ads

ad

संक्षिप्तं प्रश्नोत्तरम् (C-8, Unit-I, History of Vedic Literature)


संक्षिप्तं प्रश्नोत्तरम् (C-8, Unit-I, History of Vedic Literature)

१. क उच्यते वेदः? तस्य कति भेदाः?
उत्तरम्--  विद् धातोः अच्-प्रत्ययेन ʻवेदʼ इति शब्दः निष्पन्नः। अस्यार्थः—ज्ञानम् परमज्ञानं वा। आपस्तम्ब-मतानुसारं-- ʻमन्त्रब्राह्मणयोर्वेदनामधेयम्ʼ इति। सायणाचार्येण उक्तम्-- ʻमन्त्रब्राह्मणात्मकः शब्दराशिर्वेदःʼ इति।
चत्वारः वेदाः। यथा—ऋक्, साम, यजुः, अथर्वश्चेति।
एषां वेदानां पुनः चत्वारः भेदाः सन्ति। यथा—मन्त्रः, ब्राह्मणम्, आरण्यकम्, उपनिषद् चेति।

२. वेदस्य प्रतिशब्दान् लिखत।
उत्तरम्--  वेदस्य प्रतिशब्दाः यथा—श्रुतिः, त्रयीविद्या (त्रयी), आगमः, छन्दस् इत्यादयः।

३. वेदस्य संकलनकर्ता तथा विभागकर्ता कः?
उत्तरम्-- वेदस्य संकलनकर्ता तथा विभागकर्ता महर्षिः कृष्णद्वेपायनः वेदव्यासः।

४. ऋक्-शब्दस्य कोऽर्थः?
उत्तरम्—स्तुत्यर्थक-ऋच्-धातोः ऋक्-शब्दः निष्पण्णः. अस्यार्थः—स्तुतिकरणम्। देवतानां स्तुतिरेव ऋक्। जैमिनिना उक्तम्-- ʻतेषामृक् यत्रार्थवशेन पादव्यवस्था।ʼ अर्थात् पादबद्धाः, छन्दोबद्धाः पूर्णार्थप्रकाशकाः मन्त्रा एव ऋक् इति।

५. किमुच्यते साम?
उत्तरम्-- ʻगीतिषु सामाख्याʼ। ऋचां ये तावत् मन्त्राः गानयोग्याः ते साम इत्युच्यते।
६. किमुच्यते यजुः?

उत्तरम्-- ʻशेषे यजुःशब्दः।ʼ ऋग्भ्यः सामभ्यः भिन्नाः मन्त्राः यजुः इत्युच्यते।
७. का खलु सर्वप्राचीना वेदिक-संहिता?

उत्तरम्-- सर्वप्राचीना वेदिक-संहिता खलु ऋक्संहिता।
८. ऋग्वेदस्य भागान् लिखत।
उत्तरम्—ऋग्वेदस्य अनुष्ठानोपयोगी तथा अध्ययनोपयोगी इति भागद्वयमस्ति। अनुष्ठानोपयोगी भागः यथा--  मण्डलम्, अनुवाकः, सूक्तम्, ऋक् चेति। अध्ययनोपयोगी भागः यथा—अष्टकम्, अध्यायः, वर्गः मन्त्रश्चेति।

९. ऋग्वेदे कति मण्डलानि, अनुवाकाः, सूक्तानि मन्त्राश्च सन्ति?
उत्तरम्--   ऋग्वेदे १० मण्डलानि, ८५ अनुवाकाः, १०१७ सूक्तानि, १०६०० मन्त्राश्च सन्ति।

१०. ऋग्वेदस्य कति शाखाः सन्ति?
उत्तरम्-- ऋग्वेदस्य शाखाद्वयम् अस्ति। यथा—शाकलशाखा वास्कलशाखा चेति।

