ads

ad

C-10, Unit-I, हिरण्यगर्भसूक्तम्, संज्ञानसूक्तम्, 4th Sem, CBPBU


C-10, Unit-I, हिरण्यगर्भसूक्तम्, संज्ञानसूक्तम्,  4th Sem, CBPBU

३. ऋग्वेदस्य हिरण्यगर्भसूक्ते यद् दार्शनिक-तत्त्वं प्रतिफलितं तत् सविमर्णमालोच्यताम्।

उत्तरम्--  आर्यसंस्कृतेः प्राचीनतमं निदर्शनम् ऋग्वेदः। तत्र संवादसूक्तम्, धर्मनिरपेक्षसूक्तम्, गीतिकविता-समृद्धं सूक्तं यथा सन्ति, तथा गभीर-दार्शनिकतत्त्व-विषयकानि कानिचित् सूक्तानि अपि सन्ति। एषु सूक्तेषु ऋग्वेदस्य दशममण्डलान्तर्गतं हिरण्यगर्भसूक्तम् अन्यतमम्।
हिरण्यगर्भसूक्ते सर्वव्यापिन्याः एकस्याः अद्वितीयायाः सत्तायाः वर्णनापूर्वकम् ऋषिः आह--  सर्वप्रथमं केवलं हिरण्यगर्भ एव वर्तमानः आसीत्। स जातमात्रः एव सर्भूतानाम् अधीश्वरः अभवत्। स पृथिवीलोकं द्युलोकं च धारयति। ततः प्रश्नः कृतः--  ʻकस्मै देवाय हविषा विधेम?ʼ  अस्य उत्तररूपेण उक्तम्--  य आत्मनां दाता,  आत्मनां शोधयिता वा, बलस्य च दाता शोधयिता वा, देवा अपि यस्य प्रशासनमुपासते, अमृतं यस्य छाया इव भवति, मृत्युरपि यस्य छाया इव भवति, यः स्वमाहात्म्येन दर्शनेन्द्रियसम्पन्नानां गतिशक्तियुक्तानां जीवानाम् अद्वितीयः राजा भवति। यः द्विपद-चतुष्पदानां प्रभुः, सर्वे पर्वताः यस्य माहात्म्यं, यस्य महिम्ना नद्यः समुद्राश्च सृष्टाः, सर्वाः दिशः यस्य बाहुद्वयम्, येन द्युलोकः अन्तरीक्षलोकः वा तेजस्वी कृतः, तथा पृथिवी स्थिरीकृता, येन ज्योतिर्लोकः स्तम्भितः, स्वर्गश्च स्तम्भितः, यः च अन्तरिक्षे उदकस्य निर्माता, येन द्यावापृथिव्यौ प्राणिनां रक्षार्थं स्तम्भिते उल्लसिते च, यस्मिन् आधारभूते सूर्यः उदितः सन् प्रकाशते—स एव देवः प्रजापतिः हिरण्यगर्भः अत्र स्तुत्यः।
यदा महत्यः आपः गर्भं दधानाः अग्निं जनयन्त्यः सर्वं जगत् व्याप्नुवन् ततः देवानाम् प्राणभूतः एकः प्रजापतिः समजायत। अयं हिरण्यगर्भः एव पृथिव्याः जनकः, सत्यधर्मा, द्युलोकस्य, महतीनाम्  अपां, चन्द्र-नक्षत्रादीनां च स्रष्टा। स स्वमाहात्म्येन प्रलयकालीनाः अपः परितो दृष्टवान्। अयं हिरण्यगर्भः सर्वेषां देवानाम् एकः एव अद्वितीयः  अधीश्वरः आसीत्। अन्ते च प्रार्थना क्रियते—
ʻयत्कामास्ते जुहुमस्तन्नो अस्तु
वयं स्याम पतयो रयीणाम्।।ʼ

