Posts

Showing posts from June, 2019

ads

ad

Self-Management in the Gita (Syllabus (SEC-2, Unit-III) 4thSem (Sanskrit)(CBPBU) टिप्पणी लेखनीया।

Self-Management in the Gita  (SEC-2, Unit-III) 4thSem (Sanskrit)(CBPBU) टिप्पणी लेखनीया।
निष्कामकर्म ʻन हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्ʼ । यतः प्रकृतिजैः सत्त्व-रजस्तमोभिः गुणैः अवशः सन् सर्व एव कर्म करोति। अस्माकं संसारबन्धनस्य कारणं कर्म एव। किं तर्हि कर्म न कर्तव्यम्, उत त्याज्यम्? अत्र उक्तं श्रीकृष्णेन— ʻन कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते। न च संनस्यनादेव सिद्धिं समधिगच्छति।।ʼ कर्मणः अकरणाद् अथवा कर्मत्यागात् सिद्धिं न लभ्येत। अत्र प्रश्नः—कर्मणा बन्धनं जायते, कर्मणः अनारम्भः कर्मत्यागः चापि न सम्भवेत्। तर्हि किं करणीयम्? अस्य समाधानरूपेण भगवता श्रीकृष्णेन निष्काम-कर्मणः उपदेशः प्रदत्तः-- ʻकर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहुतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।ʼ (II.47) कर्मणि एव जीवस्य अधिकारः, न फले। अर्थात् कर्मफलं यथा कर्मप्रवृत्तेः हेतुः न भवेत्, यथा च कर्मत्यागे अपि प्रवृत्तिः न स्यात् तदर्थं फलाकाङ्क्षां वर्जयित्वा कर्म कर्तव्यम्। निष्कामकर्म अपि न उद्देश्यहीनम्। लोकसंग्रहार्थं निष्कामकर्म क्रियते। भगवतः सृष्टिरक्षा एव अस्य उद्देश्यम्। तत्तु भगवतः कर्म ज…

Self-Management in the Gita (Syllabus (SEC-2, Unit-I) 4thSem (Sanskrit)(CBPBU) प्रश्नोत्तरम्-२

Self-Management in the Gita (Syllabus (SEC-2, Unit-I) 4thSem (Sanskrit)(CBPBU) प्रश्नोत्तरम्-२
. सत्त्व-रजस्तमः इति गुणत्रयस्य स्वरूपम्, कार्यं च सत्त्व-रजस्तमः इति भारतीय-दर्शने स्वीकृतं गुणत्रयम्। सर्वदर्शनस्य समन्वयरूपायां गीतायामपि गुणत्रयस्य स्वरूपं कार्यं च सम्यग् आलोचितम्। प्रकृतिजातम् इदं गुणत्रयं देहमध्ये अविकारिणम् आत्मानं निबध्नति। उक्तं च श्रीकृष्णेन गीतायाम्— ʻसत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः। निबध्नन्ति महाबाहो देहे देहिनमव्ययम्।।ʼ (XIV.5) जीवात्मा अविकारी अपि प्रकृतेः गुणसङ्गवशात् देहात्मभावं प्राप्य सुख-दुःख-मोहादिभिः आच्छन्नः भवति। सत्त्वगुणस्य स्वरूपं कार्यं च— ʻतत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम्। सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ।।ʼ (XIV.6) सत्त्वगुणः निर्मलः, प्रकाशकः, अनामयश्च। अयं गुणः सुखसङ्गेन ज्ञानसङ्गेन च आत्मानं बध्नाति। सत्त्वगुणस्य द्वौ धर्मौ—सुखं ज्ञानं चेति। अत्र सुखं ज्ञानं च बन्धनकारणम् इत्युच्यते। इदं सुखं न आत्मानन्दम्। सुखदुःखादिः देहधर्मः, न तु आत्मधर्मः, अतः अविद्या। इदं ज्ञानमपि न आत्मज्ञानम्। सत्त्वगुणः कदा प्रवलः भवति इत्यस्मिन् विषये गीता…

Self-Management in the Gita (SEC-2, Unit-I) 4thSem (Sanskrit)(CBPBU), प्रश्नोत्तरम्