११. ऋग्वेदस्य प्राचीनतमः भाष्यकारः कः?
उत्तरम्-- ऋग्वेदस्य प्राचीनतमः भाष्यकारः यास्काचार्यः इति केचित् मन्यन्ते। केचित् पुनः स्कन्दस्वामी ऋग्वेदस्य प्राचीनतमः भाष्यकारः इति मन्तन्ते।

१२. व्राह्मणस्य व्युत्पत्तिगतः अर्थः लिख्यताम्।
उत्तरम्--  व्राह्मणस्य अर्थः-- वेदिकमन्त्राणां व्याख्या, तथा यज्ञकर्मणि तेषां प्रयोगः। ब्राह्मण-पुरोहितानाम् यागसम्पर्कितं व्याख्यानमेव ब्राह्मणम्। आचार्येण दयानन्द-सरस्वती-महोदयेन उक्तम्-- ʻचतुर्वेदविद्भिः ब्रह्मभिर्ब्राह्मणैः महर्षिभिः प्रोक्तानि यानि वेदव्याख्यानानि तानि ब्राह्मणानि।ʼ पतञ्जलिना उक्तम्-- ʻसमानार्थावेतौ ब्रह्मण्शब्दो ब्राह्मणशब्दश्च।ʼ

१३. के तावद् ब्राह्मणस्य आलोच्यविषयाः?
उत्तरम्—आपस्तम्ब-मतानुसारं ब्राह्मणस्य षट् आलोच्यविषयाः। यथा--  विधिः, अर्थवादः, निन्दा, प्रशंसा, पुराकल्पः, परकृतिश्चेति।

१४. ऋग्वेदस्य / सामवेदस्य / यजुर्वेदस्य / अथर्ववेदस्य ब्राह्मणानां नामानि लिखत।
उत्तरम्— ऋग्वेदस्य द्वे ब्राह्मणे--  ऐतरेयब्राह्मणम्, कौषीतकिब्राह्मणम् चेति।
सामवेदस्य ब्राह्मणानि—आचार्येण कुमारिलभट्टेन ʻतन्त्रवार्तिकम्ʼ इति ग्रन्थे सामवेदस्य अष्टानां ब्राह्मणानाम् उल्लेखः कृतः। सायणाचार्यस्य मतानुसारं तानि यथा—
१. ताण्डमहाब्राह्मणम् पञ्चविंशब्राह्मणं वा, २. षड्विंशब्राह्मणम्, ३. छान्दोग्यब्राह्मणम्,
४. जैमिनीयब्राह्मणम्, ५. सामविधानब्राह्मणम्, ६. देवताध्यायब्राह्मणम्, ७. आर्षेयब्राह्मणम्,
८. वंशब्राह्मणम् चेति।
कृष्णयजुर्वेदस्य ब्राह्मणानि यथा--  कठब्राह्मणम्, मैत्रायणीब्राह्मणम्, तैत्तिरीयब्राह्मणम् चेति।
शुक्लयजुर्वेदस्य ब्राह्मणम्--  शतपथब्राह्मणम्।
अथर्वेदेदस्य ब्राह्मणम्--  गोपथब्राह्मणम् इति।

१५. ऋग्वेदस्य / सामवेदस्य / यजुर्वेदस्य / अथर्ववेदस्य उपनिषदां नामानि लिखत।
उत्तरम्-- ऋग्वेदस्य उपनिषद्द्वयमस्ति। यथा—ऐतरेयोपनिषद्, कौषीतक्योपनिषद् चेति।
सामवेदस्य उपनिषद्द्वयमस्ति। यथा— छान्दोग्योपनिषद् केनोपनिषद् चेति।
कृष्णयजुर्वेदस्य पञ्च उपनिषदः सन्ति। यथा--  महानारायणोपनिषद्, मैत्रायणोपनिषद्, तैत्तिरीयोपनिषद्, कठोपनिषद्, श्वेताश्वतरोपनिषद् चेति।
शुक्लयजुर्वेदस्य उपनिषद्द्वयमस्ति। यथा— बृहदारण्यकोपनिषद्, ईशोपनिषद् चेति।
अथर्ववेदस्य तिस्रः उपनिषदः सन्ति। यथा—मुण्डकोपनिषद्, माण्डुक्योपनिषद्, प्रश्नोपनिषद् चेति।

