ads

ad

C-4, Unit-I, Kiratarjunaiyam, Short Questions (2nd Sem, CBPBU)


C-4, Unit-I, Kiratarjunaiyam, Short Questions (2nd Sem, CBPBU)

संक्षिप्तं प्रश्नोत्तरम्—
१. किरातार्जुनीयम् किंजातीयकं काव्यम्? अस्य रचयिता कः?

उत्तरम्--  किरातार्जुनीयम् महाकाव्यश्रेण्याः रचना। अस्य रचयिता महाकविः भारविः।

२. किरातार्जुनीयम् इति काव्ये कति सर्गाः सन्ति?
उत्तरम्-- किरातार्जुनीयम् इति काव्ये अष्टादश  सर्गाः सन्ति।

३.  किरातार्जुनीयम् इति काव्यस्य आख्यानं कस्माद् गृहीतम्?
उत्तरम्-- किरातार्जुनीयम् इति काव्यस्य आख्यानं व्यासदेव-रचितस्य महाभारतस्य वनपर्वणः तथा शिवपुराणात् गृहीतम्।


४. किरातार्जुनीयम् इति काव्यस्य प्रथससर्गस्य नाम किम्?
उत्तरम्-- किरातार्जुनीयम् इति काव्यस्य प्रथससर्गस्य नाम ʻवनेचरागमनम्ʼ ʻदूतसन्देशःʼ वा।

५. किरातार्जुनीयम् इति काव्यं केन शब्देन आरब्धम्? किरातार्जुनीये मङ्गलवाचकः शब्दः कोऽस्ति?
उत्तरम्-- किरातार्जुनीयम् इति काव्यं ʻश्रीःʼ इत्यनेन शब्देन आरब्धम्। किरातार्जुनीये ʻश्रीःʼ इति मङ्गलवाचकः शब्दः अस्ति।

६. किरातार्जुनीयम् इति काव्यस्य प्रथमसर्गः केन छन्दसा विरचितः?
उत्तरम्-- किरातार्जुनीयम् इति काव्यस्य प्रथमसर्गः वंशस्थविल-छन्दसा विरचितः। प्रथमसर्गस्य अन्तिमः श्लोकः मालिनीछन्दसा रचितः।

७. भारविः कस्य हेतोः प्रसिद्धः?
उत्तरम्—भारविः अर्थगौरवाय प्रसिद्धः। अतः केनचित् समीक्षकेण उक्तम्-- ʻभारवेरर्थगौरवम्ʼ इति।

८. किरातार्जुनीयम् इति काव्यस्य प्रसिद्धः टीकाकारः कः? तस्य टीकायाः नाम लिक्यताम्।
उत्तरम्-- किरातार्जुनीयम् इति काव्यस्य प्रसिद्धः टीकाकारः मल्लिनाथः। तस्य टीकायाः नाम ʻघण्टापथःʼ इति।




९. केन कथं वनेचरः नियुक्तः?
उत्तरम्—दुर्योधनस्य राजलक्ष्मी-प्रतिष्ठायाः मूलस्वरूपं प्रजाः प्रति तस्य व्यवहारविषये तथा प्रजाकल्याणाय तस्य उद्योगविषये तथ्यसंग्रहाय महाराजः युधिष्ठिरः वनेचरं नियुक्तवान्।

१०. ʻवनेचरःʼ इति शब्दस्य अर्थः लिख्यताम्।
उत्तरम्-- वने चरति इति वनेचरः किरातः। ʻभेदाः किरात-शबर-पुलिन्दाः म्लेच्छजातयःʼ इत्यमरः।

११. ʻस वर्णिलिङ्गी समाययौ।ʼ
--अत्र ʻवर्णिलिङ्गीʼ इत्यस्य शब्दस्य कोऽर्थः? अत्र ʻवर्णिलिङ्गीʼ इत्यनेन कोऽभिहितः?
उत्तरम्—वर्णः ब्रह्मचर्यम् अस्य अस्ति इति वर्णिन्, वर्णिनः लिङ्गं चिह्नम् इति वर्णिलिङ्गम्, वर्णिलिङ्गम् अस्य अस्य अस्ति इति वर्णिलिङ्गी ब्रह्मचारिवेषधारी इत्यर्थः। अत्र ʻवर्णिलिङ्गीʼ इत्यनेन वनेचरः अभिहितः।

१२. वनेचरः युधिष्ठिरेण सह कुत्र मिलितः?
उत्तरम्—वनेचरः युधिष्ठिरेण सह द्वैतवने मिलितः।

१३. राज्ञः हितैषिभिः कथम् आचरितव्यम्?
उत्तरम्—राज्ञः हितैषिणः कदापि प्रियम् मृषा च न वक्तव्या-- ʻन हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणःʻ।