हिरण्यगर्भसूक्ते दार्शनिकतत्त्वम्—
ऋग्वेदे बहुदेवतावादः प्रचलितः अपि सर्वेषां देवानामुपरि विराजमाना एका अद्वितीया विराट-सत्ता  स्वीकृता। हिरण्यगर्भसूक्ते विश्वस्य सृष्टिकर्तारूपेण तथा रक्षाकर्तारूपेण हिरण्यगर्भ एव ऋषिणा वर्णितः—
ʻहिरण्यगर्भः समवर्तताग्रे
भूतस्य जातः पतिरेक आसीत्।
स दाधार पृथिवीं द्यामुतेमां
कस्मै देवाय हविषा विधेम।।ʼ
अयं हिरण्यगर्भ एव विश्वस्य नियन्ता, सर्वेषां प्रणिनां प्रभुः, सर्वे देवाः तस्य आज्ञां पालयन्ति। मृत्युः तस्य वशीभूतः, अमृतं तस्य अधीनम्। पर्वत-सागर-स्थावर-जङ्गमादिषु सर्वेषु वस्तुषु तस्य महिमा प्रकाशितः।
ʻभूतस्य पतिःʼ, ʻस दाधार पृथिवीं द्याम्ʼ, ʻय आत्मदा बलदाʼ, ʻयस्य विश्व उपासतेʼ, ʻयस्य छायामृतं यस्य मृत्युःʼ, ʻईशे अस्य द्विपदचतुष्पदःʼ, ʻयेन द्यौरुग्रा पृथिवी च दृल्हाʼ, ʻयत्राधि सुर उदितो बिभातिʼ, ʻआपो यद्बृहतीर्विश्वमायन्ʼ, ʻयो देवेष्वधिदेव एक आसीत्ʼ इत्यादिभिः उक्तिभिः सर्वमहान्, सर्वाधिपतिः, एकः अद्वितीयः प्रजापतिः हिरण्यगर्भः स्वीकृतः।
ऋग्वेदे पुरुषसूक्ते अपि एकस्मात् विराट-पुरुषात् विश्व-चराचरं सृष्टम् इत्युक्तम्। हिरण्यगर्भस्य इदं दार्शनिक-तत्त्वम् उपनिषदि ब्रह्मवादे परिणतम्।

हिरण्यगर्भसूक्ते सन्देहवादः (scepticism)--  हिरण्यगर्भसूक्तस्य प्रतिमन्त्रान्ते उक्तम्-- ʻकस्मै देवाय हविषा विधेम।ʼ केचित् मन्यन्ते यत्, अत्र देवतायाः अस्तित्वे एव सन्देहः प्रकाशितः। बहवः देवाः, तत् कस्मै देवाय परिचरेम? इदं वक्तव्यं न ग्रहणयोग्यम्। यतः अत्र ʻकʼ-शब्देन प्रजापतिः हिरण्यगर्भः एव वोध्यते। उक्तं च सायणाचार्येण-- ʻअत्र किंशब्दोऽनिर्ज्ञात-स्वरूपत्वात् प्रजापतौ वर्ततेʼ इति। अनेन प्रसङ्गेन Winternitz महोदयेन उक्तम्-- ʻ The thought lies hidden that there is nothing in the plurality of gods and that only the one and the only one, the creator Prajapati deserves respect.ʼ