१६. वेदे पूजितानां देवतानां काः तावत् मुख्याः देवताः?
उत्तरम्-- वेदे पूजितानां देवतानां मुख्याः देवताः तिस्रः। यथा—अग्निः वायुः इन्द्रः वा, सूर्यश्चेति।
तासु देवतासु अग्निः पृथिवीस्थानस्य देवता, वायुः इन्द्रः वा अन्तरिक्षस्थानस्य देवता, तथा सूर्यः द्युस्थानस्य (स्वर्गलोकस्य) देवता इति।

१७. कति वेदाङ्गानि? तेषां नामानि लिखत।
उत्तरम्—वेदाङ्गानि षट्। यथा—शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, छन्दः ज्योतिषम् चेति।

१८. वेदपाठस्य कतिविधाः ऋतयः प्रचलिताः आसन्?
उत्तरम्—वैदिकयुगे वेदपाठस्य एकादशविधाः ऋतयः प्रचलिताः आसन्। यथा—संहितापाठः, पदपाठः, क्रमपाठः, जटापाठः, मालापाठः, शिखापाठः, लेखापाठः, ध्वजपाठः, दण्डपाठः, रथपाठः, घनपाठश्चेति।

१९. वैदिक-स्वराणां नामानि लिखत।
उत्तरम्—वेदे साधारणतः त्रयाणां स्वराणां प्रयोगः दृश्यते। ते च--  उदात्तः, अनुदात्तः स्वरितश्चेति।
आचार्येण पाणिनिना स्वराणां लक्षमं कृतम्—१. उच्चैरुदात्तः, २. नीचैरनुदात्तः, ३. समाहारः स्वरितः।
स्वरितस्वरात् परम् अनुदात्तस्वरः प्रचयः इत्युच्यते।

२०. निरुक्तस्य रचयिता कः? अस्य ग्रन्थस्य कति काण्डानि?
उत्तरम्—ऋषिः यास्कः निरुक्तस्य रचयिता। निरुक्तस्य त्रीणि काण्डानि। यथा—नैघण्टुककाण्डम्, नैगमकाण्डम्, दैवतकाण्डम् चेति।

२१. व्याकरणपाठस्य कानि मुख्यानि प्रयोजनानि?
उत्तरम्—व्याकरणस्य पञ्च मुख्यानि प्रयोजनानि। उक्तं च आचार्येण वररुचिना-- ʻरक्षोहागमलघ्वसन्देहाः प्रयाजनम्।ʼ अर्थात् वेदरक्षा, ऊहः, आगमः, लघुत्वम्, असन्देहः चेति व्याकरणपाठस्य मुख्यानि प्रयोजनानि।

२२. ऋग्वेदस्य / सामवेदस्य / यजुर्वेदस्य / अथर्ववेदस्य पुरोहितस्य नाम लिख्यताम्।
उत्तरम्-- ऋग्वेदस्य पुरोहितः होता, सामवेदस्य पुरोहितः उद्गाता, यजुर्वेदस्य पुरोहितः अध्वर्युः,
अथर्ववेदस्य पुरोहितः आथर्वन् इति।
ऋक्-साम-यजुः इति त्रिवेदविद् पुरोहितः ब्रह्मा इत्युच्यते।

२३. वैदिकयुगे प्रचलितानां मुख्यानां यागानां नामानि लिखत।
उत्तरम्—वैदिकयुगे पञ्च मुख्याः यागाः प्रचलिताः आसन्। ते यथा--  होमः, इष्टियागः, पशुयागः, सोमयागः, सत्रयागश्चेति।
उक्तेषु योगेषु अन्ये यागाः अन्तर्भुक्ताः आसन्। यथा--  अग्निहोत्रयागः, दर्शपूर्णमासः, अग्निष्टोमयागः, ज्योतिष्टामयागः, अतिरात्रयागः, महाब्रतयागः इत्यादयः।