१४. के कथं चारचक्षुषः उच्यन्ते?
उत्तरम्—राजानः चारचक्षुषः उच्यन्ते, यतः ते विश्वस्तैः चरैः स्वराष्ट्रस्य परराष्ट्रस्य च वृत्तान्तं पश्यन्ति जानन्ति इति। उक्तं च-- ʻचारैः पश्यन्ति राजानःʼ इति।

१५. जगति किंप्रकारकं वाक्यं दुर्लभम्?
उत्तरम्-- जगति हितकरं प्रियं च वाक्यं दुर्लभम्। वनेचरेण उक्तम्-- ʻहितं मनोहारि च दुर्लभं वचःʼ इति।

१६. ʻन बाधतेऽस्य त्रिगणः परस्परम्ʼ-- केन कं प्रति इदमुक्तम्? ʻत्रिगणःʼ इति शब्दस्य कोऽर्थः? कस्य विषये इदमुक्तम्?
उत्तरम्— युधिष्ठिरं प्रति वनेचरेण इदमुक्तम्। धर्मः, अर्थः, कामश्चेति एतत्त्रयं एकत्रं ʻत्रिवर्गःʼ इत्युच्यते। दुर्योधन-विषये इदमुक्तम्।

१७. ʻकृतारिषड्वर्गजयेन मानवीम्--ʼ --अत्र ʻअरिषड्वर्गःʼ इत्यस्य कोऽर्थः?
उत्तरम्-- कामः, क्रोधः, लोभः, मोहः, मदः, मात्सर्यं चेति षण्णाम् अन्तःशत्रूणां समवायः एव ʻअरिषड्वर्गःʼ इत्युच्यते।

१८. किंसखा कः? किम्प्रभुः वा कः?
उत्तरम्—कुत्सितः सखा किंसखा मन्दबन्धुः इत्यर्थः। यः प्रभुं हितं न शास्ति स किंसखा। कुत्सितः प्रभुः किम्प्रभुः मन्दप्रभुः इत्यर्थः। यः प्रभुः हितैषिणः उपदेशं न गृह्णाति स किम्प्रभुः इति।

१९. ʻक्व भूपतीनां चरितं क्व जन्तवःʼ-- कं प्रति केन इदमुक्तम्? अत्र द्वयोः क्व-शब्दयोः तात्पर्यं किम्?
उत्तरम्— वनेचरः युधिष्ठिरं प्रति इदमुक्तवान्। द्वौ क्व-शब्दौ महदन्तरं सूचयतः। अत्र क्व-शब्दद्वयं राजचरित-साधारणजनयोः मध्ये महत् पार्थक्यं प्रकाशयति।

२०. ʻनिगूढतत्त्वं नयवर्त्म विद्विषाम्।ʼ -- अत्र ʻनयवर्त्मʼ इत्यनेन किं वोध्यते?
उत्तरम्-- अत्र ʻनयवर्त्मʼ इत्यनेन सन्धिः, विग्रहः, यानम्, आसनम्, द्वैधीभावः, संश्रयश्चेति षाड्गुण्यस्य प्रयोगः वोध्यते।

२२. ʻतथापि जिह्मः भवज्जिगीषयाʼ-- केन कं प्रति इदमुक्तम्? ʻजिह्मःʼ इति शब्दस्य कोऽर्थः? अत्र कः ʻजिह्मःʼ इत्यनेन अभिहितः?
उत्तरम्—भारवेः किरातार्जुनीयम् इति काव्ये वनेचरः युधिष्ठिरं प्रति इदमुक्तवान्। ʻजिह्मःʼ इति शब्दस्य अर्थः वञ्चकः प्रतारकः वा। अत्र ʻजिह्मःʼ इत्यनेन दुर्योधनः अभिहितः।

२३. दुर्योधनः कथं धर्मविप्लवं निवारयति?
उत्तरम्—दुर्योधनः गुरूपदिष्टेन दण्डेन शत्रौ पुत्रेऽपि  वा धर्मविप्लवं निवारयति।

२४. ʻअहो दुरन्ता बलवद्विरोधिताʼ-- केन कं प्रति कस्य विषये इदमुक्तम्?
उत्तरम्—भारवेः किरातार्जुनीयम् इति काव्ये वनेचरः युधिष्ठिरं प्रति दुर्योधन-विषये इदमुक्तवान्।

२५. ʻआखण्डलसूनुःʼ इति शब्दस्य कोऽर्थः?
उत्तरम्-- ʻआखण्डलʼ इत्यस्य अर्थः ʻइन्द्रःʼ, सूनु-शब्दस्य अर्थः पुत्रः। अतः ʻआखण्डलसूनुःʼ इति शब्दस्य अर्थः ʻइन्द्रस्य पुत्रः, अर्थात् तृतीयपाण्डवः अर्जुनः। अर्जुनः इन्द्रपुत्रः इत्यभिधीयते।

