ads

ad

C-10, Unit-II, Vedic Grammar (लुङ्, लेट्)


C-10, Unit-II, Vedic Grammar (लुङ्, लेट्)

. वैदिक-लुङ्पर्याये क्रियारूपनिर्माणं प्रयोगश्च।
उत्तरम्— संस्कृतव्याकरणे दशसु लकारेषु लुङ्-लकारः अन्यतमः। ʻलुङ्ʼ इति सूत्रानुसारेण अतीतकाले धातोरुत्तरं लुङ्-लकारः भवति। पाश्चात्त्य-पण्डितैः लुङ्-लकारः ʻAorist ʼ इत्युक्तः। वैदिक-संस्कृते साधारणभावेन निकटवर्तिनः अतीतकालस्य अर्थे क्रियायाः इदं रूपविशेषं प्रयुक्तम्। क्रियायाः अतीतकालद्योतकस्य अस्य लुङ्-लकारस्य रूप-निर्माणार्थं प्रथमं कानिचिद् विकरणानि धातुना सह संयुज्यन्ते। ततः लङ्-लकारस्य गौणविभक्तयः द्, ताम्, अन् इत्यादयः प्रयुज्यन्ते। ʻलुङ्लङ्लृङ्क्ष्वडुदात्तःʼ इत्यनेन सूत्रेण  अडागमश्य भवति। परन्तु वैदिकसंस्कृते यथा अट्-युक्तस्य तथा अट्-विहीनस्य लुङः प्रयोगः लभ्यते। लोकिकसंस्कृते अट्-युक्तस्य लुङः प्रयोगः नित्यः।
निर्माणगत-वैशिष्ट्यानुसारेण लुङ् (Aorist) द्विधा विभज्यते। यथा—
१. स्-वर्णयुक्तः लुङ् (Sigmatic Aorist), तथा २. स्-वर्णविहीनः लुङ् (Non-sigmatic Aorist)।

१. स्-वर्णयुक्तः लुङ् (Sigmatic Aorist)—
प्रथमप्रकारे स्-वर्णयुक्ते लुङ्-लकारे धातु-प्रत्यययोः मध्ये अकारयुक्तस्य सकारस्य (स), अथवा अकार-विहीनस्य सकारस्य (स्) आगमः भवति। अस्य पुनः चत्वारः भेदाः दृश्यन्ते। यथा—
(क) स-युक्तः लुङ् (sa-Aorist),
(ख)      स्-युक्तः लुङ् (s-Aorist),
(ग) इस्-युक्तः लुङ् (is-Aorist),
  (घ) सिस्-युक्तः लुङ् (sis-Aorist)।

२. स्-वर्णविहीनः लुङ् (Non-sigmatic Aorist)
स्-वर्णविहीनः लुङ् पुनः त्रिधा विभक्तः। यथा—
(क)  अ-युक्तः लुङ् (a-Aorist),
(ख)   धातु-लुङ् (Root-Aorist),
               (ग) अभ्यस्तः लुङ् (Reduplicated Aorist)।

स-युक्तः लुङ्--  अस्मिन् लुङ्-प्रकारे धातुना सह सकारः (स) संयुज्यते। केवलं दशानां धातूनां स-युक्तं रूपं लभ्यते। यथा--  मृज्, यज्, वृज्, क्रुश्, मृश्, स्पृश्, द्विष्, ग्रह्, द्रुह्, रुह् च इति।
उदाहरणम्--  अक्रुक्षत्, अधुक्षत्, अस्पृक्षत् इत्यादीनि।

स्-युक्तः लुङ्-- अस्मिन् लुङ्-प्रकारे धातुना सह ʻस्ʼ इति संयुज्यते। यथा--  अभैष्म, अमंस्त इत्यादीनि।

इस्-युक्तः लुङ्--  अस्मिन् लुङ्-प्रकारे धातुना सह ʻइस्ʼ इति संयुज्यते। यथा--  अशयिष्ट, अकारिषम् इत्यादीनि।

सिस्-युक्तः लुङ्-- अस्मिन् लुङ्-प्रकारे धातुना सह ʻसिस्ʼ इति संयुज्यते। केवलं सप्तसु धातुषु अस्य प्रयोगः दृश्यते। एषां धातूनाम् अन्ते आकारः (आ), नकारः (न्), मकारः (म्) च सन्ति। इमे धातवः—गा, ज्ञा, प्या, या, हा, वन्, रम् चेति।
उदाहरणम्--  अयासिष्टाम्, अज्ञासिष्टाम् इत्यादीनि।   

