ads

ad

C-10, Unit-I, मन्त्रव्याख्या (अग्निसूक्तम्, हिरण्यगर्भसूक्तम्, अक्षसूक्तम्)


C-10, Unit-I, मन्त्रव्याख्या  (अग्निसूक्तम्, हिरण्यगर्भसूक्तम्, अक्षसूक्तम्)

अग्निसूक्तम्—
अग्निमीले पुरोहितं
यज्ञस्य देवमृत्विजम्।
होतारं रत्नधातमम्।। १

          प्रस्तुतोऽयं मन्त्रः ऋग्वेदस्य प्रथममण्डलान्तर्गतात् अग्निसूक्तात् उद्धृतः। अस्य मन्त्रस्य द्रष्टा वैश्वामित्रो मधुच्छन्दा ऋषिः, देवता अग्निः, गायत्रीछन्दश्च। प्रातरनुवाके आग्नेये क्रतौ अस्य सूक्तस्य विनियुक्तत्वात् तत्र एव अयं मन्त्रः विनियुज्यते। अत्र ऋषिः अग्निदेवतायाः माहात्म्यं वर्णयति—अग्निमीले इति।
अहम् अग्निम् अग्निनामकं देवम् ईले स्तौमि इत्यर्थः। मन्त्रस्य होत्रा प्रयोज्यत्वात् अहं होता स्तौमि इति लभ्यते। कीदृशम् अग्निम्? यज्ञस्य पुरोहितम्। यथा राज्ञः पुरोहितः तदभीष्टं सम्पादयति तथा अग्निरपि यज्ञस्य अपेक्षितं होमं सम्पादयति। यद्वा यज्ञस्य सम्बन्धिनि पूर्वभागे आहवनीयरूपेण अवस्थितम्। पुनः कीदृशम्? देवम् दानादिगुणयुक्तम्। पुनः कीदृशम्? होतारम् ऋत्विजम्। देवानां यज्ञे होतृनामक ऋत्विक् अग्निरेव। तथा च ऐतरेयब्राह्मणे-- ʻअग्निर्वै देवानां होता।ʼ पुनरपि कीदृशम्? रत्नधातमम् यागफलरूपाणाम् रत्नानाम् अतिशयेन धारयितारं पोषयितारं वा।
वैदिकयुगे पार्थिववस्तुषु अग्निः प्रधानत्वेन परिगणितः आसीत्। प्रात्यहिके कार्ये यज्ञकर्मणि च अग्नेः समधिकं गुरुत्वमासीत्। अग्निः यज्ञे आहुतिरूपेण प्रदत्तं द्रव्यजातम् अन्येषां देवानां कृते वहति। तद् द्रव्यं गृहीत्वा देवाः तुष्टाः सन्तः यजमानस्य इष्टं साधयति इति विश्वासः प्रचलितः आसीत्। एतदर्थम् अग्निदेवस्य सन्तुष्टिविधानम् आवश्यकम्। अतः ऋषिः उक्तरूपेण अग्निदेवस्य स्तुतिं करोति इति।

अग्निना रयिमश्नवत्
पोषमेव दिवेदिवे।
यशसं वीरवत्तमम्।। ३

ऋक्संहितायाः प्रथममण्डलान्तर्गतस्य अग्निसूक्तस्य तृतीया इयमृक्। अस्याः ऋचः द्रष्टा वैश्वामित्रो मधुच्छन्दा ऋषिः, देवता अग्निः, गायत्रीछन्दश्च। इयमृक् तृतीयेष्टौ प्रथमाज्यभागस्यानुवाक्या। अग्नेः उपासनया कीदृशं फलं लभ्यते तदत्र वर्ण्यते--  अग्निना इति।
यः अयम् होत्रा स्तुतः अग्निः तेन अग्निना निमित्तभूतेन यजमानः रयिम् धनम् अश्नवत् प्राप्नोति। कीदृशम् रयिम्? दिवे दिवे प्रतिदिनम् पुष्यमाणतया वर्धमानमेव न तु कदाचिदपि क्षीयमाणम्। यशसम् दानादिना यशोयुक्तम्। वीरवत्तमम् अतिशयेन पुत्रभृत्यादिपुरुषोपेतम्। सति हि धने पुरुषाः सम्पद्यन्ते।
अस्मिन् मन्त्रे अग्नेः दानशीलतायाः प्रशंसा क्रियते। यजमानेन स्तुतः अग्निः सन्तुष्टः सन् यजमानाय यद् धनं प्रयच्छति तत् कदापि क्षयं न प्राप्नोति, अपि तु प्रतिदिनं वृद्धिं गच्छति। अग्नेः कृपाधन्यः यजमानः यशः लभते, अनुगतैः वीरपरिजनैः सुरक्षितोऽपि जायते इति।
     