-----

४. ʻसमानि वः आकूतिः समाना हृदयानि वःʼ-- संज्ञानसूक्तस्य विषयं वर्णयित्वा तस्य सामाजिकं गुरुत्वमालोच्यताम्।
उत्तरम्--  ऋग्वेदस्य दशममण्डलस्य अन्तिमं सूक्तं संज्ञानसूक्तम् इति। ऋग्वेदस्य भूयांसि सूक्तानि देवानां स्तुतिविषयकानि, कानिचित् कथोपकथनमूलकानि, कानिचित् दार्शनिक-तत्त्वसम्बलितानि, कानिचित् पुनः धर्मनिरपेक्ष-विषयकानि। संज्ञानसूक्तम् अन्येभ्यः सूक्तेभ्यः भिन्नम्। अस्मिन् सूक्ते आङ्गिरसः संवननः ऋषिः सर्वान् ऐक्यबद्धान् भवितुम् आह्वयति। सूक्तस्य प्रथममन्त्रस्य देवता अग्निः, ततः त्रयाणां मन्त्राणां देवता संज्ञानम् इति।
संज्ञानसूक्तस्य सामाजिकं गुरुत्वम्—
ऋषिः प्रथमं सर्वं प्राणिजातं सम्मिलितं कर्तुम् अग्निदेवं प्रार्थयति—
ʻसंसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ।ʼ-- हे अभीष्ट-फल-प्रदानकारिन् अग्ने, त्वं प्रभुरूपेण सर्वान् प्राणिनः सर्वतोभावेन सम्मिलितान् कुरु।
न कोऽपि एकाकी न जीवितुमर्हति। एकाकिनः मानवस्य शक्तिः निरापत्ता च उभयमेव स्वल्पम्। प्रतिकूलतां जेतुं, सामग्रिक-समृद्धिलाभाय च सर्वैः ऐक्यबद्धैः भवितव्यम्। ऋषिणा अग्निदेवमुद्दिश्य सैव प्रार्थना कृता।
प्रत्येकस्य जनस्य स्वभावः भिन्नः, प्रयोजनं भिन्नम्, उद्देश्यं भिन्नम्, चिन्ता चेतना च भिन्ना भिन्ना। विचित्र-स्वभाव-विशिष्टानां मानवानाम् ऐक्यबद्धकरणं न सहजसाध्यम्। तस्मात् ऋषिः देवतायाः स्तवकारिणः प्रति आह्वानं निवेदयति—
ʻसंगच्छध्वं सं वदध्वं
सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे
संज्ञानना उपासते।।ʼ
हे स्तवकारिणः, यूयं सर्वे मिलित्वा सममेव वदत। युष्माकं मनांसि ऐक्यबद्धानि भवन्तु। ऋषिः भूय आह—
ʻसमानो मन्त्रः समितिः समानी
समानं मनः सह चित्तमेषाम्।ʼ
यज्ञकर्मणि प्रवृत्तानाम् ऋत्विजां मन्त्रोच्चारणम् समानं भवतु, फललाभः अपि समानः भवतु। भवताम् अन्तःकरणं समानं भवतु।
अन्ते च ऋत्विजः यजमानान् च प्रति ऋषिः आह—
ʻसमानी व आकूतिः
समाना हृदयानि वः।
समानमस्तु वो मनः
यथा वः सुसहासति।।ʼ
--भवताम् अभिप्रायः समानः भवतु, भवताम् हृदयानि समानानि भवन्तु, भवतां मनः समानं भवतु। भवतां सौहार्द्यं सुन्दरं भवतु।
समाजतत्त्व-विषये संज्ञानसूक्तम् अतीव गुरुत्वपूर्णम्।
प्रथमतः, अस्मिन् सूक्ते यः उदारनैतिकः भावः परिस्फुटः स तु भारतस्य मर्मवाणी। इतः पूर्वम् अन्यत्र कुत्रापि स्पष्टतया इदं नोक्तम्।
द्वितीयतः, ऋषिः अस्मिन् सूक्ते विश्वमानवानाम् एकम् उदारं मिलनक्षेत्रं प्रतिष्ठापयितुम् आह्वानं कृतवान्। मानवः प्रकृत्या एव स्वाधीनचेताः। तेषु बिभेदः स्वाभाविकः। इदम् अनैक्यं प्रभूतं चेत्तर्हि मानवानाम् अग्रगतिरपि व्याहता भवेत्। एकदा मानवजातिः विनष्टा भवेत्। अतः ऋषिः संवननः सर्वान् ऐक्यबद्धान् भवितुम् आह्वानं कृतवान्। न केवलं वचनेन अपि तु सर्वान्तःकरणेन एव सर्वे ऐक्यबद्धाः भवेयुः।
तृतीयतः, सर्वेषु ऐक्यप्रतिष्ठार्थम् ऋषिवाणी साम्प्रतिक-भोगवादस्य कुप्रभावेन स्वार्थपरायणे बिभेददीर्णे च समाजे शाश्वतीं शान्तिं प्रतिष्ठापयितुमर्हति। ऐकमत्यस्य इयं भावना एव संज्ञानम् इति।

--------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1