२. स्-वर्णविहीनः लुङ्—
अ-युक्तः लुङ्—अस्मिन् लुङ्-प्रकारे धातुना सह ʻअʼ इति संयुज्यते। ततः प्रत्ययः संयुज्यते। अस्य प्रयोगः लङ्-लकार इव।   
यथा—अगमत्, अविदत्, अमुचत् इत्यादीनि। अगमत्— अट्—गम् अ त्।
धातु-लुङ्-- अस्मिन् लुङ्-प्रकारे धातुना सह केवलं प्रत्ययः संयुज्यते।
यथा—अभूत्, अस्थात्, अगात् इत्यादीनि।
अभ्यस्तः लुङ्-- अस्मिन् लुङ्-प्रकारे धातोः द्वित्वं क्रियते, ततः द्वित्वकृतेन धातुना सह प्रत्ययः संयुज्यते।
यथा--  अपक्तत् (अट्—पच् पच् त्), अपीपतत्, अचीकरम्, अजीजनत् इत्यादीनि।
कर्मकर्तृवाच्ये धातुलुङः प्रयोगः अपि दृश्यते। यथा--  अक्रि, अकृथाः, अकृत्, अयुजि इत्यादीनि।
सद्यः अतीतकाल एव वैदिक-लुङः विषयः। अयं तु केवलम् एकम् अतीत-समयं निर्दिशति। यथा—ʻप्रति दिवो दुहिता अदर्शिʼ। ब्राह्मणसाहित्ये लुङ् क्वचित् क्वचित् वक्तुः प्रत्यक्षं संघटिताम् काञ्चित् अतीत-क्रियां वोधयति। यथा-- ʻज्योग् वा इयम् उर्वशी मनुष्येषु अवात्सीत्।ʼ क्वचित् पुनः कस्यचित् धर्मीयानुष्ठानस्य फलरूपेण घटितायाः घटमानायाः वा क्रियायाः वोधनार्थं लुङ् प्रयुज्यते। यथा--  ʻपुत्रस्य नाम गृह्णाति, प्रजाम् एवानु सम् अतानीत्।ʼ
वेदे लुङ्मूलस्य आशीर्लिङः प्रयोगवैचित्र्यम् अपि दृश्यते। यथा— ʻसमुपुष्णा गमेमहि।ʼ लिट्-मूलस्य प्रयोगः अपि लभ्यते। यथा—साहसिष्टा।
लौकिक-संस्कृते लुङ्-लकारेण सामान्यः अतीतः द्योत्यते। अस्मिन् विषये पाणिनीयं सूत्रम्--  ʻभूतसामान्ये लुङ्ʼ इति।

------


२. वैदिक-लेट्-लकारः (Vedic Subjunctive)
उत्तरम्— वैदिक-क्रियापर्याये पञ्च भावाः (Moods) सन्ति। एषु अन्यतमः लेट् (Subjunctive)इति। क्रियायाः कञ्चित् विशेषभावं द्योतयितुं लेट्-लकारः प्रयुज्यते। लौकिकसंस्कृते अस्य प्रयागः नास्ति। साधारणभावेन पणबन्धार्थे (अभिप्रायार्थे), औचित्यार्थे, कारणात् कार्यस्य स्वाभाविक-निष्पत्तिः इत्याद्यर्थे लेटः प्रयोगः दृश्यते। केचित् मन्यन्ते यत्, पूर्वम् प्रयोजनार्थे लेट् प्रयुक्तः, परवर्तिनि काले सोऽर्थः विधिलिङ्-लकारे अन्तर्भुक्तः जातः। प्रकृततः लेट्-लिङोः स्वल्प एव प्रभेदः अस्ति। लेटः प्रयोगे क्रियानुष्ठाने कर्तुः पूर्णः अधिकारः अस्ति, परन्तु लिङ्-लकारे नास्ति। लेटः स्वतन्त्रा विभक्तिः नास्ति, लटः विभक्तयः एव प्रयुज्यन्ते। यथा—ति, तस्, अन्ति इत्यादयः परस्मैपदिनः, तथा ते आते अन्ते इत्यादयः आत्मनेपदिनः।

