Posts

Showing posts from April, 2019

ads

ad

SEC-2, Short Questions (Self-Management in Gita), 4th Semester, CBPBU

SEC-2, Short Questions (Self-Management in Gita), 4th Semester, CBPBU
१.इन्द्रियेभ्यः परं किम् अस्ति? उत्तरम्-- इन्द्रियेभ्यः परं मनः अस्ति।
२. मनसः परं किम् अस्ति। उत्तरम्-- मनसः परम् बुद्धिः अस्ति।
३. बुद्धेः परतः किम् अस्ति? उत्तरम्-- बुद्धेः परतः आत्मा अस्ति।
४. कः खलु आत्मा? उत्तरम्-- -- बुद्धेः परतः यः अस्ति स एव आत्मा।
५. कामरूपः शत्रुः कथं विनाश्यते? उत्तरम्—आत्मना आत्मानं संस्तभ्य कामरूपः शत्रुः विनास्यते।
६. कस्य कः सनातनः अंशः? उत्तरम्—भगवतः श्रीकृष्णस्य सनातनः अंशः जीवः।
७. जीवलोके कः कम् आकर्षति? उत्तरम्-- भगवतः श्रीकृष्णस्य सनातनः अंशः जीवः मनःषष्ठानि इन्द्रियाणि जीवलोके आकर्षति।
. कानि तावत् मनःषष्ठानि इन्द्रियाणि? उत्तरम्—श्रोत्रं, चक्षुः, स्पर्शनं, रसनं, घ्राणं(चक्षुः, कर्णः, नासिका, जिह्वा, त्वक् ) चेति पञ्च इन्द्रियाणि, तथा मनः इति समवायेन मनःषष्ठानि इन्द्रियाणि।
९. कः कथं विषयान् उपसेवते? उत्तरम्—जीवा

३. वेदे उपसर्गाणां प्रयोगः, C-10, Unit-II, Vedic Grammar

३. वेदे उपसर्गाणां प्रयोगः
वैदिक-लौकिक-संस्कृतयोः अन्यतमं वैशिष्ट्यम् उपसर्गाणां प्रयोगः इति। निरुक्तकारः यास्कः उपसर्गस्य पदत्वं स्वीकृत्य आह--ʻचत्वारि पदजातानि। नामाख्याते चोपसर्गनिपाताश्चेति।ʼलोकिक-संस्कृते उपसर्गः क्रियया सह संयुज्यते, तथा धातोः पूर्वं प्रयुज्यते। पाणिनिना सूत्रं कृतम्--ʻउपसर्गाः क्रियायोगेʼ, तथा ʻते प्राग्धातोःʼ इति। वैदिकभाषायाम् उपसर्गः नियमितक्रमेण धातोः पूर्वं न प्रयुज्यते। उपसर्गयोगेन धातोः अर्थः परिवर्तते। अस्मिन् विषये कारिका यथा— ʻधात्वर्थं बाधते क्वचित् क्वचित्तमर्थमनुवर्तते। विशिनष्टि तमेवार्थमुपसर्ग-गतिस्त्रिधा।।ʼ अर्थात् उपसर्गः क्वचित् धातोः मुख्यम् अर्थं बाधित्वाअन्यम् अर्थं प्रकाशयति, क्वचित् धातोः अर्थमेव अनुसरति, क्वचिद् वा धातोः अर्थमेव विशिनष्टि। विंशतिः उपसर्गाः। कारिकायामुक्तम्— ʻप्र-पराप-समन्वव-निर्दुरभि-व्यधि-सूदति-नि-प्रतिपर्यनवः। उप आङिति विंशतिरेष सखे उपसर्गविधिः कथितः कविना।।ʼ वैदिकभाषायाम् उपसर्गाणां प्रयोगविधिः— १. साधारण-नियमेन उपसर्गाः धातोः पूर्वं धातुना सह एव प्रयुज्यन्ते, परन्तु वैदिकभाषायाम् धातोः विच्छिन्ना अपि उपसर्गाः प्रयुज्यन्ते। अ…

Ads