२६. धनञ्जयः कः? कथं स एवमुच्यते?
उत्तरम्—तृतीय-पाण्डवस्य अर्जुनस्य अपरं नाम धनञ्जयः इति। एकदा अर्जुनः दिग्विजयकाले बाहुबलेन उत्तरकुरुराज्यं जित्वा युधिष्ठिराय स्वर्ण-रौप्यादि प्रभूतं धनम् उपहाररूपेण अयच्छत्। तस्मात् स धनञ्जयः इत्युच्यते।

२७. क आसीत् वृकोदरः? कथं स एवमुच्यते?
उत्तरम्—द्वितीयः पाण्डवः भीमसेनः वृकोदरः इत्युच्यते। भीमस्य उदरं वृकस्य उदरम् इव स्थूलमासीत्। अतः स वृकोदरः इत्युच्यते।
मतान्तरे—भीमस्य उदरे वृकः इति नामकः अग्निः आसीत्। तेन अतिभोजनेऽपि तस्य परिपाकक्रिया सुष्ठु प्रचलति स्म। अतः स वृकोदरः इत्युच्यते।

२८. ʻप्रवृत्तिसाराः खलु मादृशां गिरःʼ -- कं प्रति केन इदमुक्तम्? अस्य श्लोकोंशस्य कोऽर्थः?
उत्तरम्-- भारवेः किरातार्जुनीयम् इति काव्ये वनेचरः युधिष्ठिरं प्रति इदमुक्तवान्।
 वनेचरः अपरस्य गुप्तवार्ता-संग्राहकः। स केवलं स्वप्रभुं युधिष्ठिरं सर्वं वार्ताजातं निवेदयितुमर्हति, परन्तु प्रतिकर्तुं न समर्थः—अयमेव अस्य श्लोकांशस्य अर्थः।

२९. ʻजटाधरः सन् जुहुधीह पाबकम्ʼ।-- कस्येयमुक्तिः? कं प्रति इदमुक्तम्?
उत्तरम्-- भारवेः किरातार्जुनीयम् इति काव्ये द्रौपद्याः उक्तिरियम्। सा युधिष्ठिरं प्रति इदमुक्तवती।

३०. व्रजन्ति ते मूढधियं पराभवं, भवन्ति ये मायाविषु न मायिनः।ʼ
-- कं प्रति कस्येयमुक्तिः? के तावत् मूढधियः?
उत्तरम्-- भारवेः किरातार्जुनीयम् इति काव्ये द्रौपद्याः उक्तिरियम्। सा युधिष्ठिरं प्रति इदमुक्तवती।
ये खलु जनाः शठान् प्रति शठाचरणं न कुर्वन्ति ते मूढधियः पराभवं प्रप्नुवन्ति।


३१. ʻविचित्ररूपाः खलु चित्तवृत्तयः।ʼ
-- कं प्रति कस्येयमुक्तिः?
उत्तरम्-- भारवेः किरातार्जुनीयम् इति काव्ये द्रौपद्याः उक्तिरियम्। सा शत्रोः दुर्योधनस्य अभ्युदयवार्तां श्रुत्वापि युधिष्ठिरस्य निर्विकार-चित्ततां दृष्ट्वा तदसहमाना युधिष्ठिरं प्रति इदमुक्तवती।

३२. दुर्योधनः कथं सामदानाद्युपाय-चतुष्टय-प्रयोगेन सफलः जातः?
उत्तरम्--  दुर्योधनः यथोपयुक्त-विवेचनापूर्वकं महता सत्कारेण साम, दानं, भेदः, दण्डश्चेति  उपायचतुष्टयस्य प्रयोगं कृतवान्। तस्य फलस्वरूपं राज्यस्य अर्थसम्पद् प्रभुतं वृद्धिं प्राप्ता। तस्य राजकोषः अधुना समृद्धः। एवं दुर्योधनः सफलः जातः।

३३. भारवेः किरातार्जुनीयम् इति काव्ये दुर्योधनः केन नाम्ना अभिहितः?
उत्तरम्-- भारवेः किरातार्जुनीयम् इति काव्ये दुर्योधनः ʻसुयोधनःʼ इति नाम्ना अभिहितः।

३४. किं खलु द्वैतवनम्?
उत्तरम्—महाभारतस्य वनपर्वणः विवरणानुसारेण  द्वैतवनम्  एकः सरोवरः। वस्तुतः इदं सरस्वतीनद्याः अंशविशेषम्, न तु कृत्रिमः सरोवरः। द्वैतवनम् एकं तीर्थस्थानम् आसीत्। तत्र बहवः ऋषयः वसन्ति स्म। बलरामः अपि तीर्थयात्राकाले तत्रागतः। कपटद्यूतक्रीडायां हृतसर्वस्वः युधिष्ठिरः यदा द्वैतवने वसति स्म, तदा दुर्योधनस्य राज्यशासनवृत्तान्तं वेदितुं वनेचरं नियुक्तवान्।
----

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

3rd Sem, SEC-1, Usage of words in day-to-day life-1

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—