२४. ऋग्वेदस्य / सामवेदस्य / यजुर्वेदस्य / अथर्ववेदस्य मुख्यानां भाष्यकाराणां नामानि लिखत।
उत्तरम्-- ऋग्वेदस्य मुख्याः भाष्यकाराः--  स्कन्दस्वामी, नारायणः, उद्गीथः, वेङ्कटमाधवः, आनन्दतीर्थः, सायणाचार्यः, मुद्गलः, स्वामी दयानन्दः सरस्वती प्रमुखाः।
 सामवेदस्य मुख्याः भाष्यकाराः--  माधवः, भरतस्वामी, सायणाचार्यः प्रमुखाः।
कृष्णयजुर्वेदस्य मुख्याः भाष्यकाराः--  भवस्वामी, भट्टभास्करः, सायणाचार्यः वेङ्कटेशः प्रमुखाः।
शुक्लयजुर्वेदस्य मुख्याः भाष्यकाराः--  शौनकः, उवटः, महीधरः, स्वामी दयानन्दः सरस्वती प्रमुखाः।
 अथर्ववेदस्य मुख्यः भाष्यकारः सायणाचार्यः।

२५. ऋग्वेदस्य कतिपय-धर्मनिरपेक्षसूक्तानां / दार्शनिकसूक्तानां / संवादसूक्तानां नामानि लिखत।
उत्तरम्—ऋग्वेदस्य उल्लेखयोग्यानि धर्मनिरपेक्षसूक्तानि यथा--  अक्षसूक्तम्, सूर्यासूक्तम्, संवादसूक्तानि, मण्डूकसूक्तम्, अरण्यानीसूक्तम्, दानस्तुतिमूलकं सूक्तम् इति।
ऋग्वेदस्य उल्लेखयोग्यानि दार्शनिकसूक्तानि यथा--  हिरण्यगर्भसूक्तम्, नासदीयसूक्तम्, पुरुषसूक्तम्, देवीसूक्तम् इति।
ऋग्वेदस्य उल्लेखयोग्यानि संवादसूक्तानि यथा--  अगस्त्य-लोपामुद्रासंवादः, यम-यमीसंवादः, पुरूरवा-उर्वशीसंवादः, सरमा-पणिसंवादः, वृषाकपिसूक्तम् इति।

२६. बृहद्देवतायाः / सर्वानुक्रमण्याः रचयिता कः?
उत्तरम्— बृहद्देवता इति ग्रन्थस्य रचयिता महर्षिः शौनकः। सर्वानुक्रमणी इति ग्रन्थस्य रचयिता महर्षिः कात्यायनः।

२७. ऋग्वेदस्य कतिपय-गीतिकविता-विषयकसूक्तानां नामानि लिखत।
उत्तरम्-- ऋग्वेदस्य मुख्यानि गीतिकविता-विषयकसूक्तानि यथा—ऊषस्-सूक्तम्, पर्जन्यसूक्तम्, मरुत्सूक्तम्, मण्डूकसूक्म् इत्यादीनि।

२८. ऋग्वेदस्य कानि मण्डलानि ʻपारिवारिक-मण्डलानि (Family Books) इत्युच्यन्ते? एषां मण्डलानाम् ऋषीणां नामानि लिखत।
उत्तरम्--  ऋग्वेदस्य द्वितीयतः अष्टममण्डलपर्यन्तं सप्तसु मण्डलेषु सप्तसु ऋषिकुलेषु दृष्टाः मन्त्राः सन्निविष्टाः। अतः एतानि सप्त मण्डलानि ʻपारिवारिक-मण्डलानि (Family Books) इत्युच्यन्ते।
एषां मण्डलानाम् द्रष्टारः ऋषयः यथा—
द्वितीयमण्डलस्य ऋषिः गृत्समदः, तृतीयमण्डलस्य ऋषिः विश्वामित्रः, चतुर्थमण्डलस्य ऋषिः वामदेवः, पञ्चममण्डस्य ऋषिः अत्रिः, षष्ठमण्डलस्य ऋषिः भरद्वाजः, सप्तममण्डलस्य ऋषिः वशिष्ठः, अष्टममण्डलस्य ऋषिः कण्वः इति।