Self-Management in the Gita (SEC-2, Unit-I) 4thSem (Sanskrit)(CBPBU), प्रश्नोत्तरम्
१.इन्द्रिय-मनोबुद्धि-आत्मनां स्वरूपम्, तथा आत्मनः श्रेष्ठत्वम्
विषयवासनारूपः कामः अस्माकं सर्वबन्धनस्य मूलम्। रूप-रसादीन् विषयान् प्रति इन्द्रियाणां यत् स्वाभाविकम् आकर्षणं तदेव कामः इति। इन्द्रियाणि मनः बुद्धिश्चेति एतत्त्रयं कामस्य अधिष्ठानम्। अयं कामः इन्द्रियमनोबुद्धिभिः ज्ञानमावृत्य जीवं विमोहयति। चक्षुः, कर्णः, नासिका, जिह्वा त्वक् चेति पञ्च ज्ञानेन्द्रियानि, तथा वाक्, पाणि, पादः, पायुः उपस्थश्चेति पञ्च कर्मेन्द्रियाणि। जीवः इन्द्रियाणि मनश्च आश्रित्य शब्दादीन् विषयान् उपसेवते। उक्तं च गीतायां श्रीकृष्णेन— ʻश्रोत्रं चक्षुः स्पर्शनञ्च रसनं घ्राणमेव च। अधिष्ठाय मनश्चायं विषयानुपसेवते।।ʼ अत्र ʻघ्राणमेव चʼ, ʻमनश्चʼ इति पदद्वयस्य चकारेण इदं बोद्धव्यं यत् अत्र शव्दः, स्पर्शः, रूपं, रसः, गन्धश्चेति पञ्च तन्मात्रम्, पञ्च ज्ञानेन्द्रियाणि, बुद्धिः अहङ्कारश्च समाविश्यन्ते। ʻमनो नाम सङ्कल्प-विकल्पात्मिका अन्तःकरणवृत्तिः, बुद्धिर्नाम निश्चयात्मिका अन्तःकरणवृत्तिःʼ इति वेदान्तसारः। साधारणभावेन बुद्धि-शब्दस्य अर्थः…

C-9, Unit-I, Kautiliyam Arthasatram, Short questions

C-9, Unit-I, Kautiliyam Arthasatram, Short questions
१. का नाम विद्या? उत्तरम्-- ʻविद्याʼ शब्दस्य साधारणः अर्थः ʻज्ञानम्ʼ, अर्थात् शिक्षणीयाः विषयाः।
२. विद्या कतिविधा? उत्तरम्—विद्या चतुर्विधा। यथा-- आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चेति।
३.का उच्यते आन्वीक्षिकी? उत्तरम्-- सांख्यं योगो लोकायतं च इति आन्वीक्षिकी।
४. का उच्यते त्रयी? उत्तरम्-- ʻसामर्ग्यजुर्वेदास्त्रयस्त्रयी।ʼ ऋक्, साम, यजुश्चेति त्रयः वेदाः त्रयी इत्युच्यते।
५. का उच्यते वार्ता? उत्तरम्-- ʻकृषिपाशुपाल्ये वणिज्या च वार्ताʼ इति कौटिल्यः।
६. का खलु दण्डनीतिः? उत्तरम्-- कौटिल्येन उक्तम्-- ʻआन्विक्षिकी-त्रयी-वार्तानां योगक्षेमसाधनो दण्डः। तस्य नीतिर्दण्डनीतिः।ʼ
७. कानि तावत् मन्त्रणाकार्यस्य अङ्गानि? उत्तरम्-- मन्त्रणाकार्यस्य पञ्च अङ्गानि सन्ति। यथा-- कर्मणामारम्भोपायः, पुरुषद्रव्यसम्पद्, देशकालविभागः, विनिपातप्रतीकारः कार्यसिद्धिरिति ।
८. क उच्यते अरिषड्वर्गः? उत्तरम्-- ʻअरिःʼ इत्यस्य अर्थः शत्रुः। षण्णाम् अरीणां समाहारः इति अरिषड्वर्गः। आचार्यस्य कौटिल्यस्य मतानुसारेण कामः, क्रोधः, लोभः, मानम्, मदः हर्षश्चेति षट् अरयः।
९. क उच्यते त्…

C-9, Unit-I, Kautiliyam Arthasatram, Short notes

C-9, Unit-I, Kautiliyam Arthasatram, Short notes

१. आन्वीक्षिकी आन्वीक्षिकी-विद्यायाः स्वरूपविषये कौटिल्येन उक्तम्-- ʻसांख्यं योगो लोकायतं चेत्यान्वीक्षिकी।ʼ अर्थात् सांख्यशास्त्रम्, योगशास्त्रम्, लोकायतं च एतत्त्रयम् आन्वीक्षिकी इत्युच्यते। प्रत्यक्षेण अनुमानेन वा ज्ञातपदार्थस्य पुनः अन्वीक्षा विचारपूर्वकं दर्शनमेव आन्वीक्षिकी। अस्मिन् अर्थे युक्तिविद्या तर्कशास्त्रम् वा आन्वीक्षिकी इत्युच्यते। आन्विक्षिकी-विद्यायाः उपयोगिता-विषयेकौटिल्येन उक्तम्-- ʻबलाबले चैतासां हेतुभिरन्वीक्षमाणा लोकस्योपकरोति, व्यसनेऽभ्युदये च बुद्धिमवस्थापयति, प्रज्ञा-वाक्य-क्रियावैशारद्यं च करोति।ʼ अर्थात् आन्वीक्षिकी विद्या युक्तिद्वारा विचार्य अन्यासां तिसृणां विद्यानां प्राधान्यम् अप्राधान्यं च निर्धारयति, विपदि अभ्युदये च बुद्धिं स्थिरं रक्षति, मनुष्यान् प्रज्ञावन्तः, वाक्यप्रयोगे कर्मणि च दक्षतां प्रददाति। अत उच्यते— ʻप्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्। आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता।।ʼ
२. दण्डनीति— दण्डनीतेः स्वरूपविषये कौटिल्येन उक्तम्--ʻआन्वीक्षिकी-त्रयी-वार्तानां योगक्षेमसाधनो दण्डः। तस्य नीतिर्…

Ads