अग्ने यं यज्ञमध्वरं
विश्वतः परिभूरसि
स इद्देवेषु गच्छति।। ४

ऋक्संहितायाः प्रथममण्डलान्तर्गतस्य अग्निसूक्तस्य चतुर्थी इयमृक्। अस्याः ऋचः द्रष्टा वैश्वामित्रो मधुच्छन्दाः ऋषिः, अग्निः देवता, गायत्री छन्दश्च। अभिप्लवषडहे मध्यवर्तिषूक्थ्येषु तृतीयसवने मैत्रावरुणस्य ʻअग्ने यं यज्ञमध्वरम्ʼ इत्यादिको वैकल्पिकोऽनुरूपस्तृचः।
अत्र ऋषिः अग्निदेवतामुद्दिश्य स्तौति—हे अग्ने, त्वं यं यज्ञं विश्वतः सर्वतः सर्वासु दिक्षु परिभूः परितः प्राप्तवान् असि, स इत् स एव यज्ञः देवेषु तृप्तिं प्रणेतुं स्वर्गे गच्छति। प्राच्यादि-चतुर्दिगन्तेषु आहवनीय-मार्जालीय-गार्हपत्याग्नीध्रीय-स्थानेषु अग्निः अस्ति। परि-शब्देन होत्रियादिधिष्ण्यव्याप्तिः विवक्षिता। कीदृशं यज्ञम्? अध्वरम् हिंसादिरहितम्। न हि अग्निना सर्वतः पालितं यज्ञं राक्षसादयः हिंसितुं प्रभवन्ति।
ʻअध्वरʼ-शब्दस्य व्याख्याप्रसङ्गेन स्कन्दस्वामिना उक्तम्-- ʻअध्वरशब्दोऽयं यज्ञमित्यनेन पौनरुक्त्यान्न यज्ञनाम। किं तर्हि तद्विशेषणम्। ध्वरतिः हिंसाकर्मा। ध्वरणं हिंसा यस्मिन् नास्ति सोऽध्वरः। यज्ञे हि सर्वस्यानुग्रहो न हिंसा।ʼ
ओल्डेनवार्ग्-महोदयेन उक्तम्-- ʻ Possibly in the designation of the sacrifice as yajña the stress was laid on the element of prayer, praises and adoration; in the designation as a ‘adhvara' on the actual work which was chiefly done by the Adhvajryu.ʼ

अग्निर्होता कविक्रतुः
सत्यश्चित्रस्रवस्तमः।
देवो देवेभिरागमत्।। ५

प्रस्तुतोऽयं मन्त्रः ऋग्वेदस्य प्रथममण्डलान्तर्गतात् अग्निसूक्तात् उद्धृतः। अस्य मन्त्रस्य द्रष्टा वैश्वामित्रो मधुच्छन्दा ऋषिः, देवता अग्निः, गायत्रीछन्दश्च। प्रातरनुवाके आग्नेये क्रतौ अस्य सूक्तस्य विनियुक्तत्वात् तत्र एव अयं मन्त्रः विनियुज्यते। अत्र अग्निदेवतामुद्दिश्य प्रार्थना क्रियते—
अयम् अग्निः देवः अन्यैः देवेभिः देवैः हविर्भोजिभिः सह आगमत् अस्मिन् यज्ञे समागच्छतु। कीदृशोऽग्निः? होता होमनिष्पादकः। कविक्रतुः कविशब्दोऽत्र क्रान्तदचनः। न तु मेधाविनाम। क्रतुः प्रज्ञानस्य कर्मणो वा नाम। ततः क्रान्तप्रज्ञः क्रान्तकर्मा वा। सत्यः अनृतरहितः फलम् अवश्यं प्रयच्छति इति। चित्रश्रवस्तमः श्रूयते इति श्रवः कीर्तिः, अतिशयेन विविधतीर्तियुक्तः।
अस्मिन् मन्त्रे कतिपय-विशेषणेन अग्निः विशिष्यते। स कविक्रतुः, तस्य प्रज्ञा कर्म वा सर्वान् अतीत्य गच्छति। अतः स सर्वदेवानाम् अग्रणीः। प्रज्ञया तथा कर्मकुशलतया स विविध-कीर्तीनाम् अधिकारी। अधिकन्तु स सत्यस्वरूपः। अत्र पार्थिवस्य अग्नेः होमनिष्पादक-रूपस्य मध्ये ऋषिणा ज्योतिर्मयम् अनन्तरूपं दृष्टम्।