२९. वेदे प्रयुक्तानां मुख्यानां छन्दसां नामानि लिखत।
उत्तरम्--  वेदे प्रयुक्तानि सप्त मुख्यानि  छन्दांसि यथा--  गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पङ्क्तिः, त्रिष्टुप्, जगती चेति।

३०. वैदिकयुगस्य मुख्यानाम् अध्यापिकानां नामानि लिखत।
उत्तरम्—वैदिकयुगस्य मुख्याः नार्यः अध्यापिकाः यथा--  आपिशाला, औदमेधा, काशकृत्स्न ब्राह्मणी प्रमुखाः।

३१. वैदिकयुगे कतिपय-मन्त्रद्रष्ट्रीणां ऋषीणां नामानि लिखत।
उत्तरम्--  वैदिकयुगे मन्त्रद्रष्टा ऋषिवत् कतिपय-मन्त्रद्रष्ट्रीणां ऋषीणां नामानि अपि लभ्यन्ते। तासु उल्लेखयोग्याः--  विश्ववारा, रोमशा, लोपामुद्रा, अम्भृणी वाक्, पौलोमी, काक्षीवती घोषा, जरिता, श्रद्धा कामायनी प्रमुखाः।

३२. भूलोकस्य / द्युलोकस्य / अन्तरीक्षस्य कतिपय-देवतानां नामानि लिखत।
उत्तरम्--  भूलोकस्य मुख्या देवता अग्नि। अन्याः देवताः—अप्, पृथिवी, सोमः इति।
अन्तरीक्षलोकस्य मुख्या देवता वायुः इन्द्रः वा। अन्याः देवताः--  रुद्रः, मरुत्, अपां नपात्, पर्जन्यः प्रमुखाः।
द्युलोकस्य मुख्या देवता सूर्यः। अन्याः देवताः--  मित्रः, वरुणः, पूषा, उषा, सविता, आदित्यः, अश्वियुगलम्, रात्रिः प्रमुखाः।

३३. अग्निदेवतायाः नामान्तराणि लिखत।
उत्तरम्—भूलोकस्य मुख्या देवता अग्निः। तस्य नामान्तराणि यथा—वैश्वानरः, जातवेदाः, नाराशंसः, सुसमिद्धः इत्यादीनि।

३४. शुक्लयजुर्वेदस्य / कृष्णयजुर्वेदस्य संहितायाः नाम लिख्यताम्।
उत्तरम्-- शुक्लयजुर्वेदस्य संहितायाः नाम वाजसनेयी संहिता। कृष्णयजुर्वेदस्य संहितायाः नाम तैत्तिरीयसंहिता।

३५. किमुच्यते प्रातिशाक्यम्? ऋक्प्रातिशाख्यस्य रचयिता कः?
उत्तरम्--  येषु ग्रन्थेषु वेदस्य व्याकरणविधिः, उच्चारणप्रक्रियाः च सन्ति ते प्रातिशाख्यम् इत्युच्यन्ते।
ऋक्प्रातिशाख्यस्य रचयिता महर्षिः शौनकः।

३६. किमुच्यते सूक्तम्?
उत्तरम्--  सु उक्तम् इति सूक्तम्। देवतानां स्तुतिमूलकं प्रशस्तिमूलकं वा शोभनम् उक्तिजातमेव सूक्तम् इत्युच्यते। महर्षिः शौनकः बृहद्देवताग्रन्थे आह-- ʻसम्पूर्णमृषिवाक्यं तु सूक्तमित्यभिधीयते।ʼ

