ads

ad

part-2

२. राजर्षिवृत्तम्
(राज्ञः आचरणविधि-विषये कौटिल्येन यदुक्तं तत् सर्वं सविमर्शमालोच्यताम्।)

भूमिका— राजतन्त्रे देशस्य सर्वमयस्य कर्तुः राज्ञः कर्तव्यजातम् , के तावद् विषयाः तेन  परित्याज्याः, तथा तेन कथम् आचरितव्यम् इत्यस्मिन् विषये कौटिल्येन विस्तारितम् आलोचितम्। महति व्यापारे सर्वैः चित्तचाञ्चल्यं परिहृत्य इन्द्रियसंयमः कर्तव्यः। अतः कौटिल्येन राजर्षेः व्यवहार-निर्देशात् पूर्वम् इन्द्रियजयं कर्तुम् उपदिष्टः-- ʻतस्मादरिषड्वर्गत्यागेन इन्द्रियजयं कुर्वीत।ʼ
राजर्षेः (साधुस्वभाव-विशिष्टस्य राज्ञः व्यवहारः—
प्रथमः व्यवहारः—कौटिल्य आह-- ʻवृद्धसंयोगेन प्रज्ञाम्।ʼ
राजा विविधविषये ज्ञानवृद्धानाम् आचार्यैः सह आत्मनः ज्ञानं विकाशयेत्। मनुना अपि उक्तम्-- ʻवृद्धांश्च नित्यं सेवेत।ʼ
द्वितीयः व्यवहारः-- ʻचारेण चक्षुः।ʼ
राजा चरैः स्वराष्ट्र-परराष्ट्राणां वृत्तान्तम् अवगच्छेत्। राजानः चरैरेव पश्यन्ति। अतः उक्तम्-- ʻचारचक्षुषः राजानः।ʼ
तृतीयः व्यवहारः— ʻउत्थानेन योगक्षेमसाधनम्।ʼ
राजा नव-नवोद्योग-कर्मपरिकल्पना-ग्रहणेन प्रजानाम् अलब्धवस्तुनः लाभः, लब्धवस्तुनः रक्षाविधानं कुर्यात्। अर्थात् प्रजानां समृद्धये, तथा निरापत्ता-विषये राजा उद्योगी भवेत्।
चतुर्थः व्यवहारः— ʻकार्यानुशासनेन योगक्षेमसाधनम्।ʼ
राज्ञः अनुशासनेन एव ब्राह्मणादिवर्णानां ब्रह्मचर्याद्याश्रमाणां प्रजाः स्वे स्वे धर्मे कर्मणि च प्रवर्तन्ते। तस्मात् राजा राजकीयानुशासनेन, तथा नियमनीति-प्रयोगेण प्रजाः नियन्त्रयेत्।
पञ्चमः व्यवहारः— ʻविनयं विद्योपदेशेन।ʼ
राज्ञा विनयोपदेशेन संयमशिक्षा कर्तव्या। शिक्षायाः प्रचारेण तथा प्रसारेण प्रजावर्गः विनयी शिक्षितश्च च कर्तव्यः।
षष्ठः व्यवहारः— ʻलोकप्रियत्वर्थसंयोगेन।ʼ
राजा विविधक्षेत्रे प्रजानाम् विशेषावदानार्थं धन-सम्मानादि-प्रदानेन लोकप्रियत्वम् अर्जयेत्। एतद्व्यतिरिक्तं विविध-जनकल्याणमूलकेषु कार्येषु अर्थविनियोगं कृत्वा प्रजानां प्रियः भवेत्।
एभिः व्यवहारैः राजा इन्द्रियाणि जयेत्।

राजर्षेः वर्जनीयः विषयसमूहः—
अनेन प्रसङ्गेन कौटिल्येन उक्तम्-- ʻएवं वश्येन्द्रियः परस्त्री-द्रव्य-हिंसाश्च वर्जयेत्, स्वप्नं लौल्यम् अनृतम् उद्धतवेषत्वम् अनर्थसंयोगं च, अधर्मयुक्तम् अनर्थसंयुक्तं च व्यवहारम्।ʼ
जितेन्द्रियः राजा परद्रव्यं हिंसां च वर्जयेत्। स दिवास्वप्नं, अकारणं चाञ्चल्यं, मिथ्याभाषणम्, उद्धतवेशधारणम्, अनर्थसंयुक्तं कर्म च त्यजेत्।
राजर्षेः भोगवृत्तिः—
कौटिल्यः मन्यते यत् शुष्कः निवृत्तिमार्गः राज्ञा न अनुसर्तव्यः। अतः तेन उक्तम्-- ʻधर्मार्थाविरोधेन कामं सेवेत, न निःसुखः स्यात्। समं वा त्रिवर्गम् अन्योन्यानुबन्धम्। एको हि अत्यासेवितो धर्मार्थकामान् आत्मानम् इतरौ च पीडयति।ʼ
राजा सुखरहितं जीवनं न यापयेत्। स धर्मार्थौ अपीडयित्वा कामं सेवेत। स धर्मार्थकामान् प्रति समपक्षपातित्वं प्रदर्शयेत्। 
अहितकरात् कर्मणः राज्ञः निवृत्तेरुपायः—
कौटिल्येन उक्तम्-- ʻमर्यादां स्थापयेद् आचार्यान् अमात्यान् वा, ये एनम् अपायस्थानेभ्यः वारयेयुः, छायानालिका-प्रतोदेन वा रहसि प्रमाद्यन्तम् अभितुदेयुः।ʼ
प्रमादवशात् अनर्थकारिणि कर्मणि प्रवृत्तम् राजानम् आचार्याः अमात्याः वा समयसूचकेन यन्त्रेण, अथवा घण्टावादनेन सावधानं कुर्युः। अथवा रहसि मानसिकाघातेन तं स्वकर्मणि प्रवर्तयेयुः। राज्ञा कदापि गुरुजनस्य आचार्यस्य वा आदेशः न लङ्घितव्यः।
उपसंहारः--  अतः दृश्यते यत् कौटिल्यमते राजा विद्या-विनयसम्पन्नः भवेत्, जितेन्द्रियः भवेत्, परन्तु सुखवर्जितं जीवन् न यापयेत्। राजा धर्मम् अनुसृत्य अर्थस्य अपव्यव्यहारं न कृत्वा भोगं कुर्यात्। अर्थापचयेन कापि उन्नतिः न सम्भवेत्। राजर्षेः व्यवहार-विषये कौटिल्येन यदुक्तं तत्तु शासकस्य आदर्शस्वरूपम्। राष्ट्रस्य सर्वात्मक-समृद्धये कौटिल्यस्य उपदेशः अद्यापि प्रासङ्गिकः इति शम्।

-----

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1