उप त्वाग्ने दिवे दिवे
दोषावस्तर्धिया वयम्।
नमो भरन्त एमसि।। ७

ऋक्संहितायाः प्रथममण्डलान्तर्गतस्य अग्निसूक्तस्य सप्तमी इयमृक्। अस्याः ऋचः द्रष्टा वैश्वामित्रो मधुच्छन्दाः ऋषिः, अग्निः देवता, गायत्री छन्दश्च। अग्नीषोमप्रणयने उप त्वाग्ने इत्यादिकोऽनुवचनीयस्तृचः। अत्र अग्निदेवस्य सन्तोषविधानार्थम् उक्तम्--  उप त्वाग्ने इति।
हे अग्ने, वयम् अनुष्ठातारः दिवे दिवे प्रतिदिनम्, दोषावस्तः रात्रावहनि च धिया बुद्ध्या नमो भरन्तः नमस्कारं सम्पादयन्तः उप समीपे त्वा एमसि त्वाम् आगच्छामः। दोषावस्तः दोषाशब्दः रात्रिवाची। वस्तः इति अहर्वाची।
अत्र भाष्यकारैः दोषावस्तः इति पदम् सम्बोधनरूपेण गृहीत्वा अग्नेः विशेषणत्वेन व्याख्यातम्। स्कन्दस्वामिना उक्तम्-- ʻरात्रौ स्वेन ज्योतिषा तमसामाच्छादयितः।ʼ उक्तं च माधवेन-- ʻदोषाया आच्छादयितः। दोषा निशा भवति।ʼ भरतेन उक्तम्-- ʻदोषा रात्रिः तस्य विवासयितः, तमोनाशकेत्यर्थः।ʼ

स नः पितेव सूनवे
ऽग्ने सूपायनो भव।

सटस्वा नः स्वस्तये।। ९
प्रस्तुतोऽयं मन्त्रः ऋग्वेदस्य प्रथममण्डलान्तर्गतात् अग्निसूक्तात् उद्धृतः। अस्य मन्त्रस्य द्रष्टा वैश्वामित्रो मधुच्छन्दा ऋषिः, देवता अग्निः, गायत्रीछन्दश्च। प्रातरनुवाके आग्नेये क्रतौ अस्य सूक्तस्य विनियुक्तत्वात् तत्र एव अयं मन्त्रः विनियुज्यते। अत्र अग्नियजमानयोः सम्पर्कस्थापनाय ऋषिणा प्रार्थना क्रियते--  स नः इति।
ऋषिः प्रार्थयति--  हे अग्ने, स त्वं नः अस्मदर्थं सूपायनो शोभनप्राप्तियुक्तो भव। तथा नः अस्माकं स्वस्तये विनाशराहित्यार्थं सचस्व समवेतो भव। तत्रोभयत्र दृष्टान्तः—यथा सूनवे पुत्रार्थं पिता सुप्राप प्रायेण समवेतो भवति, तद्वत्।
वैदिकयुगे पार्थिववस्तुषु अग्निः प्रधानत्वेन परिगणितः आसीत्। प्रात्यहिके कार्ये यज्ञकर्मणि च अग्नेः समधिकं गुरुत्वमासीत्। अग्निः यज्ञे आहुतिरूपेण प्रदत्तं द्रव्यजातम् अन्येषां देवानां कृते वहति। तद् द्रव्यं गृहीत्वा देवाः तुष्टाः सन्तः यजमानस्य इष्टं साधयति इति विश्वासः प्रचलितः आसीत्। एतदर्थम् अग्निदेवस्य सन्तुष्टिविधानम् आवश्यकम्। अस्य हेतोः ऋषिः अग्निना सह यजमानस्य पितापुत्रयोः सम्पर्कस्थापनाय अग्निं स्तौति। पिता यथो पुत्रहिताय कार्यं करोति तद्वत् अग्निरपि यजमानस्य कृते समवेतः भवतु इति।