३७. किमुच्यते महासूक्तम्?
उत्तरम्--  यस्मिन् सूक्ते दशाधिकाः ऋचः (मन्त्राः) सन्ति तत् महासूक्तम् इत्युच्यते।

३८. किमुच्यते सजनीयसूक्तम्?
उत्तरम्—ऋग्वेदस्य द्वितीयमण्डलस्य द्वादशसंख्यके (२/१२) इन्द्रसूक्ते प्रतिमन्त्रस्य अन्ते ʻस जनास इन्द्रःʼ इति वाक्यांशः पठितः। अतः इदं सूक्तं ʻसजनीयसूक्तम्ʼ इत्युच्यते।

३९. किमुच्यते वालखिल्यसूक्तम्?
उक्तम्--  ऋग्वेदस्य अष्टममण्डलस्य एकादश-सूक्तानां अष्टाशीति-मन्त्राणां द्रष्टारः वालखिल्यनामकाः ऋषयः। अतः एतानि सूक्तानि ʻवालखिल्यसूक्तम्ʼ इत्युच्यते।

४०. किमुच्यते प्रगाथमण्डलम्?
उत्तरम्--  ऋग्वेदस्य अष्टममण्डलम् प्रगाथमण्डलम् इत्युच्यते। अस्य मण्डलस्य मन्त्राः प्रगाथनाम्ना मिश्रछन्दसा विधृताः, तथा प्रगाथनाम्ना ऋषिणा संकलिताः। अतः इदं मण्डलं प्रगाथमण्डलम् इत्युच्यते। सोमयागे उद्गाता एतान् मन्त्रान् पठन्ति, तस्मात् इदम् उद्गातृमण्डलमपि उच्यते।

४१. किमुच्यते सोममण्डलम्?
उत्तरम्-- ऋग्वेदस्य नवममण्डलम् सोममण्डलम् इत्युच्यते। अत्र विविधैः ऋषिभिः दृष्टाः सोममन्त्राः संगृहीताः। अस्य मण्डलस्य देवता पवमानः सोमः। अतः इदं सोमण्डलम् इत्युच्यते। अस्य अपरं नाम पवमानमण्डलम् इति।

४२. किमुच्यते प्रकीर्णमण्डलम्?
उत्तरम्--  ऋग्वेदस्य प्रथममण्डलम् दशममण्डलम् च एकत्रम् प्रकीर्णमण्डलम् इत्युच्यते। द्वयोः मण्डलयोरेव १९१ संख्यकानि सूक्तानि सन्ति। द्वयोरेव मण्डलयोः प्रथमसूक्स्य देवता अग्निः इति।

४३. किमुच्यते आप्रीसूक्तम्?
उक्तम्--  ऋग्वेदस्य येषु सूक्तेषु आप्री-नामकानां देवतानां स्तुतिः अस्ति तानि सूक्तानि ʻआप्रीसूक्तम्ʼ इत्युच्यते। आप्रीदेवताः द्वादशसंख्यकाः।

४४. ऋग्वेदस्य पदपाठस्य रचयिता कः?
उत्तरम्—ऋषिः शाकल्यः ऋग्वेदस्य पदपाठस्य रचयिता।

४५. किमुच्यते नाराशंसीसूक्तम्?
उत्तरम्--  राज्ञा प्रदत्तं प्रभूतं धनं प्राप्य ऋषिभिः विहिताः तस्य राज्ञः स्तुतयः येषु सूक्तेषु विधृताः तानि सूक्तानि ʻनाराशंसीसूक्तम्ʼ इत्युच्यते।