लेटः प्रयोगक्षेत्रम्—
१        वैदिकभाषायां प्रधानवाक्ये लेटः द्विविधः प्रयोगः दृश्यते—
(क) अधिकक्षेत्रे प्रश्नवोधक-वाक्ये लेट् प्रयुज्यते। यथा—ʻकिमु नु वः कृणवाम?ʼ --तवार्थे वयं किं प्रार्थयामः?
(ख) नञर्थकवाक्ये लेटः प्रयोगः। यथा--  ʻ न ता नशन्ति न दभाति तस्करः।ʼ --ते कदापि विनष्टाः न भवन्ति, तस्करः तेषां क्षतिं साधयितुं न शक्नुवन्ति।

आचार्येण पाणिनिना लेटः प्रयोग-विषये कानिचित् सूत्राणि कृतानि। यथा--
     २. लिङर्थे लेट् (३।४।७)--  वेदे विध्यादौ हेतु-हेतुमद्भावादौ धातोः लेट् स्यात्। पाणिनि-व्याकरणे
विधिलिङ् आशीर्लिङ् इति लकारद्वयं ʻलिङ्ʼ इत्यनेन अभिहितम्। अतः वैदिक-प्रयोगार्थं  लेट् इति स्वतन्त्रः लकारः स्वीकृतः।
यथा-- ʻस देवा एह वक्षति।ʼ ʻकुम्भ्यां मा अग्रे विभरासि।ʼ

३   ३.  लेटोऽडाटौ (३।४।९४)—लेटः अट् आट् च एतौ आगमौ स्तः, तौ च पितौ।  प्रथमं धातोः उत्तरं शप्श्यनादि-विकरणात् परम् अट्, आट् चेति आगमद्वयं भवति।
 यथा—करत्, गमत्, कराति, प्रताति, दभाति, बिभरासि इत्यादयः।

      ४.  इतश्च लोपः परस्मैपदेषु (३।४।९७)--  लेटः तिङाम् इकारस्य लोपः वा स्यात् परस्मैपदेषु।
यथा--  अश्नवत्, आगमत्, चरत् इत्यादयः।

५. सिब्बहुलं लेटि (३।१।३४)— धातोः सिप् प्रत्ययः भवति बहुलं लेटि परतः। सिपः स् इति अवशिष्यते।
सिबागमे धातोः स्वरस्य वृद्धिः भवति। यथा— तृ—तारिषत्।  ऋ—अरिषत्।

६.  स उत्तमस्य (३।४।९८)--  लेटः उत्तमपुरुषे वस्, मस् चेति विभक्तिद्वयस्य सकारस्य विकल्पेन लोपः स्यात्।
यथा—करवाव, करवावः। पताम, पतामः।

७. आत ऐ (३।४।९५)—लेटः आकारस्य ʻऐःʼ स्यात्। अर्थात् आते-स्थाने ʻऐतेʼ, आथे-स्थाने ʻऐथेʼ च भवतः। यथा—मादयैते (मादयाते-स्थाने)। परन्तु आडागमे ऐत्वं न भवेत्। यथा—यज् आट् लेट् ते –यजाते। यज् आट् लेट् ति –यजाति।

८. वैताऽन्यत्र (३।४।९९)--  लेटः एकारस्य ऐः स्याद् वा, ʻआत ऐʼ इत्यस्य विषयं विना।
यथा—पशूनाम् ईशै। ग्रहा गृह्यान्तै।

९. उपसंवादाशङ्कयोश्च (३।४।८)—पणबन्धे आशङ्कायां च लेट् स्यात्।
यथा-- ʻअहमेव पशूनामीशै।ʼ त्रिपुरविजये देवैः प्रार्थितस्य रुद्रस्य वचनमिदम्। यदि अहं त्रिपुरं जेष्यामि तदा अहं पशूनां संसारिणाम् ईशिष्ये इति पणः।
ʻनेत् जिह्मायन्त्यो नरकं पतामʼ --नारदेन प्रलोभ्यमानाम् असुरपत्नीनाम् उक्तिरियम्। अत्र नेत् (न इत्) इति समुदितम् अव्ययम् आशङ्काद्योतकम्। भर्तृषु जिह्मायन्त्यः कुटिलम् आचरन्त्यः वयं नरकं पतिष्यामः इति आशङ्का।

-------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1