       हिरण्यगर्भसूक्तम्

१.  हिरण्यगर्भः समवर्तताग्रे
भूतस्य जातः पतिरेक आसीत्।
स दाधार पृथिवीं द्यामुतेमां
कस्मै देवाय हविषा विधेम।।

ऋग्वेदस्य दशममण्डलान्तर्गतस्य हिरण्यगर्भसूक्तस्य प्रथमा इयमृक्। अस्याः ऋचः द्रष्टा हिरण्यगर्भः ऋषिः, प्रजापतिः देवता, त्रिष्टुप् छन्दश्च। प्रजापतिदेवताके पशुयागे इयम् ऋक् वपाया अनुवाक्यात्वेन होत्रा पठ्यते।
हिरण्यगर्भः हिरण्मयस्य अण्डस्य गर्भभूतः प्रजापतिः हिरण्यगर्भः इति। उक्तं च तैत्तिरीयसंहितायाम्--  ʻप्रजापतिर्वै हिरण्यगर्भःʼ इति। यद् वा हिरण्मयः अण्डः गर्भवद् यस्य उदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भ इत्युच्यते। अग्रे सृष्टेः प्राक् समवर्तत परमात्मनः समजायत। प्रकृतं परमात्मैव हिगरण्यगर्भः तथापि ब्रह्मणः निरुपाधित्वात् हिरण्यगर्भस्य च उपहितत्वात् स उत्पन्न इत्युच्यते।
 स च जातः जातमात्र एव एकः अद्वितीयः सन् भूतस्य विकारजातस्य ब्रह्माण्डादेः सर्वस्य जगतः पतिः ईश्वर आसीत्। न केवलम् एकः पतिरासीत्, अपि तु स हिरण्यगर्भः आधारभूतः सन् पृथिवीम् अन्तरिक्षलोकं द्यां दिवम्, उत अपि च इमाम् अस्माभिः दृश्यमानाम् इमां भूमिं दाधार धारयति इति। अतः एवंविधं हिरण्यगर्भं विहाय कस्मै देवाय हविषा पुरोडाशेन वा विधेम वयम् ऋत्विजः परिचरेम इति। 

य आत्मदा बलदा यस्य विश्व
उपासते प्रशिषं यस्य देवाः।
यस्य छायामृतं यस्य मृत्युः
कस्मै देवाय हविषा विधेम।। २

ऋग्वेदस्य दशममण्डलान्तर्गतस्य हिरण्यगर्भसूक्तस्य अयं द्वितीयः मन्त्रः। अस्य मन्त्रस्य द्रष्टा हिरण्यगर्भः ऋषिः, प्रजापतिः देवता, त्रिष्टुप् छन्दश्च। प्रजापतिदेवताके पशुयागे इयम् ऋक् वपाया अनुवाक्यात्वेन होत्रा पठ्यते।
यः प्रजापतिः आत्मदा आत्मनां दाता। आत्मानो हि सर्वे तस्मात् परमात्मनः उत्पद्यन्ते, यथा अग्नेः सकाशाद् विस्फुलिङ्गाः जायन्ते तद्वत्। यद्वा आत्मनां शोधयिता। बलदाः बलस्य च दाता शोधयिता वा। यस्य प्रशिषं प्रकृष्टं शासनम् आज्ञां विश्वे सर्वे प्राणिनः उपासते प्रार्थयन्ते सेवन्ते वा। तथा देवा अपि यस्य प्रशासनम् उपासते। अपि च अमृतम् अमृतत्वम्। यद्वा मरणं नास्ति अस्मिन् इति अमृतं सुधा। तदपि यस्य प्रजापतेः छाया छायेव वर्ति भवति, मृत्युः यमश्च प्राणापहारी छायेव भवति। तस्मै कस्मै प्रजापतये देवाय हविषा विधेम परिचरेम। अथवा प्रजापतिं विना कस्मै अन्यस्मै देवाय हविषा विधेम।
हिरण्यगर्भः जगतः आत्मभूतः। तेनैव सर्वं परिव्याप्तम्। तस्यैव प्रसादेन सर्वे शारीरिकं तथा मानसिकं बलं लभन्ते। सुखेन स्थातुं सर्वे एव तम् उपासते। तस्य प्रसादे अमृतं मृत्युश्च छायेव वर्तिनी। अत्र ʻकस्मैʼ इति पदेन प्रजापतिः बोध्यः।
            
