्र-कर्मजीवनस्य  आशा-आकाङ्क्षादयः वर्णिताः।
दशम-मण्डलस्य १७३ संख्यके सूक्ते राज्ञः माहात्यं वर्णितम्।
दशम-मण्डलस्य १८ संख्यकं सूक्तं लौकिक-रचनायाः उत्कृष्टं निदर्शनम्। अत्र मृत्युमुद्दिस्य उक्तम्—
ʻमा नः प्रजां रीरिषो मोत वीरान्।ʼ

उपसंहारः--  प्राचीन-भारतीय-सभ्यता-संस्कृतिक्षेत्रे धर्मनिरपेक्षसूक्तानां प्रभूतं गुरुत्वम् अस्ति। एभ्यः सूक्तेभ्यः तत्कालीनानां मनुष्याणां जीवनयात्राप्रणाली, जीविका-निर्वाहस्य विविधः उपायः, तेषां मनस्तत्त्वम् इत्यादिषु विषयेषु प्रभूतं तथ्यं प्राप्यते। वैदिकानाम् ऋषीणां सुगभीरः जीवनवोधः, प्रकृतिदर्शनाय सूक्ष्मा अन्तर्दृष्टिः, तथा कवित्वस्य वाङ्मय-प्रकाशः इत्यादिना कारणेन एषां सूक्तानां दुरुत्वम् अनस्वीकार्यम् इति शम्।




४. ऋग्वेदे गीतिकविता

उपक्रमः--  ʻवेदʼ-शब्दस्य अर्थः ज्ञानम्, परमज्ञानमिति। धर्मतत्त्वं ब्रह्मतत्त्वं च वेदस्य मुख्यम् आलोच्य-विषयद्वयम्। ʻत्रयीʻ-विद्यात्मकेषु वेदेषु  ऋग्वेदः प्रधानम्। अस्य सूक्तानि छन्दोबद्ध-भाषया रचितानि। मुख्यतः यज्ञार्थं ऋक्मन्त्राः रचिता अपि कानिचित् सूक्तानि  अपूर्व-काव्यरूपेण मनोहराणि। एषु सूक्तेषु उषस्-सूक्तम्, अपां नपात्-सूक्तम्, सूर्यसूक्तम्, पर्जन्यसूक्तम् इत्यादीनि उल्लेखनीयानि।

ऋग्वेदस्य गीतिकविता-विषयकाणां सूक्तानां विवरणम्—

ऋग्वेदस्य चतुर्थमण्डस्य ४/५१ संख्यके सूक्ते उषादेवीमुद्दिश्य उक्तम्—
ʻअस्थुरुः चित्रा उषसः पुरस्तान्विता इव सरवोऽध्वरेषु।
व्यू ब्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पाबकाः।।ʼ (४.५१.२)
--विचित्रा उषादेवी यज्ञीयं यूपकाष्ठमिव शोभमाना सती पूर्वस्यां दिशि विद्यते। तमः दूरीकृत्य सा दीप्ता पवित्रा च भूताव प्रकाशिता। कविकल्पनया सह वास्तवस्य संमिश्रणेन इयं वर्णना मनोहारिणी सञ्जाता।

पञ्चम-मण्डलस्य ८०संख्यके सूक्ते उषादेवी सद्योस्नाता-रमणीरूपेण वर्णिता—
ʻएषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाति दृशये नो अस्थात्।ʼ (५.८0.५)
अनया वर्णनया सद्योस्नाता सुवेशा रमणीव उषादेवी अस्माकं सम्मुखं प्रतिभाता।
अस्मिन् सूक्ते भूयोऽपि उक्तम्—
ʻएषा जनं दर्शता वोधयन्ती सुगान् पथः कृन्वती यात्यग्रे।
बृहद्रथा बृहती विस्वमिन्वोषा ज्योतिर्यच्छत्यग्रे अह्नाम्।।ʼ (५.८0.२)
--मनोहारिणी उषा मनुष्यान् प्रवोधितान् पथश्य सुगमान् कृत्वा सुविस्तृतम् रथमारुह्य सूर्यस्य अग्रे गच्छति। महती विश्वव्यापिनी उषा  दिवसस्य प्रारम्भे दीप्तिं विस्तारयति।

प्रथम-मण्डलस्य १२४ संख्यके सूक्ते उषादेवी गृहीण्या सह उपमीयते—
ʻअद्मसन्न ससतो  वोधयन्ती शश्वत्तमागात् पुनरेयुषीणाम्।ʼ (१.१२४.४)
--गृहिणी यथा प्रथमं जागरित्वा सर्वान् जागर्तयति, तद्रूपम् उषादेवी अपि जगतः मनुष्यान् जागरयति। उषा अभिसारिकाणां मध्ये अधिकम् आगच्छति।