४६. का उच्यते मन्त्रोपनिषद् / ब्राह्मणोपनिषद् / आरण्यकोपनिषद्?
उत्तरम्--  वेदस्य मन्त्रभागान्तर्गता उपनिषद् मन्त्रोपनिषद् इत्युच्यते। एकमात्रं मन्त्रोपनिषद् ईशोपनिषद् इति।
वेदस्य ब्राह्मणभागान्तर्गता उपनिषद् ब्राह्मणोपनिषद् इत्युच्यते। यथा—केनोपनिषद् सामवेदस्य जैमिनीय-ब्राह्मणस्य अन्तर्गता।
वेदस्य आरण्यकभागान्तर्गता उपनिषद् आरण्यकोपनिषद् इत्युच्यते। यथा—ऐतरेयोपनिषद्, तैत्तिरीयोपनिषद्, बृहदारण्यकोपनिषद्, छान्दोग्योपनिषद् चेति।

४७. ऋग्वेदस्य / सामवेदस्य / यजुर्वेदस्य आरण्यकस्य नाम लिख्यताम्।
उत्तरम्--  ऋग्वेदस्य द्वे आरण्यके। यथा—ऐतरेयारण्यकम्, कौषीतकि आरण्यकम् इति।
सामवेदस्य आरण्यकम् छान्दोग्यारण्यकम् इति।
कृष्णयजुर्वेदस्य आरण्यकम् तैत्तिरीयारण्यकम् इति।
शुक्लयजुर्वेदस्य आरण्यकम् बृहदारण्यकम् इति।

४८. भारतीय-मार्गसङ्गीतस्य सप्तानां स्वराणाम् उत्सः कः वेदः?
उत्तरम्-- भारतीय-मार्गसङ्गीतस्य सप्तानां स्वराणाम् (सा रे गा मा पा धा नि) उत्सः सामवेदः इति। सामगानस्य सप्त स्वराः (क्रुष्टः, प्रथमः, द्वितीयः, तृतीयः, चतुर्थः, मन्द्रः, अतिसार्यः) भारतीय-मार्गसङ्गीतस्य सप्तानां स्वराणाम् उत्सस्वरूपाः। सङ्गीतसुधाकरस्य टीकाकारः कल्लिनाथ आह-- ʻक्रुष्ट-प्रथम-द्वितीय-तृतीय-चतुर्थ-मन्द्रातिसार्याख्याःʼ।

४९. अथर्ववेदस्य प्राचीनं नाम किम्?
उत्तरम्-- अथर्ववेदस्य प्राचीनं नाम ʻअथर्वाङ्गिरसःʼ इति। अस्य अपरं नामद्वयम्--  भृग्वाङ्गिरसः ब्रह्मवेदः चेति।

५०. का उच्यते पुरोहितसंहिता (priestly poetry)?
उत्तरम्--  अथर्ववेदः पुरोहितसंहिता इत्युच्यते। अथर्ववेदे वर्णितानां शान्ति-पौष्टिकादि-मङ्गलजनकानां कर्मणां सम्पादयिता निर्दिष्टश्रेण्याः पुरोहितः, तथा मारणाद्यभिचारमूलकानां कर्मणां सम्पादयिता भिन्नश्रेम्याः पुरोहितः। पुरोहितस्य प्राधान्यात् अथर्ववेदः पुरोहितसंहिता इत्युच्यते।

५१. का उच्यते जनगणसंहिता (popular poetry)?
उत्तरम्--  ऋग्वेदः जनगणसंहिता इत्युच्यते। अत्र विविधेषु सूक्तेषु देवदेवीनां स्तुतिषु प्राकृतजनानां मनसः भावः एव सुव्यक्तः।

५२. भारतीय-भेषजविद्यायाः इन्द्रजालविद्यायाः च उत्सः कः ग्रन्थः?
उत्तरम्-- भारतीय-भेषजविद्यायाः इन्द्रजालविद्यायाः च उत्सः ग्रन्थः अथर्ववेदः इति।