                

अक्षसूक्तम्—

द्वेष्टि श्वश्रूरप जाया रुणद्धि
न नाथितो विन्दते मर्डितारम्।
अश्वस्येव जरतो वस्न्यस्य
नाहं विन्दामि  कितवस्य भोगम्।। ३

ऋक्संहितायाः दशममण्डलान्तर्गतस्य अक्षसूक्तस्य तृतीया इयमृक्। अस्याः ऋचः कितवः अक्षाश्च देवता, त्रिष्टुप् छन्दश्च। यज्ञे अस्याः ऋचः विनियोगः न दृश्यते। अत्र अक्षक्रीडायाम् आसक्तस्य द्यूतकारस्य मानहीनत्वमुक्तम्—द्वेष्टि इति।
द्यूतकारः कथयति—श्वश्रूः जायायाः माता गृहगतं कितवं द्वेष्टि निन्दति इत्यर्थः। किञ्च जाया भार्या अपरुणद्धि निरुणद्धि। अपि च नाथितः याचमानः कितवः धनं मर्डितारम् धनदानेन सुखयितारं न विन्दते न लभते। इत्थं बुद्ध्या विमृशन् अहं जरतः वृद्धस्य वस्नम् मूल्यं तदर्हस्य अश्वस्य इव कितवस्य भोगं न विन्दामि न लभे।
द्यूतक्रीडा भारतीय-समाजे निन्दनीया आसीत्। यद्यपि इयं राष्ट्रस्वीकृता आसीत् तथापि सज्जनाः सदैव तां निन्दन्ति। अस्मिन् मन्त्रे दृश्यते यत्, द्यूतकारस्य श्वश्रूः तं निन्दति, तस्य भार्या अपि तं वर्जयति। धनं याचित्वा स कस्मादपि न प्राप्नोति। सर्वत्रैव स प्रत्याख्यातः भवति। एवं मानहीनः द्यूतकारः आत्मानं वृद्धेन अश्वेन सह उपमितं कृतवान्। अत्र द्यूतकारस्य मोहभङ्गः वर्णितः।

अन्ये जायां परि मृशन्त्यस्य
यस्यागृधद्वेदने वाज्यक्षः।
पिता माता भ्रातरः एनमाहु-
र्न जानीम नयता बद्धमेतम्।। ४