सप्तम-मण्डलस्य ६६ संख्यके सूक्ते उक्तम्—
ʻशीर्ष्णः शीर्ष्णो जगतस्तस्थूषस्पतिं समया विश्वमा रजः।
सप्त ससारः सुविताय सूर्यं वहन्ति हरितो रथः।।ʼ (७.६६.१५)
--सूर्यः शीर्षदेशस्यापि शीर्षस्थानीयः। अर्थात् स ऊर्ध्वतमे लोके विराजते, स सर्वेषां स्थावर-जङ्गमानाम् अधिपतिः, तथा सर्वेषां लोकानां समीपवर्ती अपि।  जगतः कल्याणार्थं सप्त द्रुतगतिसम्पन्नाः अश्वाः तम् रथेन वहति।

दशम-मण्डलस्य ३६ संख्यके सूक्ते सवितारम् उद्दिश्यं प्रार्थना निवेदिता—
ʻसविता पश्चातात् सविता पुरस्तात् सवितोधरात्तात्।
सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः।।ʼ (१०.३६.१४)
--सवितादेवः अस्माकं पश्चातात्, पुरस्तात्, सम्मुखम्, उपरि, नीचैः च तिष्ठतु, अस्मभ्यः सर्वप्रकारं कल्याणं, दीर्घं परमायुश्य ददातु।
सविता प्रभातकालस्य तत् मुहूर्तम्, पूर्वाकाशस्य स विन्दुः यत्र सूर्योदयस्य सम्भावना निहिता, रात्रेः, तथा तस्याः अमङ्गलस्य पराजयः यत्र सूचितः।
१०.८५ संख्यके सूक्ते सूर्यारूपेण काचित् नारीदेवता सुन्दरी-वधूरूपेण वर्णिता। सा सोमदेवस्य वधूः।

अन्यस्मिन् सूक्ते पर्जन्यदेवं मेघं वा उद्दिश्य ऋषिः वदति--  सूतः यथा अश्वान् कशाघातेन चालयति, तद्वत् पर्जन्योऽपि शतं शतं कशा इव वृष्टिदूतान् पृथिवीं प्रेरयति। यदा पर्जन्यदेवः आकाशं वर्षणमुखरं करोति तदा मेघस्य ढक्कानिनादः शतं शतं सिंहगर्जनमिव श्रूयते। अत्र उपमालङ्कारस्य अपूर्वं माधुर्यं परिस्फुटम्।

सप्तम-मण्डलस्य मण्डूकसूक्ते (७.१०३.१) उक्तम्—
ʻसम्बत्सरं शशयाना ब्राह्मण्यः ब्रतचारिणः।
वाचं पर्जन्यजिम्बितां प्र मण्डूका अवादिषुः।।ʼ
उपमा-प्रयोगेन तथा कविकल्पनया सौन्दर्येण सूक्तमिदम् अतीव रसग्राहि सञ्जातम्।

सिन्धुनदीमुद्दिश्य उक्तम्—
ʻदिवि स्वनो यतते भूम्योपर्यननन्तं शष्मद्युतिर्यति भानुना।
अभ्रादिव प्र स्तनयन्ति वृष्टयः सिन्धुर्यदेति वृषभो न रोरुदत्।। (१०.७५.३)
पृथिव्याः सिन्धोः शब्दः उत्थाय आकाशम् आच्छादयति। महता वेगेन उज्ज्वल-मूर्तिधारी स चलति। प्रबले शब्दे कृते मेघात् घोर-रवेण वृष्टिपात इव प्रतिभाति। सिन्धुः वृष इव गर्जन् आगच्छति।

रात्रेः  निस्तब्धता-वर्णानायाम् आह—
ʻनि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः।
नि श्येनासश्चिदर्थिनः।ʼ (१०.१२७.५)
--ग्रामसमूहः निस्तब्धः जातः, पादचारिणः, पक्षिणः, शीघ्रगामिनः श्येनपक्षिणः सर्वे एव निस्तब्धाः जाताः।
एवं बहवः दृष्टान्ताः सन्ति।

उपसंहारः  उल्लिखितानां सूक्तानां सर्वत्रैव प्राकृतिक-सौन्दर्यस्य वर्णना, तथा अलङ्कारमण्डिता भाषा अतीव मनोहारिणी। एषां सूक्तानाम् काव्यरसम् आस्वाद्य Winternitz महोदयेन उक्तम्--
ʻSome pearls of lyric poetry, which appeal to us as much through their fine comprehension of the beauties of nature, as through their flowery language are to be found among the songs of Sūrya, Parjanya, maruts and above all to Uşas.'
-----------------

Comments

Unknown said…
স‍্যার বাকিগুলো একটু দিলে ভালো হত ।

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—