५३. क उच्यते आजानदेवः / कर्मदेवः?
उत्तरम्—वेदे स्तुताः ये खलु देवाः जन्मरहिताः, येषां देवत्वं स्वतःसिद्धम्, ते ʻआजानदेवःʼ इत्युच्यन्ते। यथा—अग्निः, इन्द्रः, वरुणः, सूर्यः, सोमः, रुद्रः प्रमुखाः आजानदेवाः।
ये खलु देवाः पूर्वं मनुष्याः आसन्, ततः तपसा पुण्यकर्मणा वा देवत्वं प्राप्ताः, ते ʻकर्मदेवःʼ इत्युच्यन्ते। यथा—ऋभुगणः, अश्वियुगलम् इति।

५४. वैदिकयुगे कतिविधाः आचार्याः आसन्?
उत्तरम्—वैदिकयुगे द्वौ प्रकारौ आचार्यौ आस्ताम्। यथा--  चरकः कुलपतिः चेति।
ʻचरकःʼ इति नाम आचार्याः विभिन्नेषु स्थानेषु विचरन्तः ब्रह्मचारिणः शिक्षां ददति स्म। अतः तेषां ʻचरकःʼ इत्यभिधानम्। यस्य आचार्यस्य अधीने दश सहस्रं छात्राः अध्ययनं कुर्वन्ति स्म, सः कुलपतिः इत्युच्यते।

५५. वैदिकयुगस्य मुख्यानां क्षत्रिय-जातीयानाम् आचार्याणां नामानि लिखत।
उत्तरम्—वैदिकयुगे मुख्याः क्षत्रियाः आचार्याः यथा--  विदेहराजः जनकः, राजा प्रवहणः जैवलिः, राजा अश्वपतिः केकयः प्रमुखाः।

५६. वेदे कास्तावत् मुख्याः नारीदेवताः स्तुताः?
उत्तरम्—वेदे स्तुताः मुख्याः नारीदेवताः यथा--  वाक्, रात्रीदेवी, सूर्या, इला, सीता, सरण्यूः, असूदेवी, राका प्रमुखाः।

५७. अधर्ववेदस्य शाखानां नामानि लिखत।
उत्तरम्—अथर्ववेदस्य द्वे शाखे। यथा--  शौनकः पिप्पलादः चेति।

५८. अथर्ववेदे कति काण्डानि, सूक्तानि, मन्त्राश्च सन्ति?
उत्तरम्-- अथर्ववेदे २० काण्डानि, ७३१ सूक्तानि, प्रायः ६००० मन्त्राश्च सन्ति।

५९. किमुच्यते उपाङ्गम्?
उत्तरम्—वेदाङ्गं व्यतिरिच्य वेदाध्ययनस्य उपयोगिनः केचित् ग्रन्थाः सन्ति। यथा—प्रातिशाख्यम्, बृहद्देवता, देवानुक्रमणी, छन्दानुक्रमणी, सर्वानुर्कमणी इत्यादयः। एषां ग्रन्थानामेव ʻउपाङ्गम्ʼ इत्यभिधानम्। 

६०. वेदे कास्तावत् गणदेवतारूपेण उल्लिखिताः?
उत्तरम्—वेदे रुद्रगणः, विश्वदेवगणः, मरुत्गणः, वसुगणः इत्यादयः गणदेवतारूपेण उल्लिखिताः।

६१. भारतीय-भाषातत्त्वस्य प्राचीनतमः ग्रन्थः कः?
उत्तरम्-- भारतीय-भाषातत्त्वस्य प्राचीनतमः ग्रन्थः यास्काचार्यस्य निरुक्तम् इति। अस्य ग्रन्थस्य नैगमकाण्डे भाषातत्त्वम् आलोचितम्।
------

Comments

Ads

Popular

১. প্রাচীনভারতীয় আয়ুর্বেদশাস্ত্র (Medical Science), ২. বাস্তুশাস্ত্রম্‌ (C-8, Unit II: Scientific and Technical Literature)

বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—

3rd Sem, SEC-1, Usage of words in day-to-day life-1