ऋक्संहितायाः दशममण्डलान्तर्गतस्य अक्षसूक्तस्य चतुर्थी इयमृक्। अस्याः ऋचः कितवः अक्षाश्च देवता, त्रिष्टुप् छन्दश्च। यज्ञे अस्याः ऋचः विनियोगः न दृश्यते। अत्र अक्षक्रीडायाम् हृतसर्वस्वः द्यूतकारः आत्मनः दुर्दशां वर्णयति—अन्ये जायाम् इति।
         द्यूतकारः कथयति—यस्य कितवस्य वेदने धने वाजी बलवान् अक्षः देवः अगृधत् अभिकाङ्क्षां करोति तस्य अस्य कितवस्य जायाम् भार्याम् अन्ये प्रतिकितवः परिमृशन्ति वस्त्रकेशाद्याकर्षणेन संस्पृशन्ति। किञ्च पिता जनकः माता जननी भ्रातरः सहोदराश्च एनम् कितवम् आहुः वदन्ति--  ʻन वयम् अस्मदीयम् एनं जानीमः, रज्ज्वा बद्धमेतं कितवं हे कितवाः यूयं नयत यथेष्टदेशं प्रापयतʼ इति।
अस्मिन् मन्त्रे अक्षक्रीडायां हृतसर्वस्वस्य द्यूतकारस्य दुर्दशा सुष्ठु वर्णिता। द्यूतकारः अक्षक्रीडायां न केवलं सम्पद् अपि तु आत्मसम्मानं तथा पितृमात्रादीनां स्नेहमपि हृतवान्। प्रतिपक्षीयाः द्यूतकाराः तस्य पत्नीमपि परिमृशन्ति। इतः परं किम् असम्मानजनकम् अस्ति? तस्य पिता माता भ्रातरः च परिचयं न रक्षन्ति। आत्मदुर्दशाम् अनुभूय द्यूतकारस्य मोहभङ्गः जातः। सूक्तस्य समाप्तौ दृश्यते यत्, अक्षक्रीडां परित्यज्य द्यूतकारः कृषिकर्मणि मनः निवेशयितुं सर्वान् आह्वयति। 

अक्षास इदङ्कुशिनो नितोदिनो
निकृत्वानस्तपनास्तापयिष्णवः।
कुमारदेष्णा जयतः पुनर्हणो
मध्वा संपृक्ताः कितवस्य बर्हणा।। ७

ऋक्संहितायाः दशममण्डलान्तर्गतस्य अक्षसूक्तस्य सप्तमी इयमृक्। अस्याः ऋचः कितवः अक्षाश्च देवता, त्रिष्टुप् छन्दश्च। यज्ञे अस्याः ऋचः विनियोगः न दृश्यते। अत्र अक्षस्य विनाशकारित्वम् उक्तम्—अक्षास इति।
द्यूतकारः कथयति—  अक्षास इत् अक्षा एव अङ्कुशिनः अङ्कुशयुक्ताः नितोदिनः नितोदवतश्च पुरुषस्य कृषौ प्रवर्तमानस्य निकृत्वानः पराजये निकर्तनशीलाः छेत्तारः वा। तपनाः पराजये कितवस्य सन्तापकाः तापयिष्णवः सर्वस्वहारकत्वेन कुटुम्बस्य सन्तापशीलाश्च भवन्ति। किञ्च जयतः कितवस्य कुमारदेष्णाः धनदानेन धन्यतां लभ्ययन्तः कुमाराणां दातारः भवन्ति। अपि च मध्वा मधुना सम्पृक्ताः प्रतिकितवेन बर्हणा परिवृद्धेन सर्वस्वहरणेन कितवस्य पुनर्हन्तारः भवन्ति।
द्यूतक्रीडायां पराजितस्य द्यूकारस्य समीपम् अक्षाः सन्तापकारकाः। परिजनाः अपि तं पीडयन्ति। यः पुनः जयं लभते तत्समीपम् अक्षाः अपुत्रकेण पुत्रलाभ इव आनन्ददायकाः भवन्ति। पुनरपि अक्षाः प्रथमं जयं दत्त्वा तत्परं सर्वस्वम् अपहृत्य द्यूतकारं विनाशयन्ति। अतः द्यूतक्रीडा सर्वथा परित्यज्या इति अस्य मन्त्रस्य सारः। 

जाया तप्यते कितवस्य हीना
माता पुत्रस्य चरतः क्व स्वित्।
ऋणावा बिभ्यद्धनमिच्छमानो
ऽन्येषामस्तमुप नक्तमेति।। १०   
             
         ऋक्संहितायाः दशममण्डलान्तर्गतस्य अक्षसूक्तस्य सप्तमी इयमृक्। अस्याः ऋचः कितवः अक्षाश्च देवता, त्रिष्टुप् छन्दश्च। यज्ञे अस्याः ऋचः विनियोगः न दृश्यते। अक्षक्रीडायां हृतसर्वस्वस्य द्यूतकारस्य आचरणात् तस्य पत्न्याः मातुस्च सन्तापः, तथा रात्रौ अपि तस्य दुर्दशा अत्र वर्णिता--  जाया तप्यते इति।
क्व स्वित् चरतः निर्वेदात् गच्छतः, कितवस्य जाया भार्या, हीना परित्यक्ता सती तप्यते वियोगसन्तापेन सन्तप्ता भवति। माता जननी अपि, पुत्रस्य क्वापि चरतः कितवस्य सम्बन्धात् हीना पुत्रशोकेन सन्तप्ता भवति। ऋणावा अक्षपराजयात् ऋणवान् कितवः सर्वतो बिभ्यद् धनम् स्तेयजनितम् इच्छमानः कामयमानः अन्येषां ब्राह्मणादीनां अस्तम् गृहम्, नक्तम् रात्रौ उपैति उपगच्छति।
अत्र अक्षक्रीडायाः विषमयं फलं वर्णितम्। द्यूतकारस्य इतस्ततः विचरणात् तस्य पत्नी विच्छेदजनितेन सन्तापेन कष्टम् अनुभवति। तस्य माता अपि पुत्रस्य दुर्दशां दृष्ट्वा तस्य शोकेन कष्टम् अनुभवति। अक्षक्रीडायां पराजितः द्यूतकारः उत्तमर्णात् बिभेति। धनलाभार्थं रात्रौ ब्राह्मणादीनां गृहं चौर्यार्थं गच्छति। अतः अक्षक्रीडां वर्जयित्वा अन्यत् साधुप्रशंसितं कार्यं कुर्यात् इति अस्य मन्त्रस्य सारः।

अक्षैर्मा दीव्यः कृषिमित् कृषस्व
वित्ते रमस्व बहु मन्यमानः।
तत्र गावः कितव तत्र जाया
तन्मे वि चष्टे सवितायमर्यः।। १३

ऋक्संहितायाः दशममण्डलस्य अक्षसूक्तस्य त्रयोदशः अयं मन्त्रः। अत्र कृषिर्देवता, त्रिष्टुप् छन्दश्च। यज्ञे अस्य मन्त्रस्य विनियोगः न दृश्यते। अक्षक्रीडायायां चरमम् अपमानं सहित्वा द्यूतकारस्य बोधोदयः जातः। नवलब्धेन बोधेन स सर्वान् द्यूतकरान् द्यूतक्रीडां परित्यज्य कृषिकर्मणि एव मनः निवेशयितुमाह—अक्षैर्मा दीव्यः इति।
द्यूतकारः अन्यान् द्यूतकरान् प्रति आवेदयति—हे कितव, बहु मन्यमानः मद्वचने विश्वासं कुर्वन् त्वम् अक्षैर्मा दीव्यः द्यूतं मा कुरु। कृषिमित् कृषिमेव कृषस्व कुरु। वित्ते कृष्या सम्पादिते धने रमस्व रतिं कुरु। तत्र कृषौ गावः भवन्ति, तत्र जाया भवति। तदेव धर्मरहस्यं श्रुतिस्मृतिकर्ता सविता सर्वस्य प्रेरकः अयम् दृष्टिगोचरः अर्यः ईश्वरः वि चष्टे विविधम् आख्यातवान्।
प्राचीनभारते कृषिकर्म एव जनानां प्रधानम् अवलम्बनम् आसीत्। कृषिकर्मणि धनलाभः भवति। धनलाभात् जीवने सुखस्वाच्छन्दम् आगच्छति। अक्षक्रीडायां सञ्चितं धनं विनष्टं भवति, जीवनं च क्लेशकरं भवति, द्यूतकारः सर्वेषां निन्दाभाजनं च भवति। अतः द्यूतक्रीडां परित्यज्य साधुप्रशंसितं कृषिकर्म एव कर्तव्यम्। सर्वे यथा एतस्मिन् कर्मणि वर्तेरन्, तदर्थमेव अर्थवादमुखेन उक्तम्--  ʻतन्मे वि चष्टे सवितायमर्यः।ʼ अतः द्यूतक्रीडारूपं निन्दितं कर्म परित्यज्य कृषिकर्मादि-बन्दितं कर्म कुर्यात् इति अस्य मन्त्रस्य सारः।

-------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1